भारतीयकालमानः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
भारतीयकालमानः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 9 अप्रैल 2015

भारतीयकालमानः / भारतीयपञ्चाङ्गम्



पञ्चाङ्गम् इति भारतीयकालगणनायाः विशिष्टं नाम अस्ति । तिथिःवासरःनक्षत्रम्,योगःकरणम् इति पञ्च अङ्गानि दिननिदेशर्थं भवन्ति । वर्षे ३६५दिनानि भवन्ति । अस्य संवत्सरम् इति नाम । प्रतिसंवत्सरं उत्तरायणं दक्षिणायनम् चेति द्वे अयने भवतः । प्रतिवर्षं ६ऋतवः १२मासाः भवन्ति । प्रतिमासं शुक्लपक्षः कृष्णपक्षः इति भागद्वयम् अस्ति । प्रत्येकस्मिन् पक्षे १५तिथयः भवन्ति । सप्तवासराः सन्ति । आवर्तनेन प्रतिदिनं कश्चित् वासरनाम भवति । एवमेव प्रतिदिनस्य २७नक्षत्रेषु किञ्चित्,२७योगेषु कश्चित्११करणेषु किञ्चित्१५तिथिषु काचित्निर्दिष्टः भवति एव ।

६० संवत्सराणि
 अयने
 ऋतवः
१२ मासाः
 पक्षे
 वासराः
२७ नक्षत्राणि
१२ राशयः
२७ योगाः
११ करणानि



चतुर्युगानि
४ चरणाः (1,728,000 सौरवर्षाणि
सत्ययुगम्
३ चरणाः (1,296,000 सौरवर्षाणि)
त्रेतायुगम्
२ चरणाः (८६४००० सौरवर्षाणि)
द्वापरयुगम्
१ चरणाः (४३२००० सौरवर्षाणि)
कलियुगम्

सत्ययुगम्/कृतयुगम्

चतुर्षु युगेषु सत्ययुगं अथवा कृतयुगं प्रथमं युगं भवति । यद्यपि प्राचीनवैदिकग्रन्थेषु सत्यत्रेतादीनां युगानां स्पष्टप्रसावः नास्ति तथापि स्मृतिषु पुराणेषु च विशेषतः चतुर्युगानां सविस्तारं प्रतिपादनम् अस्ति । पुराणेषु सत्ययुगस्य विषये एवं विवरणं लभते । वैशाखशुक्लस्य अक्षय्यतृतीयायां भानुवासरे अस्य युगस्य आरम्भः अभवत् । अस्य युगस्य परिमाणहः सौरवर्षाणि । अस्मिन् युगे भगवतः मत्स्यः कूर्मः वराहः नरसिहः इति अवताराः अभवन् । अस्मिन् कले स्वर्णमयस्य व्यवहारपत्राणि प्रचुराणि आसन् । मनुष्यः अत्यन्तं दीर्घकायः अतिदीर्घायुष्मान् आसीत् । अस्य प्रधानं तीर्थक्षेत्रं तु कुरुक्षेत्रम् आसीत् । अस्मिन् युगे ध्यानस्य ज्ञानस्य तपसः प्राधान्यम् आसीत् । प्रत्येका प्रजा पुरुषार्थसिद्धिं प्राप्य कृतकृत्या भवति स्म । अतः अस्य कृतयुगम् इति कथ्यते । चतुष्पादः (पूर्णःधर्मः परिपालितः असीत् । मनुना अवलम्बितं शास्त्रं केवलं धर्मशास्त्रम् आसीत् । महाभारते (वनपर्वणिअस्य युगस्य विषये विशेषमतं मिलति यत् कलियुगात् अनन्तरं कल्किद्वारा अस्ययुगस्य पुनः स्थपनं भविष्यति ।
ब्रह्मणः एकः दिवसः नाम १००००भगेषु कृतेषु एकस्य चरणः इति कथ्यते ।

कलियुगम्
कलियुगं पारम्परिकभारतस्य चतुर्थं युगम् अस्ति । आर्यभाटानुसारं महाभारतयुद्धं क्रि.पू.३१३७तमे वर्षे अभवत् । कलियुगस्य आरम्भः कृष्णरचितस्य अस्य युद्धस्य समाप्तेः ३५वर्षाणाम् अनन्तरम् अभवत् ।Encyclopedia of Hinduism अस्यानुबन्धानुगुणं भगवान् श्रीकृष्णः अस्याः पृथिवीतः प्रस्थानात् अनन्तरं क्रि.पू.३१०२वर्षतः एव कलियुगस्यारम्भः सम्भूतः ।

पौराणिपृष्ठभूमिः
धार्मराजः युधिष्ठिरःभीमसेनःअर्जुनःनकुलःसहदेवः च पञ्च पाण्डवाः माहापराक्रमिणे परीक्षिताय राज्यं समर्प्य महाप्रायाणस्य आरम्बम् अकुर्वन् । अपि च तं पुण्यलोकं प्राप्नुवन् । राजा परीक्षितः धर्मानुसारं ब्राह्मणानम् आज्ञानुसारं राज्यं प्रशासितुम् आरब्धवान् । उत्तरनरेशस्य पुत्रीम् इरावतीं परिणीतवान् । अस्य सुखदाम्पत्यस्य फलरूपेण चत्वारः पुत्राः समभवन् । आचार्यं कृपं गुरुं कृत्वा जाह्नव्याः तटे त्रयः अश्वमेधयागान् अकुर्वन् । यज्ञव्याजेन यथेष्टं धनराशिं ब्राह्मणेषु वितीर्णवन्तः । पुनः दिग्विजयार्थं प्रातिष्ठन्त ।