अभिज्ञानशाकुन्तलम्






 (ग्रन्थकर्ता  कालिदासः)



प्रथमोऽङ्कः

(श्लोकः)-
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रूतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥
(
नान्द्यन्ते)
सूत्रधारः – (नेपथ्याभिमुखमवलोक्य) आर्ये, यदि नेपथ्यविधानमवसितम् ।
इतस्तावदागम्यताम् । (प्रविश्य)
नटी - आर्यपुत्र, इयमस्मि ।.
सूत्रधारः आर्ये अभिरुपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथि-
तवस्तुना नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यम्
अस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
नटी -सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
सूत्रधारः आर्ये, कथयामि ते भूतार्थम् ।
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥२॥
नटी - आर्य, एवमेतत् अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः - किमन्यदस्याः परिषदः श्रुतीप्रसादनतः ? तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं
ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि,
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥३॥
नटी - तथा
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥४॥
सूत्रधारः आर्ये, साधु गीतम् । अहो रागबध्दचित्तवृत्तिरालिखित इव सर्वतो
रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनामाराधयामः ?
नटी - नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं
प्रयोगे अधिक्रियतामिति ?
सूत्रधारं - अर्ये,सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया
तत् । कुतः
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥५॥
(
इति निष्क्रान्तौ)
प्रस्तावना
(
ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च )
सूतः - (राजानं मृगं चावलोक्य) आयुष्मन् !
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥६॥
राजा - सूत, दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बध्ददृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ ८॥
(
सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः !
सूतः -आयुष्मन्, उद्घातिनी भूमिरिति मया रश्मिसंयमनाद् रथस्य
मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति
समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
राजा - तेन हि मुच्यन्तामभीषवः ।
सूतः - यदाज्ञापयत्यायुष्मान् (रथवेगं निरुप्य )
आयुष्मन्, पश्य पश्य ।
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्प चामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोध्दतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥८॥
राजा - सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखां नयनयो
र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥९॥
         
सूत, पश्यैनं व्यापाद्यमानम् ।(इति शरसन्धानं नाटयति )
(
नेपथ्ये) भो भो राजन्, आश्रममृगोऽयं, न हन्तव्यो न हन्तव्यः ।
सूतः - (आकर्ण्यावलोक्य च) आयुष्मन्, अस्य खलु ते बाणपातवर्तिनः
कृष्णसारस्यान्तरे तपस्विन उपस्थिताः ।
राजा - (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः - तथा (इति रथं स्थापयति)
(
ततः प्रविशत्यात्मना तृतीयो वैखानसः)
वैखानसः – (हस्तमुद्यम्य) राजन्, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं
क्व च निशितनिपाता वज्रसाराः शरास्ते ॥१०॥

तत्साधुकृतसन्धानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥११॥
राजा:: -एष प्रतिसंहृतः ।
वैखानसः- सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरुपमिदं तव ।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥१२॥
इतरौ - (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजा - (सप्रणामम्) प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः- राजन्, समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य
कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः
प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च;
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवालोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥१३॥
राजा - अपि सन्निहितोऽत्र कुलपतिः ?
वैखानसः- इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः
प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजा - भवतु । तामेव द्रक्ष्यामि । सा खलु विदितभक्तिं मां महर्षेः
कथयिष्यति ।
वैखानसः - साधयामस्तावत् । (इति सशिष्यो निष्क्रान्तः)
राजा - सूत, चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः - यदाज्ञापयत्यायुष्मान् । इति भूयो रथवेगं निरुपयति ।
राजा - (समन्तादवलोक्य) सूत, अकथितोऽपि ज्ञायत एव यथायमा-
श्रमाभोगस्तपोवनस्येति ।
सूतः - कथमिव
राजा - किं न पश्यति भवान् ? इह हि,
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः
प्रस्निग्धा क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
सूतः - सर्वमुपपन्नम् ।
राजा - (स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् । इहैव
रथं स्थापय, यावदवतरामि ।
सूतः - धृताः प्रग्रहाः अवतरत्वायुष्मान् ।
राजा - (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं
तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति)
सूत, यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां
वाजिनः ।
सूतः - तथा । (इति निष्क्रान्तः)
राजा - (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(
प्रविश्य, निमित्तं सूचयन्)
शान्तमिदमाशमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥
(
नेपथ्ये) इत इतः सख्यौ
राजा - (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र
गच्छामि । (परिक्रम्यावलोक्य च) एतास्तपस्विकन्यकाः
स्वप्रमाणानुरुपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवा-
भिवर्तन्ते । (निपुणं निरुप्य) अहो, मधुरमासां दर्शनम् ।
शुध्दान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१६॥
यावदिमां छायामाश्रित्य प्रतिपालयामि । (इति विलोकयन् स्थितः)
(
ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
शकुन्तला इत इतः सख्यौ ।
अनसूया हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतराः
इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामाल-
वालपूरणे नियुक्ता ।
शकुन्तला न केवलं तातनियोग एव । अस्ति मे सोदस्नेहोऽप्येतेषु (इति
वृक्षसेचनं निरुपयति)
राजा - कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो
य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपु
स्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां च्छेत्तुमृषिव्यवस्यति ॥१७॥
भवतु, पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
(
इति तथा करोति)
शकुन्तला - सखि अनसूये, अतिपिनध्देन वल्कलेन प्रियंवदया नियन्त्रि-
तास्मि । शिथिलय तावदेतत् ।
अनसूया-तथा (इति शिथिलयति)
प्रियंवदा - अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । (मां
किमुपालभसे?)
राजा - काममननुरुपमस्या वपुषो वल्कलं न पुनरलङ्कारश्रियं न पुष्यति ।
कुतः,-
सरसिजमनुविध्दं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८ ॥
शकुन्तला - (अग्रतोऽवलोक्य) एव वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां
केसरवृक्षकः, यावदेनं संभावयामि । (इति परिक्रामति)
प्रियंवदा - हला शकुन्तले, अत्रैव तावन्मुहूर्तं तिष्ठ, यावत् त्वयोपगतया
लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
शकुन्तला अतः खलु प्रियं वदासि त्वम्!
राजा - प्रियमपि तथ्यमाह (शकुन्तलां) प्रियंवदा । अस्याः खलु,
अधरः किसलयरागः कोमलविटपानुकारिणी । बाहू
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नध्दम् ॥१९॥
अनसूया - हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया
वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि?
शकुन्तलां - तदात्मानमपि विस्मरिष्यामि । (लतामुपेत्यावलोक्य च) हला,
रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः ।
नवकुसुमयौवना वनज्योत्स्ना स्निग्घपल्लवतयोपभोगक्षमः
सहकारः ।
प्रियंवदा - अनसूये, जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यति
इति ?
अनसूया - न खलु विभावयामि । कथय ।
प्रियंवदा - यथा वनज्योत्स्नानुरुपेण पादपेन संगता, अपि नामैवमहम-
प्यात्मनोऽनुरुपं वरं लभेय इति ।

शकुन्तला - एष नूनं तवात्मगतो मनोरथः (इति कलशमावर्जयति)
राजा - अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात्? अथवा कृतं
सन्देहेन ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥२०॥
तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला - (ससंभ्रमम्)अम्मो ! सलिलसेक संभ्रमोद्गतो नवमालिकामुज्झित्वा
वदनं मे मधुकरोऽभिवर्तते (इति भ्रमरबाधां निरुपयति)
राजा - (सस्पृहम्)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनति मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥२१॥
शकुन्तला - न एष धृष्टो विरमति । अन्यतो गमिष्यामि । (पदान्तरे स्थित्वा,
सदृष्टिक्षेपम्) कथमितोऽप्यागच्छति! हला, परित्रायेथां मामनेन
दुर्विनीतेन मधुकरेणाभिभूयमानाम्!
उभे - के आवां परित्रातुम्? दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि
नाम!
राजा - अवसरोऽयमात्मानं प्रदर्शयितुम् । न भेतव्यं न भेतव्यम् ----
(
इत्यर्धोक्त्या स्वगतम् ।) राजभावस्त्वभिज्ञातो भवेत् । भवतु,
एवं तावदभिधास्ये ।
शकुन्तला - (पदान्तरे स्थित्वा, सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति!
राजा - (सत्वरमुपसृत्य)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२२॥
(
सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः)
अनसूया - आर्य, न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणा-
भिभूयमाना कातरीभूता! (इति शकुन्तलां दर्शयति)
राजा - (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते?
(
शकुन्तला साध्वसादवचना तिष्ठति)
अनसूया - इदानीमतिथिविशेषलाभेन । हला शकुन्तले, गच्छोटजम् । फल-
मिश्रमर्ध्यमुपहर । इदं पादोदकं भविष्यति ।
राजा - भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
प्रियंवदा - तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य
परिश्रमविनोदं करोत्वार्यः ।
राजा - नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया - हला शकुन्तले, उचितं नः पर्युपासनमतिथीनाम् । अत्रोपवि-
शामः । (इति सर्व उपविशन्ति)
शकुन्तला - (आत्मगतम्) किंनु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य
गमनीयास्मि संवृत्ता!
राजा - (सर्वा विलोक्य) अहो! समवयोरुपरमणीयं भवतीनां सौहार्दम्!
प्रियंवदा - (जनान्तिकम्) अनसूये, को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं
प्रियमालपन्प्रभाववानिव लक्ष्यते?
अनसूया - सखि, ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । (प्रकाशम्)
आर्यस्य मधुरालापजनितो विस्त्रम्भो मां मन्त्रयते कतम आर्येण
राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः,
किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः?
शकुन्तला - (आत्मगतम्) हृदय, मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया
मन्त्रयते ।
राजा - (आत्मगतम्) कथमिदानीमात्मानं निवेदयामि; कथं वात्मापहारं
करोमि? भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति, यः
पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय
धर्मारण्यमिदमायातः ।
अनसूया - सनाथा इदानी धर्मचारिणः ।
(
शकुन्तला श्रृङ्गारलज्जां रुपयति)
सख्यौ - (उभयोराकारं विदित्वा, जनान्तिकम्) हला शकुन्तले, यद्यत्राद्य
तातः सन्निहितो भवेत्?
शकुन्तला:: - ततः किं भवेत्?
सख्यौ - इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
शकुन्तला - युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं
श्रोष्यामि ।
राजा - वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः?
सख्यौ - आर्य, अनुग्रह इवेयमभ्यर्थना ।
राजा - भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च
वः सखी तदात्मजेति कथमेतत्?
अनसूया श्रृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो
राजर्षिः ।
राजा - अस्ति । श्रूयते ।
अनसूया - तमावयोः प्रियसख्याः प्रभवमवगच्छ । तेन उज्झितायाः शरीर-
संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
राजा - उज्झितशब्देन जनितं मे कौतूहलम्! आमूलात् श्रोतुमिच्छामि ।
अनसूया - श्रृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेः उग्रे तपसि
वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः
प्रेषितानियमविघ्नकारिणी ।
राजा - अस्त्येतदन्यसमाधि भीरुत्वं देवानाम् ।
अनसूया - ततो वसन्तोदार - (वसन्तावतार)-समये तस्या उन्मादयितृ
रुपं प्रेक्ष्य……… (इत्यर्धोक्ते लज्जया विरमति )
राजा - परस्ताज्ज्ञायत एव । सर्वथाप्सरसंभवैषा ।
अनसूया - अथ किम् ?
राजा - उपपद्यते ।
मानुषीषु कथं वा स्यादस्य रुपस्य संभवः
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥२३॥
(
शकुन्तलाधोमुखी तिष्ठति )
राजा - (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्याः परि-
हासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा - (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा )पुनरपि
वक्तुकाम इवार्यः ।
(
शकुन्तला सखीमङ्गुल्या तर्जयति )
राजा - सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि
प्रष्टव्यम् ।
प्रियंवदा - अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम !
राजा - इति सखीं ते ज्ञातुमिच्छामि
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदरेक्षणवल्लभाभि
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥२४॥
प्रियंवदा - आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या
अनुरुपवरप्रदाने सङ्कल्पः ।
राजा - (आत्मगतम्) न दुरवापेयं खलु प्रार्थना !
भव हृदय साभिलाषं संप्रति सन्देहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥२५॥
शकुन्तला - (सरोषमिव) अनसूये, गमिष्याम्यहम् ।
अनसूया - किं निमित्तम ?
शकुन्तला इमामसंबध्दप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
अनसूया - सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो
गमनम् ।
(
शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव )
राजा - (गृहीतुमिच्छन्निगृह्यात्मानम्, आत्मगतम्) अहो चेष्टाप्रतिरुपिका
कामिजनमनोवृत्तिः । अहं हि,
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥२६॥
प्रियंवदा – (शकुन्तलां निरुध्य) हला, न ते युक्तं गन्तुम् ।
शकुन्तला - (सभ्रूभङ्गम्) किं निमित्तम् ?
प्रियंवदा -वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा
ततो गमिष्यसि । (इति बलादेनां निवर्तयति )
राजा - भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथाह्यस्याः-
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बध्दं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥२७॥
तदहमेनामनृणां करोमि (इत्यङ्गुलीयं दातुमिच्छति)
(
उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः )
राजा - अलमस्मानन्यथा संभाव्य । राज्ञः परिग्रहोऽयम् ।----
---------------------
इति राजपुरुषं मामवगच्छथ ।
प्रियंवदा - तेन हि नार्हत्येतदङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेना-
नृणेदानीमेषा । (किञ्चिद्विहस्य) हला शकुन्तले, मोचितास्यनुकम्पिनार्येण ।
अथवा महाराजेन । गच्छेदानीम् ।
शकुन्तला - (आत्मगतम्) यद्यात्मनः प्रभविष्यामि (प्रकाशम्) का त्वं
विस्रष्टव्यस्य रोध्दव्यस्य वा ?
राजा - (शकुन्तलां विलोक्य, आत्मगतम्)किं नु खलु यथा वयमस्या-
मेवमियमप्यस्मान् प्रति स्यात् ? अथवा लब्धावकाशा मे प्रार्थना ।
कुतः;
वाचं न मिश्रयति यद्यपि मे वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥२८॥
(
नेपथ्ये) भो भोस्तपस्विनः सन्निहिताः तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः
किल मृगयाविहारी पार्थिवो दुष्यन्तः !
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥२९॥
अपि च,
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोक भीतः ॥३०॥
(
सर्वाः कर्णं दत्वा किञ्चिदिव संभ्रान्ताः)
राजा - (आत्मगतम्) अहो धिक् ! पौरा अस्मदन्वेषिणः तपोवनमुप-
रुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।
सख्यौ - आर्य, अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानिहि न
उटजगमनाय ।
राजा - (ससंभ्रमम्)गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति
तथा प्रयतिष्यामहे ।
सख्यौ - आर्य, असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे
आर्यं विज्ञापयितुम् ।
राजा - मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
(
शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य
सह सखीभ्यां निष्क्रान्ता )
राजा - मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान् समेत्य
नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि
शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥३१॥
(
इति निष्क्रान्तास्सर्वे)


इति प्रथमोऽङ्कः ।


द्वितीयोऽङ्कः
(ततः प्रविशति विषण्णो विदूषकः)
विदूषकः - (निःश्वस्य) भो दिष्टम् ! एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन
निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्णेऽपि
ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतेऽटवी !
पत्रसङ्करषायाणि कटुकानि गिरिनदी जलानि पीयन्ते । अनियतवेलं
शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसन्धे रात्रावपि
निकामं शयितव्यं नास्ति । ततः महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहण-
कोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न निष्क्रामति ।
ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मासु अवहीनेषु
तत्रभवतो मृगानुसारेणाश्रमं प्रविष्टस्य तापसकन्यका शकुन्तला
ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि च
करोति ! अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् ।
का गतिः ! यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च),
एष एव आगच्छति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा
स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ! (इति दण्डकाष्ठमवलम्ब्य स्थितः ।)
(
ततः प्रविशति यथानिर्दिष्टपरिवारो राजा)
राजा - कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥१॥
(
स्मितं कृत्वा) एवमात्माभिप्रायसंभावितेष्टवनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुध्दया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥२॥
विदूषकः- (तथास्थित एव) भो वयस्य, न मे हस्तपादं प्रसरति । तद्वाङ्मात्रेण्
जाप्यसे ।
राजा - (सस्मितं) कृतोऽयं गात्रोपघातः ?
विदूषकः- कुतः किल स्वयमक्ष्याकृलीकुत्याश्रुकारणं पृच्छसि ?
राजा - न खल्वगच्छामि ।
विदूषकः- भो वयस्य, यद्वेतसः कुब्जलीलां विडम्बयति तत् किमात्मनः
प्रभावेण, ननु नदीवेगस्य ?
राजा - नदीवेगस्तत्र कारणम् ।
विदूषकः- ममापि भवान् ।
राजा - कथमिव ?
विदूषकः एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया
भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभित-
सन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसादयिष्यामि
विस्रष्टुं मामेकाहमपि तावद्विश्रमितुम् ।
राजा - (स्वगतम्) अयं चैवमाह ! ममापि काश्यपसुताम् अनुस्मृत्य
मृगयाविक्लवं चेतः ! कुतः, -
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्ध विलोकितोपदेशः ॥३॥
विदूषकः - (राज्ञो मुखं विलोक्य) अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते
अरण्ये मया रुदितमासीत् !
राजा - (सस्मितम्) किमन्यम् ? अनतिक्रमणीयं मे सुहृद्वाक्यम् इति
स्थितोऽस्मि ।
विदूषकः -चिरं जीव । (इति गन्तुमिच्छति)
राजा - वयस्य, तिष्ठ । सावशेषं मे वचः ।
विदूषकः - आज्ञापयतु भवान् ।
राजा - विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन
भवितव्यम् ।
विदूषकः - किं मोदकखादिकायाम् ? तेन ह्ययं सुगृहीतः क्षणः ।
राजा - यत्र वक्ष्यामि । कः कोऽत्र भोः ?
(
प्रविश्य) दौवारिकः-(प्रणम्य)आज्ञापयतु भर्ता ।
राजा - रैवतक, सेनापतिस्तावदाहूयताम् ।
दौवारिकः तथा (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एष
आज्ञावचनोत्कण्ठो भर्तेतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।
सेनापतिः- (राजानमवलोक्य) दृष्टदोषापि स्वामिनि मृगया केवलं गुणायैव
संवृत्ता । तथा हि देवः,-
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु खेदलेशैरभिन्नम् ।
उपचितमपि गात्रं व्यापतत्वादलक्ष्यं
गिरिजर इव नागः प्राणसारं बिभर्ति ॥४॥
(
उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्र अवस्थीयते ?
राजा - मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
सेनापतिः- (जनान्तिकं) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्त-
वृत्तिमनुवर्तिष्ये ।( प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव
निदर्शनम् !
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ॥
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥५॥
विदूषकः - अपेहि, रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं
तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णक्षस्य
कस्यापि मुखे पतिष्यसि ।
राजा - भद्र सेनापते, आश्रमसन्निकृष्टे स्थिता स्मः । अतस्ते वचो
नाभिनन्दामि । अद्य तावत् ;
गाहन्तां महिषा निपानसलिलं श्रृङ्गैर्मुहुस्ताडितं
छायाबध्दकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्ध क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मध्दनुः ॥६॥
सेनापतिः- यत्प्रभविष्णवे रोचते ।
राजा - तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे
सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेध्दव्याः । पश्य;
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद्वमन्ति ॥७॥
सेनापतिः- यदाज्ञापयति स्वामी ।
विदूषकः - ध्वंसतां त उत्साहवृत्तान्तः । (निष्क्रान्तः सेनापतिः)
राजा - (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेषम् । रैवतक,
त्वमपि स्वं नियोगमशून्यं कुरु ।
परिजनः - यद्देव आज्ञापयति । (इति निष्क्रान्तः)
विदूषकः - कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्मिन् पादपच्छायो-
विरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि
सुखासीना भवामि ।
राजा - गच्छाग्रतः ।
विदूषकः - एतु भवान् (इत्युभौ परिक्रम्योपविष्टौ)
राजा - माधव्य, अनवाप्तचक्षुः फलोऽसि । येन त्वया दर्शनीयं न दृष्टम्
विदूषकः - ननु भवानग्रतो मे वर्तते !
राजा - सर्वः कान्तमात्मीयं पश्यति । अहं तु तामेवाश्रमललामभूतां
शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः - (स्वगतम्) भवतु । अस्यावसरं न दास्ये । (प्रकाशम्) भो वयस्य,
ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजा - सखे, न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥८॥
विदूषकः – (विहस्य) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्त्रिण्यामभिलाषो
भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना ।
राजा - न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः - तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजा - वयस्य, किं बहुना ?
चित्रेनिवेष्य परिकल्पिततत्त्वयोगा
रुपोच्चयेन मनस विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुविभुत्वमनुचिन्त्य वपुश्च तस्याः ॥९॥
विदूषकः - यद्येवं प्रत्यादेश इदानीं रुपवतीनाम् ।
राजा - इदं च मे मनसि वर्तते ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः
अनाविध्दं रत्नं मधुनवमनास्वादितरसम्
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं किमिह समुपस्थास्यति विधिः ॥१०॥
विदूषकः- तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन
इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा - परवती खलु तत्र भवति । न च सन्निहितोऽत्र गुरुजनः ।
विदूषकः - अथ भवन्तमन्तरेण कीदृशस्तस्याः दृष्टिरागः ?
राजा - निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु
अभिमुखे मयि संहृतमीक्षणं
हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥११॥
विदूषकः न खलु दृष्टमात्रस्य तवाङ्गं समारोहति ।
राजा - मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो
भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥१२॥
विदूषकः- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
राजा -सखे, तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्
केनापदेशेन पुनराश्रमपदं गच्छामः ।
विदूषकः - कोऽपरोऽपदेशो युष्माकं राज्ञाम् ? नीवारषष्ठ भागमस्माकमुपह-
रन्त्विति ।
राजा - मूर्ख, अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि
विहायाभिनन्द्यते । पश्य ,-
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपः षडभागमक्षय्यं ददत्यारण्यका हि नः ॥१३॥
(
नेपथ्ये) हन्त ! सिध्दार्थै स्वः ।
राजा - (कर्णं दत्वा) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(
प्रविश्य)दौवारिकः जयतु जयतु भर्ता ! एतौ द्वौ ऋषिकुमारौ
प्रतीहारभूमिमुपस्थितौ ।
राजा - तेन ह्यविलम्बं प्रवेशय तौ ।
दौवारिकः - एष प्रवेशयामि । (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य)
इत इतो भवन्तौ ।
(
उभौ राजानं विलोकयतः)
प्रथमः - अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा-
उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४॥
द्वितीयः - गौतम, अयं स बलभित्सखो दुष्यन्तः ?
प्रथमः - अथ किम् ।
द्वितीयः - तेन हि,-
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम्
एकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुरा बध्दवैरा हि दैत्यैः
अस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १५॥
उभौ - (उपगम्य) विजयस्व राजन् !
राजा - (आसनादुत्थाय) अभिवादये भवन्तौ ।
उभौ - स्वस्ति भवते । (इति फलान्युपहरतः)
राजा - (सप्रणामं परिगृह्य) आज्ञापयितुमिच्छामि ।
उभौ - विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा - किमाज्ञापयन्ति ?
उभौ -तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नम्


उत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथी-
क्रियताम् आश्रमःइति ।
राजा - अनुगृहीतोऽस्मि ।
विदूषकः - (अपवार्य ) एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा - (स्मितं कृत्वा) रैवतक, मद्वचनादुच्यतां सारथिः -सबाणासनं
रथमुपस्थापयइति ।
दौवारिकः- यद्देव आज्ञापयति । (इति निष्क्रान्तः) उभौ –(सहर्षं)
अनुकारिणि पूर्वेषां युक्तरुपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६॥
राजा - (सप्रणामम्)गच्छतां पुरो भवन्तौ । अहमप्यनुपदम् आगत एव ।
उभौ - विजयस्व (इति निष्क्रान्तौ)
राजा - माधव्य, अप्यस्ति शकुन्तलादर्शने कुतूहलम् ?
विदूषकः- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि
नावशेषितः ।
राजा -मा भैषीः । ननु मत्समीपे वर्तिष्यसे
विदूषकः - एष राक्षसाद्रक्षितोऽस्मि ।
(
प्रविश्य)
दौवारिकः - सज्जो रथो भर्तुर्विजनप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः
करभक आगतः ।
राजा - (सादरम्) किमम्बाभिः प्रेषितः ?
दौवारिकः- अथ किम् ?
राजा - ननु प्रवेश्यताम् ।
दौवारिकः- तथा । (इति निष्क्रम्य, करभकेण सह प्रविश्य) एष भर्ता ।
उपसर्प
करभकः - जयतु जयतु भर्ता ! देव्याज्ञापयति आगामिनि चतुर्थदिवसे
प्रवृत्तपारणो मम उपवासो भविष्यति । तत्र दीर्घायुषावश्यं
सन्निहितेन भवितव्यम्इति ।
राजा - इतिस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । यद् द्वयमपि
अननिक्रमणीयम् । किमत्र प्रतिविधेयम् ?
विदूषकः - त्रिशङ्कुरिवान्तराले तिष्ठ ।
राजा - सत्यमाकुलीभूतोऽस्मि ।
कृत्ययौर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्त्रोतोवहो यथा ॥९॥
(
विचिन्त्य) सखे, त्वमम्बया पुत्र इति प्रतिगृहीतः । यतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्य
मनुष्ठातुमर्हति ।
विदूषकः - न खलु मां रक्षोभीरुकं गणयसि !
राजा - (सस्मितं) कथमेतद्भवति संभाव्यते ?
विदूषकः - यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा - ननु तपोवनोविरोधः परिहरणीय इति सर्वाननुयात्रिकास्त्वयैव सह
प्रस्थापयामि ।
विदूषकः - (स्वगतम्) तेन हि युवराजोस्मीदानीं संवृत्तः ।
राजा - (स्वगतम्) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनाम् अन्तः पुरेभ्यः
कथयेत् । भवतु । एनमेवं वक्ष्ये । (विदूषकं हस्तेगृहीत्वा) वयस्य,
ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां
ममाभिलाषः । पश्य,
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥१८॥
विदूषकः - अथ किम् ।
(
इति निष्क्रान्तास्सर्वे )
इति द्वितीयोऽङ्कः


तृतीयोऽङ्कः
(ततः प्रविशति कुशानादाय यजमानशिष्यः)
शिष्यः- अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्र
भवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
का कथा बाणसन्धाने ज्याशब्देन दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥१॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि ।
(परिक्रम्यावलोक्य च, आकाशे ) प्रियंवदे, कस्येदमुशिरानुलेपनं
मृणालवन्ति च नलिनीपत्राणि नीयन्ते ? (श्रुतिमभिनीय) किं
व्रवीषि ? “आतपलङ्घनात् बलवदस्वस्था शकुन्तला । तस्याः
शरीरनिर्वापणायइति ? तर्हि यत्नात् उपचर्यताम् । सा खलु
भगवतः कण्वस्य कुलपतेरुच्छ्वासितम् । अहमपि तावद्वैतानिकं
शान्त्युदकमस्यै गोतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः)
विष्कम्भकः
(ततः प्रविशति कामयमानावस्थो राजा)
राजा- (सचिन्तं निःश्वस्य)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥२॥
(मदनबाधां निरुप्य) भगवन् कुसुमायुध, त्वया चन्द्रमसा च
विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः
द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः
त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥३॥
अथवा
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥४॥
(सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः
श्रमक्लान्तमात्मानं विनोदयामि ? (निः श्वस्य) किं नु खलु मे
प्रियादर्शनादृते शरणमन्यत् ? यावदेनामन्विष्यामि । (शूर्यमवलोक्य)
इमाम् उग्रतपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना
शकुन्तला गमयति । तत्रैव तावद्गच्छामि । (परिक्रम्य संस्पर्शं
रुपयित्वा) अहो, प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥५॥
(परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे
सन्निहितया शकुन्तलया भवितव्यम् । तथा हि ।
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिक्ते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥६॥
यावद्विटपान्तरेणावलोकयामि ।(परिक्रम्य तथा कृत्वा, सहर्षम्)
अये, लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां
विश्रम्भकथितानि । (इति विलोकयन् स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
सख्यौ -::(उपवीज्य सस्नेहं) हला शकुन्तले, अपि सुखाय ते
नलिनीपत्रवातः ?
शकुन्तला- किं मां वीजयतः सख्यौ ?
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
राजा- बलवदस्वस्थशरीरा खलु शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यात्, उत यथा मे मनसि
वर्तते ? (साभिलाषं निर्वर्ण्य) अथवा कृतं सन्देहेन ।
स्तनन्यस्तोशीरं प्रशिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो
र्न तु ग्रीष्मस्यैवं सुभगमपराध्दं युवतिपु ॥७॥
प्रियंवदा- (जनान्तिकम्)अनसूये, तस्य राजर्षेः प्रथमदर्शनात् आरभ्य
पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को
भवेत् ?
अनसूया सखि, ममापीदृश्याशङ्का हृदयस्य । भवतु प्रक्ष्यामि तावदेनाम् ।
(प्रकाशम्) सखि, प्रष्टव्यासि किमपि । बलवान् खलु ते सन्तापः ।
शकुन्तला – (पूर्वार्धेन शयनादुत्थाय) हला, किं वक्तुकामासि ?
अनसूया हला, शकुन्तले, अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य ।
किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते, तादृशी
तव पश्यामि । कथय, किंनिमित्तं ते संतापः ? विकारं खलु
परमार्थतोऽज्ञात्वांनारम्भः प्रतीकारस्य !
राजा- अनसूयामप्यनुगतॆ मदीयस्तर्कः ।
शकुन्तला – (आत्मगतम्) बलवान् खलु मेऽभिनिवेशः ! इदानीमपि सहसैतयोर्न
शक्नोमि निवेदयितुम् ।
प्रियंवदा- सखि, शकुन्तले, सुष्ठु एषा भणति ।
किमात्मन आतङ्कमुपेक्षसे ? अनुदिवसं खलु परिहीयसेऽङ्गैः !
केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
राजा- अवितथमाह प्रियंवदा ! तथा हि, -
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥८॥
शकुन्तला- सखि, कस्य वान्यस्य कथयिष्यामि ? किंत्वायासयित्रीदानीं वां
भविष्यामि ।
उभे- अत एव खलु निर्बन्धः । स्निग्धजन संविभक्तं हि दुःखं सह्यवेदनं
भवति !
राजा-पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण-
मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥९॥
शकुन्तला- सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः
---------------(इत्यर्धॊक्ते लज्जां नाटयति )
उभे- कथयतु प्रियसखी ।
शकुन्तला- तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।
राजा- (सहर्षम्) श्रुतं श्रोतव्यम् !
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥१०॥
शकुन्तला यद्यपि वामनुमतं,तदा तथा वर्तेथां यथा तस्य राजर्षेः अनुकम्पनीया
भवामि । अन्यथावश्यं सिञ्चितं मे तिलोदकम् ।
राजा- संशयच्छेदि वचनम् !
प्रियंवदा- (जनान्तिकम्) अनसूये, दूरगतमन्मथाऽक्षमेयं कालहरणस्य
यस्मिन् बध्दभावैषा, स ललामभूतः पौरवाणाम् । तद्युक्तमस्या
अभिलाषोऽभिनन्दितुम् ।
अनसूया तथा यथा भणसि ।
प्रियवंदा- (प्रकाशम्) सखि, दिष्ट्यानुरुपस्तेऽभिनिवेषः । सागरमुज्झित्वा
कुत्र वा महानद्यवतरति ?क इदानीं सहकारमन्तरेण
अतिमुक्तलतां पल्लवितां सहते ?
राजा- किमत्र चित्रम्, यदि विशाखे शशाङ्कलेखामनुवर्तेते !
अनसूया- कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं
सम्पादयावः ?
प्रियंवदा- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया कथमिव ?
प्रियंवदा- ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान् दिवसान्
प्रजागारकृशो लक्ष्यते ।
राजा सत्यमित्थंभूत एवास्मि । तथा हि, -
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजान्यस्तापाङ्गप्रसरिभिरश्रुभिः ।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥११॥
प्रियंवदा- (विचिन्त्य) हला, मदनलेखोऽस्य क्रियताम् । तं सुमनोगोपितं
कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।
अनसूया- रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ?
शकुन्तला- को नियोगो वा विकल्प्यते ?
प्रियंवदा- तेन हि आत्मन उपन्यासपूर्वं चिन्तय तावत् किमपि ललितपदबन्धनम् |
शकुन्तला- हला, चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।
राजा- (सहर्षम्)
अयं स ते तिष्ठति सङ्गमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम्
लभते वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥१२॥
सख्यौ- अयि आत्मगुणावमानिनि, क इदानीं शरीरनिर्वापयित्रीं शारदीं
ज्योत्स्नां पटान्तेन वारयति ?
शकुन्तला- (सस्मितं)नियोजितेदानीमस्मि । (इत्युपविष्टा चिन्तयति)
राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयत्न्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥१३॥
शकुन्तला- हला, चिन्तितं मया गीतवस्तु । असन्निहितानि पुनर्लेखनसाधनानि !
प्रियंवदा- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।
शकुन्तला- (यथोक्तं रुपयित्वा) हला, शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे- अवहिते स्वः ।
शकुन्तला- (वाचयति)
तव न जाने हृदयं मम पुनः कामो दिवापि रात्रिमपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥१४॥
राजा- (सहसोपसृत्य)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१५॥
सख्यौ- (विलोक्य सहर्षमुत्थाय) स्वागतमविलम्बिनो मनोरथस्य ।
(शकुन्तलाभ्युत्थातुमिच्छति)
राजा- अलमलमायासेन ।
सन्दष्टकुसुमशयनान्या शुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥१६॥
अनसूया- इतः शिलातलैकदेशमलङ्करोतु वयस्यः ।
(राजोपविशति शकुन्तला सलज्जा तिष्ठति )
प्रियंवदा- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां
पुनरुक्तवादिनीं करोति ।
राजा- भद्रे, नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष
युष्माकं धर्मः ।
राजा- नास्मात्परम् ।
प्रियंवदा- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता
मदनेनारोपिता ।
राजा- भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि
शकुन्तला- (प्रियंवदामवलोक्य) हला, किमन्तः पुरविरहपर्युत्सुकस्य
राजर्षेरुपरोधेन ?
राजा- सुन्दरी,
इदमनन्यपरायणमन्यथा
हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे
मदनबाणहतोऽस्मि हतः पुनः ॥१७॥
अनसूया- वयस्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी
बन्धुजनशोचनीया न भवति तथा निर्वाहय।
राजा- भद्रे, किं बहुना-
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वीं सखी च युवयोरियम् ॥१८॥
उभे- निर्वृते स्वः ।
प्रियंवदा- (सदृष्टिक्षेपम्) अनसूये, एष इतोदत्तदृष्टिरुत्सुको मृगपोतको
मातरमन्विष्यति । एहि संयोजयाव एनम् । (इत्युभे प्रस्थिते)
शकुन्तला- हला, अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभौ- पृथिव्या यः शरणं स तव समिपे वर्तते ।
(इति निष्क्रान्ते)
शकुन्तला- कथं गते एव ?
राजा- अलमावेगेन । नन्वयमाराधयिता जनस्तवसमीपे वर्तते ?
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्
सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥१९॥
शकुन्तला- न माननीयेष्वात्मानमपराधयिष्ये ।
(इत्युत्थाय गन्तुमिच्छति)
राजा- सुन्दरि, अपरिनिर्वाणो दिवसः, इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥२०॥
(इति बलादेनां निवर्तयति)
शकुन्तला- पौरव, रक्ष विनयम् । मदनसन्तप्तापि न खल्वात्मनः प्रभवामि ।
राजा- भीरु, अलं गुरुजनभयेन । दृष्टा ते विदितधर्मा तत्रभवान्नात्र दोषं
ग्रहीष्यति कुलपतिः । पश्य,
गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥२१॥
शकुन्तला- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
राजा- भवतु मोक्ष्यामि ।
शकुन्तला- कदा ?
राजा-
अपरिक्षतकोमलस्य तावत्
कुसुमस्येव नवस्य षट्पदेन
अधरस्य पिपासता मया ते
सदयं सुन्दरि गृह्यते रसोऽस्य ॥२२॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन )
(नेपथ्ये) चक्रवाकवधुके, आमन्त्रयस्व सहचरम् । उपस्थिता रजनी !
शकुन्तला –::(कर्णं दत्वा, ससंभ्रमम्)पौरव, असंशयं मम
शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो
भव ?
राजा- तथा । (इत्यात्मानमावृत्य तिष्ठति )
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ- इत इत आर्या गौतमी ।
गौतमी- (शकुन्तलामुपेत्य )जाने, अपि लघुसन्तापानि तेऽङ्गानि ?
शकुन्तला-आर्ये, अस्ति मे विशेषः ।
गौतमी- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (अभ्युक्ष्य)
वत्से, परिणतो दिवसः । एहि । उटजमेव गच्छामः । (प्रस्थिताः)
शकुन्तला- (आत्मगतम्) हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न
मुञ्चसि । सानुशयविघटितस्य कथं ते सम्प्रतं सन्तापः ? (पदान्तरे
स्थित्वा, प्रकाशम्) लतावलय, सन्तापहारक, आमन्त्रये त्वां
भूयोऽपि परिभोगाय ।
(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
राजा- (पूर्वस्थानमुपेत्य, सनिः श्वासम्) विघ्नवत्यः प्रार्थितार्थसिध्दयः ।
मया हि, -
मुहुरङ्गुलिसंवृताधरोष्ठं
प्रतिषेधाक्षरविक्लवाभिरामम् ॥
मुखमंसविवर्ति पक्ष्मलाक्ष्याः
कथमप्युन्नमितं न चुम्बितं तु ॥२३॥
क्व नु खलु सम्प्रति गच्छामि ? अथवा, इहैव प्रियापरिभुक्तमुक्ते
लतावलये मुहूर्तं स्थापयामि । (सर्वतोऽवलोक्य)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥२४॥
(आकाशे) राजन् !
सायंतने सवनकर्मणि संप्रवृत्ते
वेदीं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥२५॥
(इति निष्क्रान्तः)
राजा- अयमहमागच्छामि ।
॥ इति तृतीयोऽङ्कः ॥

चतुर्थोऽङ्कः
(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ)
अनसूया- प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुन्तलाऽनुरुपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्
चिन्तनीयम् ।
प्रियंवदा- कथमिव ?
अनसूया- अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो नगरं
प्रविश्यान्तः पुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।

प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
प्रियंवदा- कथमिव ?
अनसूया- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत् प्रथमः सङ्कल्पः । तं
यदि दैवमेव सम्पादयति, नन्वप्रयासेन कृतार्थो गुरुजनः ।
प्रियंवदा- (पुष्पभाजनं विलोक्य) सखि, अवचितानि बलिकर्म पर्याप्तानि
कुसुमानि ।
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
प्रियंवदा- ननूटजसन्निहिता शकुन्तला ?
अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
 ::(नेपथ्ये) आः अतिथिपरिभाविनि !
विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्
कथां प्रमत्तः प्रथमं कृतामिव ॥१॥
प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।
(पुरोऽवलोक्य)न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया
गत्या प्रतिनिवृत्तः ।
अनसूया- कोऽन्यो हुतवहाद्दग्धुं प्रभवति ? गच्छ, पादयोः प्रणम्य निवर्तयैनं,
यावदहमर्घोदकमुपकल्पयामि ।
(इति निष्क्रान्ता)
प्रियंवदा- तथा
अनसूया- (पदान्तरे स्खलितं निरुप्य) अहो,आवेगस्खलितया गत्या
प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् ! (इति पुष्पोच्चयं रुपयति )
(प्रविश्य)- प्रियंवदा- सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृहणाति ? किमपि
पुनः सानुक्रोशः कृतः ।
अनसूया- (सस्मितम्) तस्मिन् बह्वेतदपि । कथय ।
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया भगवन्, प्रथम
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो
मर्षयितव्यइति ।
अनसूया- ततस्ततः
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-
दर्शनेन शापो निवर्तिष्यतेइति मन्त्रयमाण एवान्तर्हितः ।
अनसूया- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन
स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनध्दम् । तस्मिन्
स्वाधीनोपाया शकुन्तला भविष्यति ।
प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा
विभावयति । किं पुनरागन्तुकम् ।
अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु
प्रकृतिपेलवा प्रियसखी !
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
विष्कम्भः
(ततः प्रविशति सुप्तोत्थितः शिष्यः)
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या
इति (परिक्रम्यावलोक्य च )
हन्त प्रभातम् ! तथा हि, -
यात्येकतोऽस्तशिखरं परिरोषधीना
माविष्कृतारुणपुरः सर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्वयसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु ॥२॥
अपि च ,
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीय शोभा
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्र सुदुःसहानि ॥३॥
अनसूया- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन
राज्ञा शकुन्तलायामनार्यमाचरितम् ।
शिष्यः- यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(निष्क्रान्तः)
अनसूया- प्रतिबुध्दापि किं करिष्यामि? न म उचितेष्वपि निजकरणीयेषु
हस्तपादं प्रसरति ! काम इदानीं सकामो भवतु, येनासत्यसन्धे
जने शुध्दहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष
विकारयति । अन्यथा, कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः
कालस्य लेखमात्रमपि न विसृजति ? तदितोऽभिज्ञानमङ्गुलीयकं
तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् ? ननु
सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य
तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां
निवेदयितुम् । इत्थंगतेऽस्माभिः किं करणीयम् ?
(प्रविश्य) प्रियंवदा- (सहर्षम्) सखि, त्वरस्व त्वरस्व शकुन्तलायाः
प्रस्थानकौतुकं निर्वर्तयितुम् ।
अनसूया- सखि, कथमेतत् ?
प्रियंवदा- श्रृणु । इदानीं सुखशायितपृच्छिका शकुन्तलासकाशं गतास्मि ।
अनसूया ततस्ततः ?
प्रियंवदा- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवम्
अभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक
एवाहुतिः पतिता ।वत्से, सुशिष्यपरिदत्ता विद्येवाशोचनीयासि
संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः समीपं विसर्जयामीति।
अनसूया- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
अनसूया- (सविस्मयं) कथमिव ?
प्रियंवदा- (संस्कृतमाश्रित्य)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता
भवतु ।
अनसूया- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक, तदिमां
हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां
दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा- तथा क्रियताम् । (अनसूया निष्क्रान्ता, प्रियंवदा नाट्येन सुमनसो
गृहणाति)
(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः
ऋषयः शब्दाय्यन्ते ।
(प्रविश्य समालम्भनहस्ता) अनसूया सखि, एहि । गच्छावः । (इति
परिक्रामतः)
प्रियंवदा- (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति ।
उपसर्पाव एनाम् । (इत्युपसर्पतः) (ततः प्रविशति यथोद्दिष्टव्यापारा
आसनस्था शकुन्तला )
तापसीनामन्यतमा- (शकुन्तलां प्रति) जाते, भर्तुर्बहुमानसूचकं महादेवीशब्दं
लभस्व ।
द्वितीया- वत्से, वीरप्रसविनी भव ।
तृतीया- वत्से, भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते
मङ्गलसमालम्भनं परिचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् । (इत्यश्रूणि प्रमृज्य
नाट्येन प्रसाधयतः )
प्रियंवदा- आभरणोचितं रुपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ)
उभे- इदमलङ्करणम् । अलंक्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः)
गौतमी- वत्स नारद, कुत एतत् ?
प्रथमः- तातकाश्यपप्रभावात् ।
गौतमी- किं मानसी सिध्दीः?
द्वितीयः- न खलु । श्रूयताम् । तत्र भवता वयमाज्ञाप्ताः शकुन्तला-
हेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं-
क्षौमं केन चिदिन्दुपाडु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केन चित् ।
अन्येभ्यो वनदेवताकरतलेरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्दिभिः ॥५॥
प्रियंवदा- (शकुन्तलां विलोक्य) हला, अनयाभ्युपपत्या सूचिता ते
भर्तुगेहेऽनुभवितव्या राजलक्ष्मीः । (शकुन्तला व्रीडां निरुपयति)
प्रथमः-गौतम, एह्येहि । अभिषेकावतीर्णाय काश्यपाय वनस्पतिसेवां
निवेदयावः ।
द्वितीयः- तथा । (इति निष्क्रान्तौ)
सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते
आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
(ततः प्रविशति स्नानोलेपाः काश्यपः)
काश्यपः-
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्बितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥६॥
(इति परिक्रामति)
सख्यौ हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं
क्षौमयुगलम् ।
गौतमी जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
काश्यपः वत्से,
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥७॥
गौतमी- भगवन्, वरः खल्वेषः । नाशीः ।
काश्यपः- वत्से । इतस्सद्यो हुताग्नीं प्रदक्षिणीकुरुष्व ।
(सर्वे परिक्रामन्ति )
काश्यपः – (ऋक्छन्दसाऽऽशास्ते)
अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥८॥
प्रतिष्ठस्वेदानीम् - (सदृष्ठिक्षेपम्) क्व ते शर्ङ्गरवमिश्राः ?
(प्रविश्य) शिष्याः भगवन्, इमे स्मः ।
काश्यपः भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः इत इतो भवती । (सर्वे परिक्रामन्ति)
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
अद्ये वः कुसुम प्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥९॥
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥१०॥
(आकाशे)
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥११॥
(सर्वे सविस्मयमाकर्णयन्ति )
गौतमी- जाते, ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनं देवताभिः । प्रणम
भगवतीः ।
शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम्) हला प्रियंवदे ! आर्यपुत्र-
दर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः
प्रवर्तेते ।
प्रियंवदा- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य
तपोवनस्यापि तावत्समवस्था दृश्यते !
उद्गलितदर्भकबला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥१२॥
शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला –( उपेत्य लतामालिङ्ग्य) वनज्योत्स्ने; चूतसङ्गतापि मां
प्रत्यालिङ्गेतोगताभिः शाखाबहाभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु
 भविष्यामि ।
काश्यपः-
सङ्कल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयम्
अस्यामहं त्वयि च संप्रति वीतचिन्तः ॥१३॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
शकुन्तला- तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा
भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः- नेदं विस्मरिष्यामः ।
शकुन्तला-( गतिभङ्गं रुपयित्वा) को नु खल्वेष निवसने मे सज्जते ?
काश्यपः- वत्से,!
यस्य
 त्वया व्रणविरोपणामिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविध्दे ।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१४॥
शकुन्तला वत्स ! किं सहवासपरित्यागिनीं मामनुसरसि ? अचिरप्रसूतया
जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां
तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
काश्यपः-
उत्पक्ष्मणोर्नयनयोरुपरुध्दवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥१५॥
शार्ङ्गरवः भगवन् । ओदकान्तात् स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं
सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।
काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।
(सर्वे परिष्क्रम्य स्थिताः)
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः
सन्देष्टव्यम् ? (इति चिन्तयति)
शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।
अनसूया- सखि, मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम्
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥१६॥
काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य
वक्तव्यः ।
शार्ङ्गरवः- आज्ञापयतु भगवान् ।
काश्यपः-
अस्मान्साधु विचिन्त्य संयमधनानुच्चै कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥१७॥
शार्ङ्गरवः गृहीतः सन्देशः ।
काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा
वयम् ।
शार्ङ्गरवः न खलु धीमतां कश्चिदविषयो नाम !
काश्यपः- सा त्वमितः पतिकुलं प्राप्य,
शुश्रूषस्व कुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१८॥
कथं वा गौतमी मन्यते ?
गौतमी एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
काश्यपः- वत्से, इमे अपि प्रदेये । न युक्तमनयोः तत्र गन्तुमु । त्वया सह
गौतमी यास्यति ।
शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ?
काश्यपः- वत्से, ! किमेवं कातरासि ?
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीनार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥१९॥
(शकुन्तला पितुः पादयोः पतति)
काश्यपः- यदिच्छामि ते तदस्तु ।
शकुन्तला – (सख्यावुपेत्य) हला, द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला अनेन सन्देहेन वामाकम्पितास्मि !
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
काश्यपः- श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्ता तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥२०॥
गौतमी- जाते, ! परिहीयते गमनवेला ! निवर्तय पितरम् । अथवा चिरेणापि
पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः- वत्से, उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला – (भूयः पितरमश्लिष्य) तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं
मम कृत उत्कण्ठस्व।
काश्यपः – (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ?
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
 ::(निष्क्रान्ता शकुन्तला सहयायिनश्च)
सख्यौ- (शकुन्तलां विलोक्य) हा धिक् ! हा धिक् ! अन्तर्हिता शकुन्तला
वनराज्या ।
काश्यपः – (सनिः श्वासम्) अनसूये, ! गतवती वा सहचारिणी । निगृह्य
शोकमनुगच्छत मां प्रस्थितम् ।
उभे- तात । शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशामः ?
काश्यपः स्नेहप्रवृत्तिरेवंदर्शिनी (सविमर्शं परिक्रम्य ) हन्त भोः । शकुन्तलां
पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ?
अर्थो हि कन्या परकीय एव
तामद्य सम्प्रेष्य परिग्रहीतुः ।
जानो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा ॥२२॥
(इति निष्क्रान्ताः सर्वे)
॥ इति चतुर्थोऽङ्कः ॥
पञ्चमोऽङ्कः
(ततः प्रविशत्यासनस्थो राजा विदूषकश्च)
विदूषकः – (कर्णं दत्वा) भो वयस्य, सङ्गीतशालान्तरेऽवधानं देहि ।
कलविशुध्दाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती
हंसपदिका वर्णपरिचयं करोतीति ।
राजा- तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते)
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिवृतो मधुकर विस्मृतोऽस्येनां कथम् ॥१॥
राजा- अहो ! रागपरिवाहिणी गीतिः ।
विदूषकः- किं तावद्गीत्या अवगतोऽक्षरार्थः ?
राजा- (स्मितं कृत्वा) सकृत्कृतप्रणयोयं जनः । तदस्या देवीं
वसुमतीमन्तरेण मदुपालम्भभगवतोऽस्मि । सखे माधव्य,
मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।
विदूषकः यद्भवनाज्ञापयति (उत्थाय) भो वयस्य, गृहीतस्य तया
परकीयैर्हस्तैः शिखण्डके ताडयमानस्याप्सरसा वीतरागस्येव नास्ति
इदानीं मे मोक्षः !
राजा - गच्छ । नागरिकवृत्या संज्ञापयैनाम् ।
विदूषकः- का गतिः (इति निष्क्रान्तः)
राजा- (आत्मगतम्) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजन-
विरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि ! अथवा;
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तर सौहृदानि ॥२॥
(इति पर्याकुलस्तिष्ठति)
(प्रविश्य) कञ्चुकी अहो न खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्थम् ॥३॥
भो ! कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनात् उत्थिताय
पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् ।
अथवा विश्रमोऽयं लोकतन्त्राधिकारः । कुतः
भानुः सकृद्युक्ततुरङ्ग एव रात्रिंदिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥४॥
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः
प्रजाः प्रजाः स्व इव तन्त्रयित्वा निषेवतेऽशान्तमना विविक्तम् ।
यूथानि सञ्चार्य रविप्रतप्तः शीतं दिवा स्थानमिवद्विपेन्द्रः ॥५॥
(उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः
काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः
प्रमाणम् ।
राजा- (सादरम्) किं काश्यपसन्देशहारिणः ?
कञ्चुकी अथ किम् ?
राजा- तेन हि मद्वचनात् विज्ञाप्यतामुपाध्यायः सोमरातः ।
अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव
प्रवेशयितुमर्हति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः
प्रतिपालयामि ।
कञ्चुकी यदाज्ञापयति देवः । (इति निष्क्रान्तः)
राजा - (उत्थाय) वेत्रवति, अग्निशरणमार्गमादेशय ।
प्रतीहारी- इत इतो देवः ।
राजा- परिक्रामति (अधिकारखेदं निरुप्य ) सर्वः प्रार्थितमर्थम् अधिगम्य
सुखी संपद्यते जन्तुः । राज्ञा तु चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसाद्ययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालन वृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥६॥
(प्रविश्य) वैतालिकौ विजयतां देवः ।
प्रथमः- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥७॥
द्वितीयः- नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्दुकृत्यं प्रजानाम् ॥८॥
राजा - एते क्लान्तमनसः पुनर्नवीकृताः स्मः ।(इति परिक्रामति)
प्रतीहारी एष अभिनवसंमार्जनसश्रीकः सन्निहितहोमधेनुः अग्निशरणालिन्दः ।
आरोहतु देवः ।
राजा - (आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति, किमुद्दिश्य भगवता
काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः ?
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्
इत्यारुढबहुप्रतक्रमपरिच्छेदाकुलं मे मनः ॥९॥
प्रतीहारी- सुचरितनन्दिन ऋध्षयो देवं सभाजयितुमागता इति तर्कयामि ।
(ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः ।
पुरश्चैषां कञ्चुकी पुरोहितश्च ।
कञ्चुकी- इत इतो भवन्तः ।
शार्ङ्गरवः- शारद्वत,
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥१०॥
शारद्वतः- स्थाने भवान्पुरप्रवेशादित्थं भूतः संवृत्तः । अहमपि,
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुध्द इव सुप्तम् ।
बध्दमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥११॥
शकुन्तला- (निमित्तं सूचयित्वा) अहो किं मे वामेतरं नयनं विस्फुरति ?
गौतमी- जाते प्रतिहतममङ्गलम् । शुभानि ते भर्तृकुलदेवता वितरन्तु
(इति परिक्रामति)
पुरोहितः- (राजानं निर्दिश्य) भो भोस्तपस्विनः, असावत्रभवान् वर्णाश्रमाणां
रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः- भो महाब्राह्मण, काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः ।
कुतः,-
भवन्ति नम्रास्तरवः फलागमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुध्दताः सत्पुरुषाः समृध्दिभिः
स्वभाव एवैष परोपकारिणाम् ॥१२॥
प्रतीहारी- देव, प्रसन्नमुखवर्णा दृश्यन्ते ।जानामि विश्रब्धकार्या ऋषयः ।
राजा- (शकुन्तलां दृष्ट्वा) अथात्रभवति,
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिवं पाण्डुपात्राणाम् ॥१३॥
प्रतीहारी- देव, कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया
पुनरस्या आकृतिर्लक्ष्यते ।
राजा- भवतु अनिवर्णनीयं परकलत्रम् !
शकुन्तला- (हस्तमुरसिकृत्वा, आत्मगतम्) हृदय, किमेवं वेपसे ? आर्यपुत्रस्य
भावमवधाय धीरं तावद्भव ।
पुरोहितः (पुरो गत्वा) एते विधिवदर्चितास्तपस्विनः । कश्चित्
एषामुपाध्यायसन्देशः । तं देवः श्रोतुमर्हति ।
राजा- अवहितोऽस्मि
ऋषयः- (हस्तानुद्यम्य) विजयस्व राजन् ।
राजा- सर्वानभिवादये
ऋषयः -इष्टेन युज्यस्व ।
राजा- अपि निर्विघ्नतपसो मुनयः ?
ऋषयः-
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि
तमस्तपति धर्माशौ कथमाविर्भविष्यति ॥१४॥
राजा- अर्थवान् खलु मे राजशब्दः । अथ भगवाँल्लोकानुग्रहाय कुशली
काश्यपः ?
ऋषयः- स्वाधीनकुशलाः सिध्दिमन्तः ! स भवन्तमनामयप्रश्नपूर्वक-
मिदमाह ।
राजा- किमाज्ञापयति भगवान् ?
शार्ङ्गरवः- यन्मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया
प्रीतिमता युवयोरनुज्ञातम् । कुतः-
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः
शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः ॥१५॥
तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्मचरणाय। इति ।
गौतमी- आर्य, किमपि वक्तुकामास्मि । स मे वचनावसरोऽस्तिं ।
कथमिति,-
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
एकैकमेव चरिते भणामि किमेकमेकस्मै ॥१६॥
शकुन्तला- (आत्मगतम्) किं नु खल्वार्यपुत्रो भणति ?
राजा- किमिदमुपन्यस्तम् ?
शकुन्तला- (आत्मगतम्) पावकः खलु वचनोपन्यासः ?
शार्ङ्गरवः कथमिदं नाम ? भवन्तः एव सुतरां लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तुमतीं विशङकते ।
अतः समीपे परिणेतुरिष्यते
प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥१७॥
राजा- किमत्रभवती मया परिणीतपूर्व ?
शकुन्तला- (सविवादम्, आत्मगतम्) हृदय, साम्प्रतं त आशङ्का
शार्ङ्गरवः- किं कृतकार्यद्वेषात् धर्मं प्रति विमुखतोचिता राज्ञः ?
राजा- कुतोऽयमसत्कल्पनाप्रश्नः ?
शार्ङ्गरवः- मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥१८॥
राजा- विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी- जाते, मुहुर्तं मा लज्जस्व । अपनेष्यामि तावत्ते अवगुण्ठनम्।
ततस्त्वां भर्ताभिज्ञास्यति ।(यथोक्तं करोति)
राजा-(शकुन्तलां निर्वर्ण्य, आत्मगतम्)
इदमुपनतमेवं रुपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्तमन्तस्तुषारं
न च खलु परिभोक्तुं नापि शक्नोमि हातुम् ॥१९॥
(इति विचारयन् स्थितः)
प्रतीहारी- (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं
रुपं दृष्ट्वा कोऽन्यो विचारयति ?
शार्ङ्गरवः- भो राजन् , किमिति जोषमास्यते ?
राजा- भोस्तपोधनाः, चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि ।
तत्कथमिमामभिव्यक्त सत्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः
प्रतिपत्स्ये ?
शकुन्तला- (अपवार्य) आर्यस्य परिणय एव सन्देहः ! कुत इदानीं मे
दूराधिरोहिण्याशा ?
शार्ङ्गरवः- मा तावत् ।
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥२०॥
शारद्वतः- शार्ङ्गरव, विरम त्वमिदानीम् । शकुन्तले, वक्तव्यम् उक्त-
मस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रति-
वचनम् ।
शकुन्तला- (अपवार्य) इदमवस्थान्तरं गते तादृशेनुरागे किं वा स्मारिते ?
आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्) आर्यपुत्र
--- (इत्यर्धोक्ते) संशयित इदानीं परिणये नैष समुदाचारः ।
पौरव, युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं
जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ?
राजा- (कर्णौ पिधाय) शान्तं पापम् ?
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥२१॥
शकुन्तला- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं
तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
राजा- उदारः कल्पः ।
शकुन्तला – (मुद्रास्थानं परामृश्य) हा धिक् ! हा धिक् ! अङ्गुलीयकशून्या
मेऽङ्गुलिः !
(इति सविषादं गौतमीमवेक्षते )
गौतमी- नूनं ते शक्रावतारभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः
प्रभ्रष्टमङ्गुलीयकम् !
राजा- (सस्मितम्) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि
राजा- श्रौतव्यमिदानीं संवृत्तम् ।
शकुन्तला ननु एकस्मिन् दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं
तव हस्ते सन्निहितमस्मिन् ।
राजा- श्रुणुमस्तावत् ।
शकुन्तला- तत्क्षणं स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतकमुपस्थितः ।
त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न
पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते
सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः
सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
राजा- एवमादिभिः आत्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिः आकृष्यन्ते
विषयिणः ।
गौतमी- महाभाग, नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितो अनभिज्ञोऽयं
जनः कैतवस्य ।
राजा- तापसवृध्दे,
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात्स्वमपत्यजात
मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥२२॥
शकुन्तला- (सरोषम्) अनार्य, आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो
धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ?
राजा- (आत्मगतम्) सन्दिग्धबुध्दिं मां कुर्वन्नकैतव इवास्याः कोपो
लक्ष्यते । तथा ह्यनया-
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदादभ्रुवो कुटितयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥२३॥
(प्रकाशम्) भद्रे, प्रथितं दुष्यन्तस्य चरितं । तथापीदं न लक्षये ।
शकुन्तला- सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि, याहमस्य पुरुवंशप्रत्ययेन
मुखमधोह्रृदयविषस्य हस्ताभ्यासमुपगता ! (पटान्तेन मुखमावृत्य
रोदिति )
शार्ङ्गरवः- इत्थमात्मकृतम् अप्रतिहतं चापलं दहति ।
अतः पीरक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥२४॥
राजा- अयि भोः किमत्रभवतीप्रत्ययादेवास्मान् संयुतदोषाक्षरैः क्षिणुथ ?
शार्ङ्गरवः- (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यमशिक्षितो यत्स्तस्याप्रमाणं वचनं जनस्य ।
परातिसन्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥२५॥
राजा- भोः सत्यवादिन्, अभ्युपगतं तावदस्माभिरेवम् । किं
पुनरिमामतिसन्धाय लभ्यते ?
शार्ङ्गरवः- विनिपातः ।
राजा- विनिपातः, पौरवैः पार्थ्यत इति न श्रध्देयमेतत् ।
शारद्वतः- शार्ङ्गरव, किमुत्तरेण? अनुष्ठिते गुरोः सन्देशः प्रतिनिवर्तामहे
वयम् ।
(राजानं प्रति)
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥२६॥
गौतमी, गच्छाग्रतः (प्रस्थिताः)
शकुन्तला कथमनेन विप्रलब्धास्मि, यूयमपि मां परित्यजथ ?
(इत्यनुप्रतिष्ठते)
गौतमी- (स्थित्वा) वत्स, शार्ङ्गरव, अनुगच्छतीयं खलु नः
करुणपरिदेविनी शकुन्तला ! प्रत्यादेशपुरुषे भर्तरि किं वा मे
पुत्रिका करोतु ?
शार्ङ्गरवः- (सरोषं निवृत्त्य) किं पुरोभागे स्वातन्त्र्यमवलम्बसे ?
(शकुन्तला भीता वेपते)
शार्ङ्गरवः- शकुन्तले,
यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः
पतिकुले तव दास्यमपि क्षमम् ॥२७॥
तिष्ठ । साधयामो वयम् ।
राजा- भोस्तपस्विन्, किमत्रभवतीं विप्रलभसे ?
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसं श्लेषपराङ्मुखी वृत्तिः ॥२८॥
शार्ङ्गरवः- यदा तु पूर्ववृत्तमन्यसङ्गद्विस्मृतो भवांस्तदा कथम् अधर्मभीरुः ?
राजा- भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥२९॥
पुरोहितः- (विचार्य) यदि तावदेवं क्रियताम् ।
राजा- अनुशास्तु मां भवान् ।
पुरोहितः- अत्र भवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत चेत्;
त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति ।
स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, अभिनन्द्य
शुध्दान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः
समीपनयनमवस्थितमेव ।
राजा- यथा गुरुभ्यो रोचते ।
पुरोहितः- वत्से, अनुगच्छ माम् ।
शकुन्तला- भगवति वसुधे, देहि मे विवरम् !
(इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च राजा
शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति ।)
(नेपथ्ये) आश्चर्यमाश्चर्यम् ।
राजा- (आकर्ण्य) किं नु खलु स्यात् ?
(प्रविश्य) पुरोहितः- (सविस्मयम्) देव, अद्भुतं खलु संवृत्तम् !
राजा- किमिव ?
पुरोहितः- देव, परावृत्तेषु कण्वशिष्येषु
सा निन्दती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
राजा- किं च ।
पुरोहितः- स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुत्क्षिप्यैनं ज्योतिरेकं जगाम ॥३०॥
(सर्वे विस्मयं रुपयन्ति)
राजा- भगवन्, प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा
तर्केणान्विष्यते ? विश्राम्यतु भवान् ।
पुरोहितः- (विलोक्य) विजयस्व (निष्क्रान्तः)
राजा- वेत्रवति, पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी- इत इतो देवः (इति प्रस्थिता)
राजा- कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवन्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥३१॥
(इति निष्क्रान्ताः सर्वे)
॥ इति पञ्चमोऽङ्कः ॥

षष्ठोऽङ्कः
(ततः प्रविशति नागरिकः श्यालः, पश्चाद्बध्दं पुरुषमादायरक्षिणैच )
रक्षिणौ-(पुरुषं ताडयित्वा)अरे कुम्भीरक, कथय कुत्र त्वया
एतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः- (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
प्रथमः- किं शोभनो ब्राह्मण इति कृत्वा राज्ञा प्रतिग्रहो दत्तः ?
पुरुषः- श्रृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः ।
द्वितीयः - पाटच्चर, किमस्माभिर्जातिः पृष्टा ?
श्यालः- सूचक, कथयतु सर्वमनुक्रमेण । मौनमन्तरा प्रतिबध्नीतम् ।
उभौ- यदावुत्त आज्ञापयति कथय ।
पुरुषः- अहं जालोङ्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
श्यालः- (विहस्य) विशुध्द इदानीमाजीवः ।
पुरुषः- भर्तः, मा एवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥१॥
श्यालः- ततस्ततः ?
पुरुषः- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् ।
पश्चात् अहमस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः । मारयत
वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः- जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निः संशयम् ।
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
रक्षिणौ- तथा । गच्छ, अरे ग्रन्थिभेदक ।
श्यालः- सूचक, इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदम् अङ्गुलीयकं
यथागमनं भर्ते निवेद्य ततः शासनं प्रतीक्ष्य निष्र्कामामि ।
उभौ- प्रविशत्वावुत्तः स्वामिप्रसादाय ।(निष्क्रान्तः श्यालः)
प्रथमः- जानुक, विरायते खल्वावुत्तः ।
द्वितीयः- नन्ववसरोपसर्पणीया राजानः !
प्रथमः- जानुक, स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनध्दुम् ।
(इति पुरुषं निर्दिशति)
पुरुषः- नार्हति भावोऽकारणमारणो भवितुम् ।
द्वितीयः- (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतिष्येतोमुखो
दृश्यते । गृध्र बलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि ।
(प्रविश्य) श्यालः- सूचक, मुच्यतामेव जलोपजीवी । उपपन्नः खल्वस्याङ्गुली-
यस्यागमः ।
सूचकः- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः ! (इति
पुरुषं परिमुक्तबन्धनं करोति )
पुरुषः- (श्यालं प्रणम्य) भर्तः, त्वदीयं मे जीवितम् ।
श्यालः- एष भर्ताङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः ( इति पुरुषाय
स्वं प्रयच्छति )
पुरुषः- (सप्रणामं प्रतिगृह्य भर्तः अनुगृहितोऽस्मि ।
सूचकः- एषः नामानुग्रह । यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
जानुकः- आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः सम्मतेन
भवितव्यमिति ।
श्यालः- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन
भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन
आसीत् ।
सूचकः- सेवितं नामावुत्तेन !
जानुकः- ननु भण । अस्य कृते मात्स्यिकमर्तुरिति ।
(इति पुरुषमसूयया पश्यति)
पुरुषः- भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः- एतावद्युज्यते ।
श्यालः- धीवर, महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरी-
साक्षिकमस्माकं प्रथमसोहृदम् इष्यते । तच्छौण्डिकापणमेव
गच्छामः । (इति निष्क्रान्तास्सर्वे)
प्रवेशकः
(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
सानुमती- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसान्निध्यं यावत्साधुजन-
स्याभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं प्रक्षीकरिष्यामि ।
मेनकासम्बन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्त-
मादिष्टपूर्वास्मि । (समन्तादवलोक्य) किं नु खलु ऋतूत्सवे
अपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः
प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया
मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणी-
प्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता)
(ततः प्रविशति चूताङ्गुरमवलोकयन्ती चेटी, अपरा च प्रुष्ठतस्तस्याः)
प्रथमा-
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ।
दष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥२॥
द्वितीय- परभृतिके, किमेकाकिनी मन्त्रयसे ?
प्रथमा- मधुकरिके, चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
द्वितीया- (सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः !
प्रथमा- मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया- सखिं, अवलम्बस्य मां यावदग्रपादस्थिता भूत्वा चूतकलिकां
गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा- यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया- अकथितोऽप्येतत् संपद्यते यत एकमेव नौ जीवितं ध्दिधा स्थितं
शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृहणाति । अये,
अप्रतिबुध्दोऽपि चूतप्रसवोऽत्र बन्धभङ्गसुरभिर्भवति ! (इति
कपोतहस्तकं कृत्वा)
त्वमसि मया चूताङ्कुर दत्त कामाय गृहीतधनुषे
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिक शरो भव ॥३॥
(इति चूताङ्कुरं क्षिपति । ततः प्रविशत्यपटीक्षेपेण कुपितः क::ञ्चुकिः)
कञ्चुकी मा तावदनात्मज्ञे । देवेन प्रतिषिध्दे वसंतोत्सवे त्वमाम्रकलिकाभङ्गं
किमारभसे ?
उभे- (भीते) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं
प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि, -
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नध्दं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानांरुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टंशरम् ॥४॥
सानुमती- नास्ति सन्देहः । महाप्रभावो राजर्षिः !
प्रथमा- आर्य, कति दिवसन्यावयोमित्रावसुना राष्ट्रियेण भर्तुः पादमूलात्
प्रेषितयोः । इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् ।
तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेव वृत्तान्तः ।
कञ्चुकी भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे- आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं, कथयत्वार्यः
किन्निमित्तं भर्ता वसन्तोत्सवः प्रतिषिध्दः ।
सानुमती उत्सवप्रियाः खलु मनुष्याः ! गुरुणा कारणेन भवितव्यम् ।
कञ्चुकी – (स्वगतम्) बहुलीभूतमतत्किं न कथ्यते ?
(प्रकाशं) किमत्रभवत्योः कर्णपथं नायातं शकुन्तला प्रत्यादेशकौलीनम् ?
उभे - श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी- तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं
देवेन सत्यमूढपर्वा मे तत्र भवती रहसि शकुन्तला मोहात्
प्रत्यादिष्टाइति, तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा
हि-
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः
दाक्षिण्येन ददाति वाचमुचितामन्तः पुरेभ्यो यदा
गोत्रेषु स्खलितास्तदा भवति च व्रीडाविलक्षश्चिरम् ॥५॥
सानुमती- प्रियं मे
कञ्चुकी- अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे- युज्यते ।
(नेपथ्ये) एतु एतु भवान् ।
कञ्चुकी- (कर्णं दत्वा) अये, इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे- तथा (इति निष्क्रान्ते)
 ::::(ततः प्रविशति पश्चात्तापसदृशवेषो राजा, विदूषकः, प्रतिहारी च )
कञ्चुकी- (राजानमवलोक्य) अहो सर्वास्ववस्थासु रमणीयत्वम्
आकृतिविशेषाणाम् ! एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा
हि, -
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरण प्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६॥
सानुमती- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानितापि अस्य कृते
शकुन्तला क्लाम्यति ।
राजा- (ध्यानमन्दं परिक्रम्य)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हृतहृदयं संप्रति विबुध्दम् ॥७॥
सानुमती- ननु ईदृशानि तपस्विन्या भागधेयानि !
विदूषकः- (स्वगतम्) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने
कथं चिकित्सितव्यो भविष्यतीति !
कञ्चुकी- (उपगम्य) जयतु जयतु देवः । महाराज, प्रत्यवेक्षिताः
प्रमदवनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजा- वेत्रवति, मद्वचनादमात्यमार्यपिशुनं ब्रूहि, -चिरप्रबोधान्न
संभावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं
पौरकार्यमार्येण तत्पत्रमारोप्य दीयतां इति ।
प्रतीहारी- यद्देव आज्ञापयति । (निष्क्रान्ताः)
राजा- वातायन, त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी यदाज्ञापयति देवः । (इति निष्क्रान्तः)
विदूषकः कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेद-
रमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजा- वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तदव्यभिचारि वचः ।
कुतः
मुनिसुता प्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥८॥
विदूषकः- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि ।
(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति )
राजा- (सस्मितम्) भवतु । दृष्टं बह्मवर्चसम् । सखे, कोपविष्टः प्रियायाः
किञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ?
विदूषकः- नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा
माधवीमण्डप इमां वैलामतिवाहयिष्ये । तत्र मे चित्रफलकगतं
स्वहस्तलिखिता तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयइति ।
राजा- ईदृशं हृदयविनोदनस्थानम् ! तत्वमेव मार्गमादेशय ।
विदूषकः इत इतो भवान् ।
 ::(उभौ परिक्रामतः । सानुमत्यनुगच्छति ।)
विदूषकः- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया
निःसंशयं स्वागतेनैव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेश कृत्वोपविष्टौ )
सानुमती- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्यै
भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
(इति तथा कृत्वा स्थिता)
राजा- सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम्
कथितवानस्मि भवते च । स भवान् प्रत्यादेशवेलायां मत्समीपगतो
नासीत् । पूर्वमपि न त्वया कदाचित् सङ्कीर्तितं तत्रभवत्या नाम ।
कञ्चित् अहमपि विस्मृतवानसि त्वम् ?
विदूषकः न विस्मरामि । किं तु सर्वंकथयित्वावसाने पुनस्त्वया
परिहासविजल्प एष न भूतार्थः इत्याख्यातम् । मयापि
मृत्पिण्डबुध्दिना तथैव गृहीतम् । अथवा भवितव्यानि खलु
बलवती !
सानुमती- एवं न्विदम् ।
राजा- (ध्यात्वा) सखे, त्रायस्व, माम् ।
विदूषकः- भोः किमेतत् ? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः
शोकावास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
राजा- वयस्य, निराकरण विक्लवायाः प्रियायाः समवस्थामनुस्मृत्य
बलवदशरणोऽस्मि । सा हि,
इतः प्रत्यादेशात्स्वजनमनुगन्तुं, व्यवसिता
स्थिता तिष्ठेत्युच्चेर्वदति गुरुशिष्ये गुरु समे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥९॥
सानुमति अहो ईदृशो स्वकार्यपरता ! अस्य सन्तापेनाहं रमे ।
विदूषकः- अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति ।
राजा- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत ? मेनका किल सख्यास्ते
जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे
हृदयमाशङ्कते ।
सानुमती सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः- यद्येवम्, अस्ति खलु समागमः कालेन तत्रभवत्या ।
राजा- कथमिव ?
विदूषकः- न खलु मातापितरौ भर्तुवियोगदुःखितां दुहितरं चिरं द्र्ष्टुं पारयतः ।
राजा- वयस्य, -
स्वप्नो नु मया नु मतिभ्रमो नु
क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते
मनोरथा नाम तटप्रपाताः ॥१०॥
विदूषकः- मैवम् । नत्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमौ
भवतीति ।
राजा- (अङ्गुलीयकं विलोक्य) अये, इदं तावदसुलभस्थाभ्रंशि
शोचनीयम् !
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेना ।
अरुण नखमनोहरासु तस्याश्च्युतमसि लब्दपदं यदङ्गुलीषु ॥
सानुमती- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
विदूषकः भोः, इयं नाममुद्रा केनोध्दातेन तत्रभवत्या हस्ताभ्यासं प्रापिता ?
सानुमती ममापि कौतूहलेनाकारिता एषः ।
राजा- श्रूयतां । तपोवनात्स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह
कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यति?” इति ।
विदूषकः- ततस्ततः
राजा- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये मदवरोधगृहप्रवेशं
नेता जनस्तव समीपमुपैष्यतीति ॥१२॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः- अथ कथं धीवरकल्पितस्य रोहितमत्स्योदराभ्यन्तरे आसीत् ?
राजा- शचितीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्त्रोतसि परिभ्रष्टम् ।
विदूषकः युज्यते ।
सानुमती- अत एव तपस्विन्या शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये
सन्देहः आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते;-
कथमिवैतत् ?
राजा- उपलप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः- (आत्मगतम्) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजा-
कथ नु तं बन्धुरकोमलाङ्गुलिं
करं विहायासि निमग्नमम्भसि ?
अचेतनं नाम गुणं न लक्षयेत्
मयैव कस्मादवधीरिता प्रिया ॥१३॥
विदूषकः- (आत्मगतम्) कथं बुभुक्षया खादितव्योऽस्मि !
राजा- प्रिये, अकारणापरित्यागानुशयतप्तहृदयस्तावदनुकतामयं जनः
पुनर्दर्शनेन ।
(ततः प्रविशत्ययटीक्षेपेण चित्रफलकहस्ता चतुरिका)
चतुरिका- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति)
विदूषकः – (विलोक्य) साधु, वयस्य मधुरावस्थानदर्शनीयो भवानुप्रवेशः
स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।
सानुमती- अहो राजर्षिपुणता ! जाने सख्यग्रतो मे वर्तते इति ।
राजा- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥१४॥
सानुमती- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः
कतमाऽत्र तत्र भवती शकुन्तला ?
सानुमती अनभिज्ञः खल्वीदृशस्य रुपस्य मोघदृष्टिरयं जनः ।
राजा- त्वं तावत्कतमां तर्कयसि ?
विदूषकः तर्कयामि यैषा शिथिलबन्धनोद्वान्त कुसुमेन केशान्ते-
नोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामव-
सेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्ते-
वालिखिता, सा शकुन्तलाः इतरे सरव्याविति ।
राजा- निपुणो भवान् । अस्त्यत्र मे भावचिन्हम् ।
खिन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥१५॥
चतुरिके, अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
चतुरिका- आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजा- अहमेवैतदवलम्बे । (यथोक्तं करोति निष्क्रान्ता चैव)
राजा- (निःश्वस्य)
साक्षात्प्रियामुपगतामपहाय पूर्वं
चित्रार्पितामहमिमां बहुमन्यमानः ।
स्त्रोतोवहां पयि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥१६॥
विदूषकः – (आत्मगतम्) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः ।
(प्रकाशम्) भोः । अपरं किमत्र लिखितव्यम् ?
सानुमती यो यः प्रदेशः सख्याः मेऽभिरुपस्तं तमालेखितुकामो भवेत् ।
राजा- श्रूयताम् ।
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः
श्रृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥१७॥
विदूषकः – (आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं
लम्बकूर्चानां तापसानां कदम्बैः ।
राजा- वयस्य अन्यञ्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र
विस्मृतमस्माभिः ।
विदूषकः किमिव ?
सानुमती वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति ।
राजा-
कृतं न कर्णार्पितबन्धनं सखे
शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं
मृणालसूत्रं रचितं स्तनान्तरे ॥१८॥
विदूषकः भोः किं नु तत्रभवति रक्तकुवलयपल्लवशेभिनाग्रहस्तेन
मुखमावार्य चकित चकितेव स्थिता ? (सावधानं निरुप्य,
दृष्ट्वा) आः । एष दास्याः पुत्रः कुसुमरसपाटञ्चरस्तत्रभवत्या
वदनकमलमभिलङ्घते मधुकरः ।
राजा- ननु वार्यतामेष धृष्टः !
विदूषकः भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
राजा- युज्यते । अयि भो कुसुमलताप्रियातिथे, किमत्र् परिपतनखेदमनु-
भवसि ?
एषा कुसुमनिषण्णा तृषितापि सतो भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥
सानुमती अद्याभिजातं खल्वेष वारितः ।
विदूषकः प्रतिषिध्दापि वामैषा जातिः ।
राजा- एवं भो न मे शासने तिष्ठति ? श्रूयतां तर्हि संप्रति;
अक्लिष्टबालतरुपल्लवलोभनीयं
पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायाः
त्वां कारयामि कमलोदरबन्धनस्थम् ॥२०॥
विदूषकः एवं तीक्ष्णदण्डस्य किं न भेष्यति ? (प्रहस्य, आत्मगतम्)
एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृश वर्ण इव संवृत्तः ।
(प्रकाशम्) भोः चित्रं खल्वेतत् !
राजा- कथं चित्रम् ?
सानुमति अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः ।
राजा- वयस्य, किमिदमनुष्ठितं पौरोभाग्यम् ?
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥२१॥
(इति बाष्पं विहरति)
सानुमती पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजा- वयस्य, कथमेवमविश्रान्तदुः खमनुभवामि ?
प्रजागरात्खिलीभूतस्तस्याः स्वप्नं समागमः ।
बाष्पस्तु न ददात्येनां द्र्ष्टुं चित्रगतामपि ॥२२॥
सानुमती सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलाय ।
(प्रविश्य) चतुरिका जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं
प्रस्थितास्मि ।
राजा- किं च ?
चतुरिका स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्य-
पुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः दिष्ट्या त्वं मुक्ता !
 चतुरिका यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित
आत्मा ।
राजा- वयस्य, उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं
रक्षतु ।
विदूषकः आत्मानमिति भण (चित्रफलकमादायोत्थाय च) यदि भवानन्तः-
पुरकूटवागुरातो मोक्ष्यते, तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।
सानुमती अन्यसंक्रान्तहृदयोऽपि प्रथम सम्भावनामपेक्षते । अतिशिथिल-
सौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता) प्रतीहारी- जयतु जयतु देवः ।
राजा- वेत्रवती, न खल्वन्तरा दृष्टा त्वया देवी ?
प्रतीहारी अथ किम् ? पत्र हस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजा- कार्यज्ञा- कार्योपरोधं मे परिहरति ।
प्रतीहारी देव, अमात्यो विज्ञापयति- अर्थजातस्य गणनाबहुलतयैकमेव
पौरकार्यमवेक्षितं; तद्देवः पत्रारुढं प्रत्यक्षीकरोतुइति ।
राजा- इतः पत्रं दर्शय । (प्रतीहार्युपनयति)
राजा- (अनुवाच्य) कथम ? समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम
नौव्यसने विपन्नः ! अनपत्यश्च किल तपस्वी ! राजगामी
तस्यार्थसञ्चय इत्येतदमात्येन लिखितम् ।कष्टं खल्वनपत्यता ।
वेत्रवति, बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् ।विचार्यतां
यदि काचिदापन्नसत्वा तस्य भार्यासु स्यात् ।
प्रतीहारी देव, इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य
श्रूयते ।
राजा- ननु गर्भः पित्रयं रिक्थमर्हति ! गच्छ । एवममात्यं ब्रूहि ।
प्रतीहारी यद्देव आज्ञापयति ।
राजा- एहि तावत् ।
प्रतीहारी इयमस्मि ।
राजा- किमनेन सन्ततिरस्ति नास्तीति ?
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥२३॥
प्रतीहारी एवं नाम घोषयितव्यम् (निष्क्रम्य पुनः प्रविश्य) काले
प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजा-(दीर्घमुष्णं च निः श्वस्य) एवं भो । सन्ततिच्छेदनिरवलम्बना
कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममाप्यन्ते
पुरुवंशश्रियः एष एव वृत्तान्तः ।
प्रतीहारी प्रतिहतममङ्गलम् ।
राजा- धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा- संरोपितोऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥२४॥
सानुमती अपरिच्छिन्नेदानीं ते सन्ततिर्भविष्यति ।
चतुरिका आर्य, अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माधव्य गृहीत्वागच्छ ।
प्रतीहारी सुष्ठु भणसि ।
राजा- अहो, दुष्यन्तस्य संशयमारुढाः पिण्डभाजः । कुतः;
अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताश्रुशेषमुदकं पितरः पिबन्ति ॥२५॥
चतुरिका – (ससंभ्रममवलोक्य) समाश्वसितु, समाश्वसितु भर्ता ।
सानुमती- हा धिक् ! हा धिक् ! सति खलु दीपे व्यवधानदोषेणैषोऽन्ध-
कारदोषमनुभवति । अहमिदानीमेव निर्वृतं करोमि ? अथवा,
श्रुतं मया शकुन्तलां समाश्वसन्त्या महेन्द्रजनन्याः
मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति तथाऽचिरेण धर्मपत्नीं
भर्ताभिनन्दिष्य-तीति । तद्युक्तमेतं कालं प्रतिपालयितुम् ।
यावदनेनवृत्तान्तेन प्रियसखीं समाश्वासयामि ।
            (इत्युद्भ्रान्तकेन निष्क्रान्ता)
            (नेपथ्ये) अब्रह्मण्यम् ।
राजा- (प्रत्यागतः कर्णं दत्वा) अये, माधव्यस्येवार्तस्वरः । कः कोऽत्र्
भोः ?
(प्रविश्य) प्रतीहारी – (ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् ।
राजा- केनात्तगन्धो माणवकः ?
प्रतीहारी अदृष्टरुपेण केनापि सत्येनातिक्रम्य मेघप्रतिच्छन्दस्य
प्रासादस्याग्रभूमिमारोपितः ।
राजा- (उत्थाय) मा तावत् ममापि सत्वैरभिभूयन्ते गृहाः । अथवा,-
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥२६॥
(नेपथ्ये) भो वयस्य, अविहा ! अविहा !
राजा- (गतिभेदेन परिक्रामन्) सखे, न भेतव्यम् ।
(नेपथ्ये) पुनस्तदेव पठित्वा कथं न भेष्यामि ? एष मां कोऽपि
प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।
राजा- (सदृष्टिक्षेपम्) धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता) यवनी- भर्तः । एतध्दस्तावापसहितं
शरासनम् । राजा सशरं धनुरादत्ते ।
(नेपथ्ये)
एष त्वामभिनवकण्ठशोणितार्थी
शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव शरणं भवत्विदानीम् ॥२७॥
राजा- (सरोषम्) कथं मामेवोद्दिशति ? तिष्ठ, तिष्ठ कुणपाशन्, त्वमिदानीं
न भविष्यसि ? (शार्ङ्गमारोप्य)वेत्रवति, सोपानमार्गमादेशय ।
प्रतीहारी- इत इतो देवः (सर्वे सत्वरमुपसर्पन्ति)
राजा- (समन्ताद्विलोक्य) शून्य खल्विदम् ।
(नेपथ्ये)- अविहा ! अविहा ! अहमत्र भवन्तं पश्यामि । त्वं मां न पश्यसि ।
बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजा- भोस्तितस्करिणीगर्वित । मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं
सन्दधे, -
यो हनिष्यति बध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥२८॥
(इत्यस्त्रं संधत्ते । ततः प्रविशति विदूषकमुत्सृज्य मातलिः विदूषकश्च )
मातलिः- कृता शरव्यं हरिणा तवासुराः
शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने
पतन्ति चक्षूंषि न दारुणाः शराः ॥२९॥
राजा- (ससंभ्रममस्त्रमुपसंहरन्) अये मातलिः ! स्वागतं महेन्द्रसारथे ।
विदूषकः- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेन अभिनन्द्यते ।
मातलिः- (सस्मितम्) आयुष्मन्, श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं
प्रेषितः ।
राजा- अवहितोऽस्मि ।
मातलिः- अस्ति कालनेमिप्रसूतिर्दुर्जयोः नाम दानवगणः ।
राजा- अस्ति श्रुतपूर्वं मया नारदात् ।
मातलिः- सख्युस्ते स किल शतक्रतोरजय्य-
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥३०॥
स भावनात्तशस्त्र एव इदानीमैन्द्रस्यमारुह्य विजयाय प्रतिष्ठताम् ।
राजा- अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माधव्यं प्रति
भवता किमेव प्रयुक्तम् ?
मातलिः- तदपि कथ्यते ।किञ्चिन्निमित्तादपि मनः सन्तापात् आयुष्मान्
मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मंत्त तथा कृतवान्
अस्मि । कुतः;
ज्वलति चलितेन्धनोऽग्विर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥३१॥
राजा- (जनान्तिकम्) वयस्य, अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र
परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अदिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥३२॥ इति ।
विदूषकः यद्भवानाज्ञापयति । (इति निष्क्रान्तः)
मातलिः- आयुष्मान् रथमारोहतु । (राजा रथारोहणं नाट्यति )
(इति निष्क्रान्तः सर्वे)
इति षष्ठोऽङ्कः
सप्तमोऽङ्कः

 (ततः प्र-विशति आकाशयानेन रथाधिरुढो राजा मातलिश्च)
राजा- मातले, अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषाद्
अनुपयुक्तमिवात्मानं समर्थये ।
मातलिः-(सस्मितम्) आयुष्मन्, उभयमप्यपरितोषम् । कुतः,
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥
राजा- मातले, मा मैवम् । स खलु मनोरथानामप्यभूमिः विसर्जनाव-
सरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन
आमृष्टवक्षोहरिचन्दनाङ्कः मन्दारमाला हरिणा पिनध्दा ॥२॥
मातलिः- किमिव नामायुष्मान् अमरेश्वरान्नार्हति ! पश्य-
सुखपरस्य हरेरुभयैः मतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥३॥
राजा- अत्र खलु शतक्रतोरेव महिमास्तुल्यः
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणास्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥४॥
मातलिः- सदृशं तवैतत् (स्तोकमन्तरमतीत्य) आयुष्मन्, इतः पश्य
नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखंति ॥५॥
राजा- मातले, असुरसंप्रहारोत्सुकेन पूर्वेधुर्दिवमधिरोहता मया न लक्षितः
स्वर्गमार्गः । कथमस्मिन् मरुतां पथि वर्तामहे ?
मातलिः-
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां
ज्योतीषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य व्यपेतरजसः प्रवहस्य वायोः
मार्गो द्वितीयहरिविक्रम पूत एषः ॥६॥
राजा- मातले, अतः खलु सबाह्यान्तः करणो ममान्तरात्मा प्रसीदति
(रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः ।
मातलिः- कथमवगम्यते ?
राजा-
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः
हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां
पशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥७॥
मातलिः- क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते ।
राजा- (अधोऽवलोक्य) मातले, वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते
मनुष्यलोकः । तथा हि
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥८॥
मातलिः- साधु दृष्टम् । (सबहुमानमवलोक्य ) अहो उदाररमणीया पृथ्वी ।
राजा- मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सान्ध्य
इव मेघपरिधः सानुमानालोक्यते ?
मातलिः एष खलु हेमकूटो नाम किंपुरुष पर्वतः तपस्संसिध्दिक्षेत्रम् ।
पश्य-
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥९॥
राजा- तेन ह्यतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं
गन्तुमिच्छामि ।
मातलिः- प्रथमः कल्पः !
राजा- (सस्मितम्)
उपोढशब्दा न रथाङ्गनेमयः
प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयाऽनिरुध्दत-
स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥१०॥
मातलिः- एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा- मातले, कतमस्मिन् प्रदेशे मारीचाश्रमः ?
मातलिः- (हस्तेन दर्शयन्) पश्य !
वल्मीकार्धनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं विभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥११॥
राजा- नमस्ते कष्टतपसे !
मातलिः- (संयतप्रग्रहं रथं कृत्वा) एतौ अदितिपरिवर्धितमन्दारवृक्षं
प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजा- स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतहृदमिवावगाढोऽस्मि ।
मातलिः- (रथं स्थापयित्वा) अवतरत्वायुष्मान् ।
राजा- (अवतीर्य मातले, भवान् कथमिदानीम् ?
मातलिः- संयन्त्रितो मया रथः । वयमप्यवतरामः (तथा कृत्वा) इत
आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा- ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षो वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं सत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥१२॥
मातलिः- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य, आकाशे) अये
वृध्दशाकल्य किमनुतिष्ठति भगवान् मारीचः ? किं व्रवीषि-
दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नी सहितायै
कथयतिइति ?
राजा- (कर्णं दत्वा), अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः- (राजानमवलोक्य) अस्मिन्नशोकवृक्षमूले तावदास्ताम् आयुष्मान्
यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा- यथा भवान् मन्यते ।
मातलिः- आयुष्मन्, साधयाम्यहम् । (इति निष्क्रान्तः)
राजा- (निमित्तं सूचयित्वा)-
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥१३॥
(नेपथ्ये) मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ?
राजा- (कर्णं दत्वा) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ?
(शब्दानुसारेणावलोक्य, सविस्मयम्) अये को नु खल्वयम्
अनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ?
अर्धपीतस्तनं मातुरमर्दक्लिष्टकेसरम् ।
प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥१४॥
(ततः प्रविशति यथानिर्दिष्टकर्मो तपस्विनीभ्यां बालः )
बालः- जृम्भस्व सिंह, दन्तास्ते गणयिष्ये ।
प्रथमा- अविनीत किं नोऽपत्यनिर्विशॆषाणि सत्वानि विप्रकरोषि ? हन्त !
वर्धते ते संरम्भः । स्थानं खलु ऋषिजनेन सर्वदमन इति
कृतनामधेयोऽसि ।
राजा- किं नु खलु बालेऽस्मिनौरस इव पुत्रे स्निह्मति मे मनः ?
नूनमनपत्यता मां वत्सलयति !
द्वितीया- एषा खलु केसरिणी त्वां लङ्घयति, यद्यस्याः पुत्रकं न मञ्चसि ।
बालः- (सस्मितम्) अहो बलीयः खलु भीतोऽस्मि ! (अधरं दर्शयति)
राजा- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्पुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥१५॥
प्रथमा - वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।
बालः- कुत्र ? देह्येतत् ।
राजा- कथं चक्रवर्तिलक्षणमप्यनेन धार्यत ? तथा ह्यस्य
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिध्दरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥१६॥
द्वितीया- सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् ।
मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिका-
मयूरोऽस्ति । तमस्योपहर ।
प्रथमा- तथा । (इति निष्क्रान्ता)
बालः- अनेनैव तावत् क्रीडिष्यामि । (इति तापसीं विलोक्य हसति)
राजा- स्पृहयामि खलु दुर्ललितायास्मै ! (निः श्वस्य)
आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीय वचः प्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥१७॥
तापसी- भवतु । मामयं गणयति । (पार्श्वमवलोक्य) कोऽत्र
ऋषिकुमाराणाम् ? (राजानमवलोक्य) भद्रमुख, एहि तावत् ।
मोचय अनेन दुर्मोकहस्तग्रहेण डिम्बलीलया बाध्यमानं
बालमृगेन्द्रम् ।
राजा- (उपगम्य, सस्मितम्) अयि भो महर्षिपुत्र !
एवमाश्रमविरुध्दवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥१८॥
तापसी- भद्रमुख, न खल्वयमृषिकुमारः ।
राजा- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तुवयमेवं
तर्किणः (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य, आत्मगतम्)
अनेन कस्यापि कुलङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
को निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररुढः ॥१९॥
तापसी- (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् ।
राजा- आर्ये, किमिव ?
तापसी- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिता अस्मि ।
अपरिचितस्यापि तेऽप्रतिलोभः संवृत्तःइति ।
राजा- (बालकमुपलालयन्) न चेन्मुनिकुमारोऽयमथ कोऽस्य
व्यपदेशः ?
तापसी- पुरुवंशः ।
राजा- (आत्मगतम्) कथमेकान्वयो मम ? अतः खलु मदनुकारिण-
मेनमत्रभवती मन्यते । अस्त्यैतत् पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं
क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकयतिव्रतानि पश्चात्
तरुमूलानि गृहीभवन्ति तेषाम् ॥२०॥
(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः !
तापसी- यथा भद्रमुखो भणति ।अप्सरसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने
प्रसूता ।
राजा- (आत्मगतम्) हन्त ! द्वितीयमिदमाशाजननम् । (प्रकाशम् ) अथ
सा तत्प्रभवती किमारव्यस्य राजर्षेः पत्नी ?
तापसी- कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति ?
राजा- (स्वगतम्) इयंखलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य
शिशोर्मातरं नामतः पृच्छामि अथवा अनार्य परदारव्यवहारः ।
(प्रविश्य मृन्मयूरहस्ता)
तापसी - सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व ।
बालः- (सदृष्टिक्षेपम्) कुत्र वा मम माता?
उभे- नामसादृश्येन विञ्चितो मातृवत्सलः ।
द्वितीया- वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा- (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति
पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्णिकेव नाममात्र प्रस्तावो
मे विषादाय कल्पते !
बालः - मातः, रोचते म एष भद्रमयूरः (इति क्रीडनकमादत्ते)
प्रथमा- (विलोक्य सोद्वेगम्) अहो । रक्षाकरण्डकमस्य मणिबन्धे न
दृश्यते ।
राजा- अलमावेगेन नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् ।
(इत्यादातुमिच्छति )
उभे- मा खल्वेतदवलम्ब्य--- कथं गृहीतमनेन !
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
राजा- किमर्थं प्रतिषिध्दाः स्मः ?
प्रथमा - श्रृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये
भगवता मारीचेन दत्ता । एनां किल मातापितरावात्मानं च
वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजा- अथ गृह्णाति ?
प्रथमा- ततस्तं सर्पो भूत्वा दशति ।
राजा- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ?
उभे- अनेकशः ।
राजा - सहर्षम् , (आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं
नाभिनन्दामि ! (इति बालं परिष्वजते)
द्वितीया- सुव्रते, एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै
निवेदयावः । (इति निष्क्रान्ते)
बालः- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजा- पुत्रक, मया सहेव मातरमभिनन्दिष्यसि ।
बालः - मम खलु तातो दुष्यन्तः ! न त्वम् ।
राजा -(सस्मितम्) एष विवाद एव प्रत्याययति !
(ततः प्रविशत्येकवेणीधरा शकुन्तला)
शकुन्तला विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म
आशासीदात्मनो भागधेयेषु । अथवा, यथा सानुमत्याख्यातं तथा
सम्भाव्यत एतत् ।
राजा -(शकुन्तलां विलोक्य) अये, सेयमत्रभवती शकुन्तला । यैषा
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुध्दशीला मम दीर्घं विरहव्रतं बिभर्ति ॥२१॥
शाकुन्तला – (पाश्चात्तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः
क एष इदानीं कृतरक्षामङ्कलं दारकं मे गात्रसंसर्गेण दूषयति ?
बालः- (मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इति आलिङ्गति ।
राजा- प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं,
यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुन्तला -(आत्मगतम्) हृदय, समाश्वसिहि । समाश्वसिहि ।
परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः
राजा - प्रिये, -
स्मृतिभिन्नमोहतमसो दिष्टया
प्रमुखे स्थितासि मे सुमुखी ।
उपरागान्ते शशिनः समुपगता-
रोहिणी योगम् ॥२२॥
शकुन्तला जयतु जयत्वार्य - - - (इत्यर्धोक्ते बाष्पकण्ठी विरमति )
राजा- सुन्दरि !
बाष्पेण प्रतिषिध्देऽपि जवशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥२३॥
बालः - मातः कः एषः ?
शकुन्तला- वत्स, ते भागधेयानि पृच्छ ।
 राजा- (शकुन्तलायाः पादयोः प्रणिपत्य)
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥२४॥
शकुन्तला उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितरतिबन्धकं पुराकृतं तेषु दिवसेषु
परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि तथाविधः
संवृत्तः । (राजोत्तिष्ठति)
शकुन्तला अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्याय जनः ?
राजा - उद्घृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बध्दबिन्दुरधरं परिबाधमानः ।
ते तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥२५॥
(राजा यथोक्तमनुतिष्ठति)
शकुन्तला – (नाममुद्रां दृष्ट्वा) आर्यपुत्र, इदं तदङ्गुलीयकम् ।
राजा - अस्मादङ्गुलीयोपलम्भात् खलु स्मृतिरुपलब्धा !
शकुन्तला विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभम् आसीत् ।
राजा- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।
शकुन्तला नास्य विश्वसिमि । आर्यपुत्र एवैतध्दारयतु ।
(ततः प्रविशति मातलि )
मातलिः- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन च आयुष्मान् वर्धते ।
राजा- अभूत्स्सम्पादितस्वादुफलो मे मनोरथः । मातले, न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ?
मातलिः- (सस्मितम्) किमीश्वराणां परोक्षम् ? एत्वायुष्मान् । भगवान्
मारीचस्ते दर्शनं वितरति ।
राजा- शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं
द्र्ष्टुमिच्छामि ।
शकुन्तला जिह्नेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजा- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः)
मारीचः- (राजानमवलोक्य) दाक्षायणि !
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥२६॥
अदितिः- संभावनीयानुभावस्याकृतिः !
मातलिः- आयुष्मन्, एतौ पुत्रपीतिपिशुनेन चक्षुषा दिवौकसां
पितरावायुष्मन्तमवलोकयत । तावुपसर्प ।
राजा- मातले !
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचि संभवमिदं तत्स्रष्टुरेकान्तरम् ॥२७॥
मातलिः अथ किम् ?
राजा- (उपगम्य) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
मारीचः वत्स, चिरं जीव ! पृथ्वीं पालय ।
अदिति - वत्स, अप्रतिरथो भव !
मारीचः- वत्से,
आखण्डलभसो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्त्या न ते योग्या पौलोमी सदृशी भव ॥२८॥
अदितिः- जाते, भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो
भवतु । उपविशत ।
(सर्वे प्रजापतिमभितः उपविशन्ति)
मारीचः – (एकैकं निर्दिशन् )
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रध्दा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥२९॥
राजा- भगवन् प्रागभिप्रेतसिध्दिः, पश्चाद्दर्शनम् ! अतोऽपूर्वः खलु
वोऽनुग्रहः कुतः,-
उदेति पूर्वं कुसुमं ततः फलं धनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥३०॥
मातलिः- एवं विधातारः प्रसीदन्ति ।
राजा- भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिना उपयम्य
कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्न-
पराध्दोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुली-
यकदर्शनात् ऊढपूर्वां तद् दुहितरमवगतोऽहम् । तच्चित्रमिव मे
प्रतिभाति ।
यथा गजो नेति समक्षरुपे
तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीति
स्तयाविधो मे मनसां विकारः ॥३१॥
मारीचः- वत्स, अलमात्मापराधशङ्कया । संमोहोऽपि त्वयि नानुपपन्नः ।
श्रूयताम् ।
राजा- अवहितोऽस्मि ।
मारीचः यदैवाप्सरतीर्थावतरणात् प्रत्याख्यानवैक्लव्यां शकुन्तलामादाय
मेनका दाक्षायणीमुपगता तदेव ध्यानादवगतोऽस्मि दुर्वाससः
शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नान्यथेति ।
स चायमङ्गुलीयकदर्शनावसानः !
राजा- ( सोच्छवासम्) एष वचनीयान्मुक्तोऽस्मि !
शकुन्तला –(स्वगतम्) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुन शप्तमात्मानं
स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न
विदितः । अतः सखीभ्यां सन्दिष्टाऽस्मि भर्तुरङ्गुलीयकं
दर्शयितव्यमिति ।
मारीचः- वत्से विदितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः
कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरुक्षे
भर्तर्यतेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहृतप्रसादे
शुध्दे तु दर्पणतले सुलभावकाशा ॥३२॥
राजा- यथाह भगवान् ।
मारीचः- वत्स , किञ्चिदभिनन्दितस्त्वया विधिवदस्माभिः अनुष्ठितजातकर्मा
पुत्र एष शाकुन्तलेयः ?
राजा- भगवन्, अत्र खलु मे वंशप्रतिष्ठा !
(इति बालं हस्तेन गृह्णाति)
मारीचः तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य,-
रथेनानुध्दातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरधः ।
इहायं सत्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥३३॥
राजा- भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे !
अदितिः- भगवन्, अस्याः दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावत्
श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति ।
शकुन्तला- (आत्मगतम्) मनोरथ खलु मे भणितो भगवत्या तपः प्रभावात्
प्रत्यक्षं सर्वमेव तत्र भवतः ।
राजा- अतः खलु मम नातिक्रुध्दो मुनिः ।
मारीचः- तथाप्यसौ प्रियमस्माभिः श्रावयितव्य । कः कोऽत्र भोः ?
(प्रविश्य) शिष्यः भगवन् अयमस्मि ।
मारीचः- गालव, इदानीमेव विहायसा गत्वा मम वचनात् तत्रभवते कण्वाय
प्रियमावेदय यथा- पुत्रवती शकुन्तला । तच्छापनिवृत्तौ स्मृतिमत
दुष्यन्तेन प्रतिगृहीताइति ।
शिष्यः- यदाज्ञापयति भगवान् । (इति निष्क्रान्तः)
मारीचः- वत्स, त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य
ते राजधानीं प्रतिष्ठस्व ।
राजा- यदाज्ञापयति भगवन् ।
मारीचः- अपि च ।-
तव भवतु बिडौजा प्राज्यवृष्टि प्रजासु
त्वमपि विततयज्ञः स्वर्गिणः प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥३४॥
राजा- भगवन, य्थाशक्ति श्रेयसे यतिष्ये ।
मारीचः- वत्स, किं ते भूयः प्रियमुपहरामि ?
राजा- अतः परमपि प्रियमस्ति ? यदिह भगवान् प्रियं कर्तुमिच्छति
तर्हीदिमस्तु ।
(भरतवाक्यम्)
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम्
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः ॥३५॥
(इति निष्क्रान्ताः सर्वे)
-इति सप्तमोऽङ्कः-

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें