शिशुपालवधम्

शिशुपालवधम्
(
ग्रन्थकर्ता - माघः)

प्रथमः सर्गः

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥


गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वं ज्वलनम हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥


चयस्त्विषामित्यवधारितं पुरस्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥


नवानधोsधो बृहतः पयोधरान्‌ समूढकर्पूरपरागपाण्डुरम्‌ ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥ ४ ॥


दधानमम्भोरुहकेसरद्युती र्जटाः शरच्चन्द्रमरीचिरोचिष‌म्‌ ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥ ५ ॥


पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्‌ ॥ ६ ॥


विहङ्गराजाङ्गरुहैरिवाततै र्हिरण्यमयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै र्घनं धनान्ते तडितां गुणैरिव ॥ ७ ॥


निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्म्णा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारूचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्‌ ॥ ८ ॥


अजस्रमास्फालितवल्लकीगुण क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥


रण्द्भिराघट्टनया नभस्वतः पृथग्विभिनाश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना मवेक्षमाणं महतीं मूहुर्मूहुः ॥ १० ॥


निवर्त्य सो नुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्‌ सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ॥ ११ ॥


पतन्‌ पतङ्गप्रतिमस्तपोनिधिः पुरो स्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥


अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥


तमर्ध्यमर्ध्यादिकयादिपूरुषः सपर्यया साधु स पर्य्यपूपुजत्‌ ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥


न यावदेतावुदपश्यदुत्थितौ जनस्तुषारासाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमास्ने मुनि श्चिरंतनस्तावदभिन्यवीविशत्‌ ॥ १५ ॥


महामहानीलशिलारुचः पुरो निषेदिवान्‌ कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायकमुच्च्कै रचूचुरच्च्न्द्रमसो भिरामताम्‌ ॥ १६ ॥


विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्‌ परिचर्यया मूहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥


अशेषतीर्थीपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अधौधविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥


स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिघाय जम्बूजनितश्रियः श्रियं सुमेरुश्रुङ्गस्य तदा तदासनम्‌ ॥ १९ ॥


स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
वोदोद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥


रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥


प्रफुल्ततापिच्छनिभैरभीशुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥


युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥


निधाघधामानमिवाधिदीधितिं मुदा विकासं यतिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पूण्डरीकाक्ष इति स्फुटो भवत्‌ ॥ २४ ॥


सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्‌ ।
द्‍विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥


हरत्ययं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालतत्रितये पि योग्यताम्‌ ॥ २६ ॥


जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥


कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे पि गुरुस्त्वमक्षतिर्निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥


विलोकनेनैव तवामुना मुने कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो थवा श्रेयसि केन तृप्यते ॥ २९ ॥


गतस्पृहो प्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम्‌ ॥ ३० ॥


इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य्यं गुरु योगिनामपि ॥ ३१ ॥


उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम्‌ ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निपायसंश्रया ॥ ३२ ॥


उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरूषं पुराविदः ॥ ३३ ॥


निवेशयामासिथ हेलयोद्धतं फणाभृतां छाद्नमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम्‌ ॥ ३४ ॥


अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्‌ गुणैर्भवान्‌ भवेच्छेदकरैः करोत्यधः ॥ ३५ ॥


लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूडलोकत्रितयेन सांप्रतं गुरूर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥


निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम्‌ ॥ ३७ ॥


उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥ ३८ ॥


करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्त्व स्तवम्‌ ।
हरेर्हिरण्याक्षपुरःसरासुरद्‍विपद्‍विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥


प्रवृत एव स्वयमुञ्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुभं मनः ॥ ४० ॥


तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्‍विषस्तद्भवता निशम्यताम्‌ ॥ ४१ ॥


अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥


समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम्‌ ।
भवस्य पूर्वावतारस्तरस्विना मनःसु येन द्युसदां व्यधीयत ॥ ४३ ॥


दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥


पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकगुणानि नाकिनां गणैस्तमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥


स सम्चरिष्णुर्भुवनान्तराणि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसं।ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥


सटच्छटाभिन्नधनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥


विनोदनिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥


प्रभुर्बुभूषुर्भवनत्रयस्य यः शिरो तिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥ ४९ ॥


समुत्क्षिपन्‌ यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषमुखेन निष्क्रयाम्‌ ॥ ५० ॥


पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्‍विषा वशी य इत्थनस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥


सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्‌ ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्‌ ॥ ५२ ॥


अश्क्नुवन्‌ सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्‌ ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्‌ दिवसानि कौशिकः ॥ ५३ ॥


बृहच्छिलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धर‌म्‌ ॥ ५४ ॥

विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकः प्रकम्पयामास न मानसं न सः ॥ ५५ ॥


रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयं प्रप्रेदिर ॥ ५६ ॥


परेतभर्तुर्महिषो मुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृते पि भारे महतस्त्रपाभरा दुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥


स्पृशन्‌ सशङ्कः समये शुचावइ स्थितः कराग्रैरसमग्रपातिभिः ।
अधर्मधर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥


कलासमग्रेणा गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं न नर्म्साचिव्यमकारि नेन्दुना ॥ ५९ ॥


विदग्धलीलोचितदन्तपत्रिकाचिकीर्षय नूनमेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्‍यापि पुनः प्ररोहति ॥ ६० ॥


निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥


तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्‌ ।
बभार वाष्पैर्द्विगूणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥ ६२ ॥


तदीयमातङ्गघटाविघट्टितैः कटास्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिरस्य याथार्थ्यमलम्भि दिग्गजैः ॥ ६३ ॥


परस्य मर्माविधमुञ्झतां निजं द्विजिहृतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६४ ॥


तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिर समेत्य च ।
प्रसूनक्लृप्तं ददतः सदर्त्तवः पुरे स्य वास्तव्यदुटुम्बितां दधुः ॥ ६५ ॥


अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥


अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभ्मानैकघना हि मानिनः ॥ ६७ ॥


स्मरस्यदो दाशरथिर्भवन्‌ भवानमुं वनान्ताद्वनितापहारिणम्‌ ।
पयोधिमाविद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ ६८ ॥


अथोपपत्तिं छलनापरो परामवाप्य शैलूष इवैष भूमिकाम्‌ ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सो प्यसः परैः ॥ ६९ ॥


स बालः आसीद्वपुष चतुर्भुजो मुखेन पूर्णेन्दुरुचिस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृच्चकैरसंशयं संप्रति तेजसा रविः ॥ ७० ॥


स्वयं विधाता सुरदैत्यरक्षसामनुग्रहापग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्‌ हसत्यसौ ॥ ७१ ॥


बलावलेपादधुनापि पूर्ववत्‌ प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्‌ प्रकृतिः सुनिश्चिता पुमांसमन्वेति भवान्तरेष्वपि ॥ ७२ ॥


तदेनमुल्लङ्घितशासनं विधएर्विधेहि कीनाशनिवेशनातिथिम्‌ ।
शुभेतराचारविपक्रिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥


हृदयमरिवधोदयादुपोढद्रढिम दधातु पुनः पुरन्दरस्य ।
धनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्‌ ॥ ७४ ॥


ओमित्युक्तवतो थ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतितं पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम्‌ ॥ ७५ ॥

इति माघभट्टविरचिते शिशुपालवधमहाकाव्ये कृष्णनारदसंभाषणं नाम प्रथमः सर्गः॥

द्वीतीयः सर्गः


यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
वैद्यं प्रति प्रतिष्ठासुरासीत्‌ कार्यद्वयाकुलः ॥ १ ॥

सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।
गुरूकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम्‌ ॥ २ ॥

जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥

रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनो पि परितः पौरुषेयवृता इव ॥ ४ ॥

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरुहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ५ ॥

गुरूभयस्मै गुरुणोरुभयोरथ कार्ययोः ।
हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६ ॥

द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितः ।
स्नपितेवाभवत्‌ तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥

भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥

करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम्‌ ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ ९ ॥

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यतु ददह्यते लोकमतो दुःखाकरोति माम्‌ ॥ ११ ॥

मम तावन्मतमदः श्रूयतामङ्ग वामपि
ज्ञातसारे पि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥

यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥

ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामौष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥

विवक्षितामर्थविदस्तत्क्षणं प्रतिसंहृताम्‌ ।
प्रापयन्‌ पवनव्याधेर्गिरमुत्तरपक्षत‌म्‌ ॥ १५ ॥

घूर्णयन्‌ मदिरास्वादमदपाटलितद्युती ।
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥

आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिनीम्‌ ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७ ॥

दधत्‌ संध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्विषद्द्वेशोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ १८ ॥

प्रोल्लसत्कूण्डलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचिं विदधच्चूतपल्लवीम्‌ ॥ १९ ॥

ककुद्मिकन्यावक्तान्तर्वासलब्धाधिवासया ।
मुखामोदं मदिरया कृतानुव्याधमुद्वम‌न्‌ ॥ २० ॥

जगादवदनच्छद्मपद्मपर्अन्तपातिनः ।
नयन्‌ मधुलिहः श्वैत्यमुदंशुदशनांशुभिः ॥ २१ ॥

यद्वासुदेवेनादीनामनादीनवमीरितम्‌ ।
वचस्तस्य सपदि क्रिया केवलमुत्तरम्‌ ॥ २२ ॥

नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौधधगप्यग्निस्त्विषा नात्येति पूषण‌म्‌ ॥ २३ ॥

विरोधवचसो मूकान्‌ वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थप्रवाचः कृतिनां गिरः ॥ २४ ॥

संक्षिप्तस्याओयतो स्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २५ ॥

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम्‌ ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्‌ ॥ २६ ॥

षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः ।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसो प्यलम्‌ ॥ २७ ॥

अनिर्लोठितकार्य्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुश्कस्येव वल्गितम्‌ ॥ २८ ॥

मन्त्रो योध इवाधीरः सर्वाङ्गैः कल्पितैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥

आत्मोदयः अरज्यानिर्द्वयं नीतिरितीआटि ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥

तृप्तियोगः अरेणापिउ न महिम्ना महात्मनाम्‌ ।
पूर्णचन्द्रोदयाकाङ्क्षी दृष्टान्तो त्र महार्णवः ॥ ३१ ॥

संपदा सुस्थितमन्यो भवति स्वल्पयापि यः ।
कृततुल्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२ ॥

समूलघातमघ्नन्तः परान्‌ नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥

विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥

ध्रियते यावदेको पि रिपुस्तावत्‌ कुतः शिवम्‌ ।
पुरः क्लिश्नाति सोमं हि सैंहिकेयो सुरद्रुहाम्‌ ।३५ ॥

सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः ।
स्याताममित्रौ मित्रे च सहजप्राकृतावै ॥ ३६ ॥

उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७ ॥

त्वया विप्रकृतश्चैध्यो रुक्मिणीं हरता हरे ।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः । ।३८ ॥

त्वयि भौमं गते जेतुमसोत्सीत्‌ स पुरीमिमाम्‌ ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥

आलप्यालमिदं बभ्रोर्यत्‌ स दारानपाहरत्‌ ।
कथापि खलु पापानामलमश्रेयसे यतः ॥ ४० ॥

चिराद्ध एवं भवता विराद्धा बहुधा च नः ।
निर्वर्त्यते रिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥

विधाय वैरं सामर्षे नरो रौ य उदासते ।
प्रक्षिप्योदर्चिर्षं कक्षे शेरते ते भिमारुतम्‌ ।४२ ॥

मनागनभ्यावृत्या वा कामं क्षाम्यतु यः क्षमी ।
क्रियासमभिहारेणा विराध्यन्तं क्षमेत कः ॥ ४३ ॥

अन्यदा भूषणं पुंसः शमो लज्जेव योषितः ।
पराक्रमः परिव्हवे वैयात्यं सुरतेष्विव ॥ ४४ ॥

मा जीवन्‌ यः परावज्ञादुःखदग्धो पि जीवति ।
तस्याजननिरेवास्तु जननीक्लशकारिणः ॥ ४५ ॥

पादाहतं यतुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने इ देहिनस्तद्वरं रजः ॥ ४६ ॥

असंपादयतः कञ्चिदर्थं जतिक्रियागुणैः ।
यदृच्छाश्ब्दवत्‌ पुंसः संज्ञाहै जन्म केवलम्‌ ॥ ४७ ॥

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ ४८ ॥

तुल्ये पराधे अवर्भानुर्भानुमन्तं चिरेण यत्‌ ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटां फलम्‌ ॥ ४९ ॥

स्वयं प्रणमते ल्पे पि परवायावुपेयुषि ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥

तेजस्वीमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्धतपसस्तपनो जातवेदसाम्‌ ॥ ५१ ॥

अकृत्वा हेलया पादमु्च्चैर्मूर्धसु विद्विषाम्‌ ।
कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ५२ ॥

अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षुण्ण्मृगपूगो मृगाधिपः ॥ ५३ ॥

चतुर्थोपायसाद्ये पि रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः को म्भसा परिषिञ्चति ॥ ५४ ॥

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥

गुणानामायथातथ्यादर्थं विस्रावयन्ति ये ।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंहितः ॥ ५६ ॥

स्वशक्त्युपचये केचित्‌ परस्य व्यसने परे ।
यात्रामाहुरुदासीनं त्वामुत्थापयति द्वयम्‌ ॥ ५७ ॥

लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्‌ रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥

विजयस्त्वयि सेनायाः साक्षिमात्रे पदिश्यताम्‌ ।
फलभाजि समीक्षोक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥

हते हिडीम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥ ६० ॥

नीतिरापदि यद्गम्यः परस्तन्मानिनो हिये ।
विधुर्विधुंतुदस्येव पूर्णस्तस्योत्सवाय सः ॥ ६१ ॥

अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्‌ ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥

इन्द्रप्रस्थगमस्तावत्‌ कारि मा सन्तु चेदयः ।
आस्माकदन्तिसांनिध्यवामनीभूतभूरुहः ॥ ६३ ॥

निरुद्धवीवश्वासारप्रसारां गाइव व्रजम्‌ ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥

यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं प्रतीहते ॥ ६५ ॥

प्राप्यतां विद्युतः संपत्‌ संपर्कादर्करोचिषाम्‌ ।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छोणितोक्षितैः ॥ ६६ ॥

इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदन्निव ॥ ६७ ॥

निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद्‌ दृशा ॥ ६८ ॥

भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्याउजवज्जगादाग्रे गदाग्रजम्‌ ॥ ६९ ॥

संप्रत्यसांप्रतं वक्रुमुक्ते मुसलपाणिना ।
निर्द्धारिते र्थे लेखेन खलूक्त्वा खलु वाचिकम्‌ ॥ ७० ॥

तथापि यन्मय्यपि ते गुरुरित्येव गौरवम्‌ ।
तत्‌ प्रयोजककर्तउत्वमुपैति मम जल्पतः ॥ ७१ ॥

वर्णेः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥

बह्वपि स्वच्छया कामं प्रकीर्णमभिधीयते ।
अनुञ्झिताभिसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥

भ्रदीयसीमपि धनामनल्पगुणकल्पिताम्‌ ।
प्रसारयन्ति कुशलश्चित्रां वाचं पटीमिव ॥ ७४ ॥

विशेषविदुषः शस्त्रं यत्‌ तदोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥

प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥

सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम्‌ ॥ ७७ ॥

स्पृशन्ति शरवत्‌ तीक्ष्णाः स्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते वहिरश्मवत्‌ ॥ ७८ ॥

आरभन्ते ल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥

उपायमास्थितस्यापि नश्यत्यर्थः प्रमाद्यतः ।
हन्ति नोपशय्स्थो पि शयालुर्मृगयुर्मृगान्‌ ॥ ८० ॥

उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥

तन्त्रावापविदा योगैर्मण्डलान्यधिष्ठिता ।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८२ ॥

करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम्‌ ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८३ ॥

बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरूषः को पि पार्थिवः ॥ ८४ ॥

तेजः क्षमा वा नैकान्तः कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभागविदः कवेः ॥ ८५ ॥

कृतापचारो पि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरूते कोपं प्राप्ते काले गदो यथा ॥ ८६ ॥

मृदुव्यवहितं तेजो भोक्तुमर्था‌न्‌ प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशया ह्यन्तरस्थया ॥ ८७ ॥

नालम्बते दैष्टिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८८ ॥

स्थायिनो र्थे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८९ ॥

अनल्पत्वात्‌ प्रधानत्वादंशस्येवेतरे स्वराः ।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम्‌ ॥ ९० ॥

अप्यनारभमाणस्य विनोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥

यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥

षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम्‌ ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥

स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम्‌ ।
अयथाबलमारम्भो निदानं क्षयसंपदः ॥ ९४ ॥

तदीशितारं चेदीनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे स उदात्तः स्वरानिव ॥ ९५ ॥

मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम्‌ ॥ ९६ ॥

संपादितफलस्तेन सपक्षः परभेदतः ।
कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७ ॥

ये चान्ये कालयवनसाल्वरुक्मिद्रुमादयः ।
तमःस्वभावास्ते प्येनं प्रदोषमनुयायिनः ॥ ९८ ॥

उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पो पि साग्नीनेधानिवानिलः ॥ ९९ ॥

बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १०० ॥

तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अभियुक्तं त्वयैनं गन्तारस्त्वामतः पते ॥ १०१ ॥

मखविघ्नाय सकलमित्थमुत्थाप्य राजकम्‌ ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥

संभाष्य त्वामतिभ्रक्षमस्कन्धं सुबान्धवः ।
सहायमध्वरधुरं धर्मराजो विवक्षते ॥ १०३ ॥

महात्मानो नुगृह्णन्ति भजमानान्‌ रिपूनपि ।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥ १०४ ॥

चिरादपि बलात्कारो बलिनः सिद्ध्ये रिषु ।
छन्दानुवृत्तिदुःसाधाः सुहृदो विमनीकृताः ॥ १०५ ॥

मन्यसे रिवधः श्रेयान्‌ प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तराम्‌ ॥ १०६ ॥

अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥

प्रतीक्ष्यं च प्रतीक्ष्यायै पितृष्वस्रे सुतस्य ते ।
सहिष्ये शतमागांसि प्रत्यश्रौषीः किलेति यत्‌ ॥ १०८ ॥

तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापयत्‌ ।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ॥ १०९ ॥

स्वयंकृतेप्रसादस्य तस्याह्रो भानुमानिव ।
समयावधिमप्राप्य नान्तायालं भवानपि ॥ ११० ॥

कृत्वा कृत्यविदस्तीर्थैरतः प्रणिधयः पदम्‌ ।
विदांकुवन्तु महतस्तलं विद्विषदम्भसः ॥ १११ ॥

अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नाभाति राजनीतिरपस्पशा ॥ ११२ ॥

अज्ञातदोषैर्दोषज्ञैरूद्दूष्यो भयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ११३ ॥

उपेयिवांसि कर्तारः पुरीमाजातशास्त्रवीन्‌ ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥

सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितास्तरलाः स्वयं मत्सरिणः परे ॥ ११५ ॥

य इहात्मविदो विपक्षमध्ये
सहसंवृद्धियुजो पि भूभुजः स्युः ।
बलिपृष्टकुलादिवान्यपुष्टैः
पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥

सहजचापलदोषसमुद्धत-
श्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ
शलभतां लभतामसुहृद्गणः ॥ ११७ ॥

इति विशकलितार्थामौद्दवीं वाचमेना-
मनुगतनयमार्गामर्गलां दुर्नयस्य ।

जनितमुदस्थादुच्चकैरुच्छ्रितोरः-
स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्‌ सः ॥ ११८ ॥

इति श्रीमाघभट्टविरचिते शिशुपालवधकाव्ये मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥

तृतीयः सर्गः

कौबीरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ १ ॥

जगत्पवितैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥

मृणालसूत्रामलमन्तरेण स्थितश्चल्चमरयोर्द्वयं सः ।
भेजे भितः पातुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः ॥ ३ ॥

चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ४ ॥

तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥

तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्‌ ।
वंहीयसा दीप्तिवितानकेअन चकासयामासतुरुल्लसन्ती ॥ ६ ॥

निसर्गरक्तैर्वलयावबद्दहताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥ ७ ॥

उभौ यदि व्योम्नि पृथक्‌ प्रवाहावाकाशगङ्गापयसः पतेताम्‌ ।
तनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥

तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन्‌ बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥

सुक्तामयं सारास्नावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥ १० ॥

स इन्द्रनीलस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥

प्रसाधितस्याथ मुरद्विषो भूद न्यैव लक्ष्मीरिति युक्तमेतत्‌ ।
वपुष्यशेषे खिललोककान्ता सानन्यकाम्या ह्युसीतरा तु ॥ १२ - १ ॥

कपाटविस्तीर्णमनोरमोरःस्थलश्रीललनस्य तस्य ।
आनन्दिताशोषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १२ - २ ॥

प्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्‌ ॥ १३ ॥

आकर्षतेवोर्ध्वमपि क्रशीयानत्युन्नतत्वात्‌ कुचमण्डलेन ।
ननाम मध्यो तिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम्‌ ॥ १४ ॥

यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यैस्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥ १५ ॥

तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १६ ॥

विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ॥ १७ ॥

न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको भूत्‌ ॥ १८ ॥

न नीतमन्येन नतिं कदाचित्‌ कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्याभवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ १९ ॥

प्रवद्धमन्द्राम्बुदनादधीरं । कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो इन्ध्वानमश्रूयत पाञ्चजन्यः ॥ २० ॥

रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम्‌ ।
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥ २१ ॥

द्वजाग्रधामा ददृशे थ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥ २२ ॥

यियासतस्तस्य महीध्ररन्ध्रभिदा पटीयान्‌ पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥ २३ ॥

यतः स धर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो धः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २४ ॥

अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम्‌ ॥ २५ ॥

श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥ २६ ॥

न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥ २७ ॥

निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून्‌ मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥ २८ ॥

अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान्‌ रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान्‌ पथिभ्यः ॥ २९ ॥

दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥ ३० ॥

उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभीः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्‌ विदामास शनैर्न यातम्‌ ॥ ३१ ॥

मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥ ३२ ॥

कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥ ३३ ॥

त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥ ३४ ॥

रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३५ ॥

यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खक्युलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥ ३६ ॥

वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुधिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन्‌ रत्नानि रत्नाकरतामवाप ॥ ३७ ॥

अम्भश्च्युतः कोमलरत्नराशीन्‌ अपांपतिः फेनपिनद्धभासः ।
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥ ३८ ॥

यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥ ३९ ॥

कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नगदाद्‌ भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥ ४० ॥

यदङ्गनारुपसरुपतायाः किंचिद्गुणं भेदकनिच्छतीभिः ।
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४१ ॥

स्फुरत्तुषारंशुमरीचिजालविनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन्‌??४२ ॥

कान्तेन्दुकान्तोपलदुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्नः ।
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥ ४३ ॥

रतौ ह्रिया यत्न निशम्य दीपा‌ञ्‌जालागताभ्यो धिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४४ ॥

यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४५ ॥

सावर्ण्यभाजः प्रतिभागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४६ ॥

शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीना‌म्‌ ।
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥ ४७ ॥

गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥ ४८ ॥

बृहत्तुलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥ ४९ ॥

चिक्रंसया कृत्रिमपत्रिपंक्तेः कपोतपालीषु निकेतनानाम्‌ ।
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५० ॥

क्षितिप्रतिष्ठोऽपि मुखारबिन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत्‌ ॥ ५१ ॥

रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्द्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५२ ॥

सुगन्धितामप्रतियत्नपूर्वं बिभ्रन्ति यत्र प्रमदाय पुंसाम्‌ ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५३ ॥

रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन्‌ वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम्‌ ॥ ५४ ॥

छन्नेष्वपि स्पष्टतरेषु यत्रे स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥ ५५ ॥

यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥ ५६ ॥

परस्परर्द्धिपरार्ध्यरुपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥ ५७ ॥

क्षणं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषस्तामभवन्‌ जनस्य याः संपदस्ता मनसो प्यभूमिः ॥ ५८ ॥

कला दधानः सकलाः स्वभाभिरुद्भासयन्‌ सौधसिताभिराशाः ।
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥ ६९ ॥

बाणाहवव्याहतशम्भुशक्तेरासत्तिमासद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥ ६० ॥

निषेव्यमाणेन शिवैरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६१ ॥

स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥ ६२ ॥

तामीक्षमाणः स पुरीं पुरस्तात्‌ प्रापत्‌ प्रतोलीमतुलप्रतापः ।
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६३ ॥

प्रजा इवङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६४ ॥

श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥ ६५ ॥

निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६६ ॥

शनैरनीयन्त रयात्‌ पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥ ६७ ॥

बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत्‌ ॥ ६८ ॥

पारेजलं नीरनिधेरपश्यन्मुरारिनीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ६९ ॥

लक्ष्मीभृतोऽम्भोधितटाधिवासान्‌ द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान्‌ स्वानिव पश्यति स्म ॥ ७० ॥

आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम्‌ ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७१ ॥

पीत्वा जलानां निधिनातिगर्धाद्‌ वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥ ७२ ॥

साटोपमुर्वीमनिशं मदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान्‌ पिबतो ददर्श ॥ ७३ ॥

उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम्‌ ॥ ७४ ॥

विक्रीय दिश्यानि धनान्युरुणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत्‌ ॥ ७५ ॥

उप्तित्सवोऽन्तर्नदभर्त्तुरुच्चकैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७६ ॥

तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥ ७७ ॥

उत्सर्जिताम्भःकणिको नभस्वानौदन्वतः स्वेदलवान्‌ ममार्ज ।
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥ ७८ ॥

उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥

लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥ ८० ॥

तुरगशताकुलस्य परितं परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत्‌ ॥ ८१ ॥

इति श्रीमाघभट्ट्विरचिते शिशपालवधकाव्ये यात्रावर्णनं नाम तृतीयः सर्गः ॥

चतुर्थः सर्गः
निःश्वासधूमं सह रत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणाम् ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥४.१॥

गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥४.२॥

क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम्।
श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥४.३॥

सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानं ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४.४॥

क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिं ॥४.५॥

छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानां ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः ॥४.६॥

स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तं ॥४.७॥

विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानं ॥४.८॥

राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणां ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तं ॥४.९॥

मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥४.१०॥

यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।
आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥४.११॥

अखिध्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥४.१२॥

यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥४.१३॥

विभिन्नवर्णागरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥४.१४ ॥

यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानां ॥४.१५॥

फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥४.१६॥

दृषटोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥४.१७॥

उच्चारणज्ञेऽथ गिरा दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥४.१८॥

आच्छादितायतददिगम्बरमुच्चकैर्गा-
माक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेन-
मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥४.१९॥

उदयतिविततरःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥४.२०॥

वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥४.२१॥

पाश्चात्यभागमिह सानुषु सन्निषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालं ।
संपूर्णलब्धललनालापनोपमान-
मुत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥४.२२॥

कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥४.२३॥

स्थगयन्त्यमूः शामितचातकार्तस्वरा
जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिहस्फुरितचारुचामीकराः
सवितुः कचित्कपिशयन्ति चामी कराः ॥४.२४॥

उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
रुत्तम्भितोडुभिरतिवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य
विष्वक्तटेषु पतति स्फुटमन्तरीक्षं ॥४.२५॥

एकत्र स्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥४.२६॥

इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥४.२७॥

उच्चैमहारजतराजिविराजितासौ
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारे-
रुद्वह्निलोचनललामललाटलीलां ॥४.२८॥

अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥४.२९॥

धूमाकारं दधति पुरः सौवर्णे
वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहोऽलीनां
लीनामालीमिह तरवो बिभ्राणाः ॥४.३०॥

व्योमस्पृशः प्रथयता कलधौतभित्ती-
रुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभा-
मेतेन भारतमिलावृतवद्विभाति ॥४.३१॥

रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥४.३२॥

कुशशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥४.३३॥

आसादितस्य तमसा नियतेर्नियोगा-
दाकाङ्क्षतःपुनरपक्रमणेन कालम् ।
पत्युस्त्वषामिह महौषधयः कलत्र
स्थानं परैननभिभूतममूर्वहन्ति ॥४.३४॥

वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥४.३५॥

विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयं ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥४.३६॥

विद्वद्भिरागमपरैर्विवृतं कथञ्चि-
च्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं
गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥४.३७॥

बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्र-
श्चुम्बन्तं मुखमिह किंनरं प्रियायाः ।
श्लिष्यन्तंमुहुरितरोऽपि तं निजस्त्री-
मुत्तुङ्गस्तनभरभङ्गभीरुमध्यां ॥४.३८॥

यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालं ।
न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालं ॥४.३९॥

दन्तोज्ज्वलासु विमलोपलमेखलान्ताः
सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनक्ॐअलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु ॥४.४०॥

अनतिचिरोज्झितस्य जलदेन चिर-
स्थितबुद्ध्युदयस्य पयसोऽनुकृतिं ।
विरलविकीर्णवज्रशकला सकला
मिह विदधाति धौतकलधौतमही ॥४.४१॥

वर्जयन्त्या जनैः संगमेकान्तत-
स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया
सेव्यतेऽनेकया संन्नतापङ्गया ॥४.४२॥

संकीर्णकीचकवनस्खलितैकवाल-
विच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्र-
र्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥४.४३॥

मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रै-
र्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ-
श्छायामच्छामृच्छति नीलीसलिलस्य ॥४.४४॥

या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानं ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानां ॥४.४५॥

भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्रसंख्यां ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥४.४६॥

अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥४.४७॥

मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४.४८॥

प्राग्भागतः पतदिहेदमुपत्यकासु
शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यतेविविधरत्नकरानुविद्ध-
मूर्ध्वप्रसारितसुराधिपचापचारु ॥४.४९॥

दधाति च विकसद्विचित्रकल्प-
द्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः
शिखरशिखाः शिखिशेखरानमुष्य ॥४.५०॥

सवधूकाः सुखिनोऽस्मन्ननवरतममन्दरामतामरसदृशः ।
नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥४.५१॥

आच्छाद्य पुष्पपटमेव महान्तमन्त-
रावर्तिभिर्गृहकपोतशिरोधराभैः ।
शस्वङ्गानि धूमरुचिमागुरवीं दधानै-
र्धूपायतीव पटलैर्नीरदानां ॥४.५२॥

अन्योन्यव्यतिकरचारुभिर्विचित्रै-
रत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।
विस्मेरान्गगनसदः करोत्यमुष्मि-
न्नाकाशेरचितमभित्ति चित्रकर्म ॥४.५३॥

समीरशिशिरः शिरःसुवसता
सता जवनिका निकानसुखिनां ।
बिभर्तिजनयन्नयं मुदमपा
मपायधवला वलाहकततीः ॥४.५४॥

मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य
वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥४.५५॥

मरकतमयमेदिनीषु भानो-
स्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मी-
मिह दधति श्फुरिताणुरेणुजालाः ॥४.५६॥

या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥४.५७॥

सायं शशाङ्गकिरणाहतचन्द्रकान्त-
निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्ता-
स्तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥४.५८॥

एतस्मिन्नधिकपयःश्रियं वहन्त्यः
संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्यं दधति गिरां महासरस्यः ॥४.५९॥

इह मुहुर्मुदितैः कलभै रवः
प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः
कनकरत्नभुवां च मरीचयः ॥४.६०॥

त्वक्साररन्ध्रपरिपूरणलब्धगीति-
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति
रागीव सक्तिमधिकां विषयेषु वायुः ॥४.६१॥

प्रीत्यै यूनां व्यवहिततपनाः
प्रौढद्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधाति सुरत-
क्रीडायासश्रमपटवः ॥४.६२॥

भग्ने निवासोऽयमिहास्य पुष्पैः
सदानतः येन विषाणि नागः ।
तीव्राणि तेनोज्झति कोपितोऽसौ
ससानतोयेन विषाणि नागः ॥४.६३॥

प्रालेयशीतलमचलेश्वरमीश्वरोऽपि
सान्द्रभचर्मवसनावरणाधिशेते ।
सर्वर्तुनिवृत्तिकरे निवसन्नुपैति
न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥४.६४॥

नवनगवनलेखाश्यामध्याभिराभिः
स्फटिककटकभूमिनाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागै-
रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥४.६५॥

दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं
हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥४.६६॥

दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसंमुखोऽपि रमणैरपहृतवसनाः
खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥४.६७॥

अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ
त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
हलधरपरिधानश्यामलैरम्बुवाहैः ॥४.६८॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के रैवतक-
वर्णनं नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः
इत्थं व्यलीकाः प्रियतमा इव सोऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः ।
रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ।। ५.१ ।।

तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गं अभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ।। ५.२ ।।

भास्वत्करव्यतिकरोल्लसिताम्बरान्तस्तापत्रपा इव महाजनदर्शनेन ।
संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ।। ५.३ ।।

आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापततन्तः ।। ५.४ ।।

आरक्षमग्नमवमत्य सृणिं शिताग्रं एकः पलायत जवेन कृतार्तनादः ।
अन्यपुनर्मुहुरुदप्लवतास्तभारं अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ।। ५.५ ।।

आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वं ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ।। ५.६ ।।

त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ।। ५.७ ।।

शैलोपशल्यनिपतद्रथनेमिधारा-निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।
भूरेणवोनभसि नद्धपयोदचक्राश्चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ।। ५.८ ।।

उद्य्त्कृशानुशकलेषु सुराभिघाताद्भूमीसमायातशिलाफलकाचितैषु ।
पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ।। ५.९ ।।

तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्दपुलायितेन ।। ५.१० ।।

नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितोऽद्रेः ।। ५.११ ।।

उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रानिन्द्रानुजाचरभूतपतयोऽध्यवात्सुः ।
वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ।। ५.१२ ।।

विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः ।
चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ।। ५.१३ ।।

छायामपास्य महतीमपि वर्तमानां आगामिनीं जगृहिरे जनतास्रूणां ।
सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ।। ५.१४ ।।

अग्रगतेन वसतिं परिगृह्य रम्यां आपात्यसैनिकनिराकराणाकुलेन ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ।। ५.१५ ।।

सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीं ।
शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ।। ५.१६ ।।

यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-वक्रश्रियः सभयकौतुकमीक्षते स्म ।। ५.१७ ।।

कण्ठावसक्तमृदुबाहुलतातुरङ्गाद्राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासां ।। ५.१८ ।।

दृष्ट्वेव निर्जतकलापभरामधस्ताद्व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात्संघर्षिणा सह गुणाभ्यधिकैर्दुरापं ।। ५.१९ ।।

रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानां ।। ५.२० ।।

छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ।। ५.२१ ।।

उत्क्षप्तपटकान्तरलीयमानं अन्दानिलप्रशमितश्रमघर्मतोयैः ।
दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ।। ५.२२ ।।

प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवोऽभूथ् ।। ५.२३ ।।

यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्य-पूर्णपणा विणुनो विपणीर्विभेजुः ।। ५.२४ ।।

अल्पप्रयोजनकृतोरुतरप्रयातसैरुद्गूर्णलोष्टगुडैः परितोऽनुविद्धं ।
उद्यातमुद्रतमनोकहझालमध्यादन्याः शशङ्गुणमनल्पमवन्नवाप ।। ५.२५ ।।

त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनानां आकर्णपूर्णनयनेषुहतेक्षणश्रीः ।। ५.२६ ।।

आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्यान्प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ।। ५.२७ ।।

सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना ।
सैन्याः श्रियामनुपभोगनिरर्थकत्व-दोषप्रवादममृजन्नगनिमन्गानां ।। ५.२८ ।।

नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि ।
जग्मुर्जलानि जलमुड्डकवाद्यवल्गु-वल्गद्धनस्तनतटस्खलितानि मन्दं ।। ५.२९ ।।

आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-मुक्षांबभूवुरभितोवपुरम्बुवर्षैः ।
स्वेदायत श्वसितनिरस्तवेगमुग्ध-मूर्धन्यरत्ननिकरैरिव हास्तिकानि ।। ५.३० ।।

ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलायुधलूनपक्षाः ।
तेजग्मुरद्रिपतयः सरसीर्विगाढुं आक्षिप्तकेतुकुथसैन्यगजच्छलेन ।। ५.३१ ।।

आत्मानमेव जलधेः प्रतिबिम्बिताङ्गं ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य ।
क्रोधादधावदपभीरभिहन्तुमन्य-नागाभियुक्त इव युक्तमहो महेभः ।। ५.३२ ।।

नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ।। ५.३३ ।।

पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।
स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचिथ् ।। ५.३४ ।।

कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकाशिकाश-नीकाशमाप समतां सितचामरस्य ।। ५.३५ ।।

गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभाग-रुद्धोरुदन्तमुसलप्रसरं निपेते ।। ५.३६ ।।

दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षूदपाति परितः पटलैरसीनां ।। ५.३७ ।।

अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ।। ५.३८ ।।

संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरससाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभावन्योन्यवस्त्रपरिवर्तमिव व्यधत्तां ।। ५.३९ ।।

यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ।। ५.४० ।।

प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्न-निर्याणनिर्यदसृजं चलितं निपादी ।
रोद्धुं महेभपरिव्रढिमानमागादाक्रन्तितो न वशमेति महान्परस्य ।। ५.४१ ।।

सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।
नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभ-तः सहन्ते ।। ५.४२ ।।

अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाष-संक्रान्तदानपयसो वनपादपस्य ।
सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलैरलीनां ।। ५.४३ ।।

नोच्चैर्यदा तरुतलेषु ममुस्तदानीं आधोरणैरभिहिताः पृथुमूलशाखाः ।
बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ।। ५.४४ ।।

उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तर्-उत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ।। ५.४५ ।।

कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिक्ॐअलेन कणठेगुणत्वमलीनां वलयेन भेजे ।। ५.४६ ।।

निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ।। ५.४७ ।।

स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ।
बद्धपराणि परितो निगडानेयलावीत्स्वातन्त्र्यमुज्वलमवाप करेणुराजः ।। ५.४८ ।।

जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ।। ५.४९ ।।

क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं ।
सस्मार वारणपतिः परिमीलिताक्षं इच्छाविहारवनवासमहोत्सवनां ।। ५.५० ।।

दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-स्नेहस्रुति स्नपितबाहुरिभाधिराजं ।। ५.५१ ।।

शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मनि रस्मिविततानि नराधिपानां ।
चन्द्राकृतानि गजमणडलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ।। ५.५२ ।।

गत्यूनमर्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसार-संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ।। ५.५३ ।।

आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो र्ॐआञ्चतामिव जगाम रजः पृथिव्याः ।। ५.५४ ।।

हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।
ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ।। ५.५५ ।।

दन्तालिकाधरणनिश्चलपाणियुग्मं अर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ।। ५.५६ ।।

रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः ।
श्रीसंनिधानरमणीयतरोऽश्व उच्चैरुच्चैश्रवा जलनिधेरिव जातमात्रः ।। ५.५७ ।।

अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नुन्पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ।। ५.५८ ।।

उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्णं अश्वेति विद्रुतमनुद्रुताश्वमन्यं ।। ५.५९ ।।

अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ।। ५.६० ।।

मुक्तासृणानि परितः कचकं चरन्तस्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ।। ५.६१ ।।

उत्तीर्णभारलघुनाप्यलघूलपौघ-सौहित्यनिःसहतरेण तरोरधस्ताथ् ।
र्ॐअन्थमन्थरचलद्गुरुसास्नमासां-चक्रे नीमीलदलसेक्षणमौक्षकेण ।। ५.६२ ।।

मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः ।
उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ।। ५.६३ ।।

मेदस्विनः सरभसोपगतानभीकान्भङ्कत्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ।। ५.६५ ।।

बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति ।
लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणां अभ्रंलिहानि लिलिहे नवपल्लवानि ।। ५.६४ ।।

सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैरास्यान्तरालगतमाम्रदलं म्रदीयः ।
दासेरकःसपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ।। ५.६६ ।।

स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञां ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः ।। ५.६७ ।।

उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे ।
संध्याशुभिन्नघनकर्बुरितान्तरीक्ष-लक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ।। ५.६८ ।।

धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ।। ५.६९ ।।

षष्ठः सर्गः

अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ।। ६.१ ।।

नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजं ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ।। ६.२ ।।

विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजं ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ।। ६.३ ।।

तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ।। ६.४ ।।

स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ।। ६.५ ।।

स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशं ।। ६.६ ।।

रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ।। ६.७ ।।

प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ।। ६.८ ।।

मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ।। ६.९ ।।

समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ।। ६.१० ।।

इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ।। ६.११ ।।

सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न स्ॐअनसौ मनसो मुदे ।। ६.१२ ।।

इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ।। ६.१३ ।।

वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ।। ६.१४ ।।

अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ।। ६.१५ ।।

कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ।। ६.१६ ।।

रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ।। ६.१७ ।।

त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ।। ६.१८ ।।

न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ।। ६.१९ ।।

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ।। ६.२० ।।

अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं ।। ६.२१ ।।

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ।। ६.२२ ।।

दलितक्ॐअलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ।। ६.२३ ।।

निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ।। ६.२४ ।।

स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरं ।। ६.२५ ।।

गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ।। ६.२६ ।।

अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं ।
धुततनुर्वलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः ।। ६.२७ ।।

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ।। ६.२८ ।।

पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ।। ६.२९ ।।

प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ।। ६.३० ।।

जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकं ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ।। ६.३१ ।।

नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ।। ६.३२ ।।

शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ।। ६.३३ ।।

द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकं ।
घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतं ।। ६.३४ ।।

दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनां ।। ६.३५ ।।

नवपयःकणक्ॐअलमालतीकुसुमसंततिसंततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे ।। ६.३६ ।।

निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ।। ६.३७ ।।

प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ।। ६.३८ ।।

विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ।। ६.३९ ।।

अरमयन्भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ।। ६.४० ।।

ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायितां ।
जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ।। ६.४१ ।।

स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङगगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ।। ६.४२ ।।

जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ।। ६.४३ ।।

समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणां ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयतां ।। ६.४४ ।।

तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ।। ६.४५ ।।

अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणवलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ।। ६.४६ ।।

कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ।। ६.४७ ।।

मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ।। ६.४८ ।।

विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजं ।
श्रुततदीरितक्ॐअलगीतकध्वनिमिषेऽनिमेषेक्षणमग्रतः ।। ६.४९ ।।

कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजं ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ।। ६.५० ।।

विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ।। ६.५१ ।।

विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवां ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपथ् ।। ६.५२ ।।

हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ।। ६.५३ ।।

स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवं ।
अकलयन्मुदितामिव सर्वतः स शरदन्तुरदिह्मुखां ।। ६.५४ ।।

गजद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ।। ६.५५ ।।

इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा ।
स्मृसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः ।। ६.५६ ।।

प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तं ।
श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ।। ६.५७ ।।

भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ।। ६.५८ ।।

व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ।। ६.५९ ।।

धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ।। ६.६० ।।

हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ.
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ।। ६.६१ ।।

कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ।। ६.६२ ।।

उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवथ् ।। ६.६३ ।।

अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ।। ६.६४ ।।

शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः ।। ६.६५ ।।

अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ।। ६.६६ ।।

अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ।। ६.६७ ।।

नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारं ।। ६.६८ ।।

जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ।। ६.६९ ।।

स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशं ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यं ।। ६.७० ।।

वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ।। ६.७१ ।।

मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ।। ६.७२ ।।

कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ।। ६.७३ ।।

अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ।। ६.७४ ।।

स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ।। ६.७५ ।।

जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकुरुतेन ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ।। ६.७६ ।।

कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोपितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोपितेन ।। ६.७७ ।।

गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ।। ६.७८ ।।

कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैविराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौविहर्तु
बिभ्रत्यचोदि स मयूरगिरा विहर्तुं ।। ६.७९ ।।
सप्तमः सर्गः
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीं ।
निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ।। ७.१ ।।

दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुं ।। ७.२ ।।

अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ।। ७.३ ।।

नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ।। ७.४ ।।

अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः ।
अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ।। ७.५ ।।

गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ।। ७.६ ।।

तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा मां ।। ७.७ ।।

न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ।। ७.८ ।।

सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ।। ७.९ ।।

गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ।। ७.१० ।।

प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी ।
चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ।। ७.११ ।।

द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीं ।
नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ।। ७.१२ ।।

इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ।। ७.१३ ।।

यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयं ।
द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ।। ७.१४ ।।

अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ।। ७.१५ ।।

अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन ।
हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ।। ७.१६ ।।

मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ।। ७.१७ ।।

गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ।। ७.१८ ।।

लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ।। ७.१९ ।।

जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ।। ७.२० ।।

अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ।। ७.२१ ।।

अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।
उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ।। ७.२२ ।।
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितर्ॐअराजयस्ताः ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ।। ७.२३ ।।

श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्कां ।। ७.२४ ।।

मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ।। ७.२५ ।।

असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणां ।
मरुदवनिरुहां रजो वधूभ्यः मुपहरन्विचकार कोरकाणि ।। ७.२६ ।।

उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ।। ७.२७ ।।

रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तस्ॐअनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानं ।। ७.२८ ।।

अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ।। ७.२९ ।।

मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षं ।। ७.३० ।।

अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ।। ७.३१ ।।

प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ।। ७.३२ ।।

विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनर्ॐअराजिः ।
कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ।। ७.३३ ।।

प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा ।
अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ।। ७.३४ ।।

व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजं ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचिथ् ।। ७.३५ ।।

अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ।। ७.३६ ।।

कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ।। ७.३७ ।।

अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ।। ७.३८ ।।

किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।
नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ।। ७.३९ ।।

कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ।। ७.४० ।।

अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानां ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ।। ७.४१ ।।

सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ।। ७.४२ ।।

इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानां ।। ७.४३ ।।

मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ।। ७.४४ ।।

व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ।। ७.४५ ।।

विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ।। ७.४६ ।।

सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ।। ७.४७ ।।

मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ।। ७.४८ ।।

उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्यां ।। ७.४९ ।।

इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ।। ७.५० ।।

विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या ।
अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ।। ७.५१ ।।

अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ।। ७.५२ ।।

न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।
व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ।। ७.५३ ।।

तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मं ।। ७.५४ ।।

मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनां ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ।। ७.५५ ।।

इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ।। ७.५६ ।।

विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ।। ७.५७ ।।

स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानां ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छथ् ।। ७.५८ ।।

समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ।। ७.५९ ।।

अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ।। ७.६० ।।

अवचितकुसुमा विहाय वल्लीर्युवतीषु क्ॐअलमाल्यमालिनीषु ।
पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानं ।। ७.६१ ।।

श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ।। ७.६२ ।।

अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ।। ७.६३ ।।

अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ।। ७.६४ ।।

स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ।। ७.६५ ।।

अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ।। ७.६६ ।।

अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ।। ७.६७ ।।

मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ।। ७.६८ ।।

प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासां ।। ७.६९ ।।

विपुलकमपि यौवनोद्धतानां घनपुलकोदयक्ॐअलं चकाशे ।
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनां ।। ७.७० ।।

अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठं ।
विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ।। ७.७१ ।।

अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ।। ७.७२ ।।

हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ।। ७.७३ ।।

गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ।। ७.७४ ।।

प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ।। ७.७५ ।।

अष्ठमः सर्गः

आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ।। ८.१ ।।

यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि.
संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ।। ८.२ ।।

नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।
पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ।। ८.३ ।।

एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वं ।
सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ।। ८.४ ।।

स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः ।
सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ।। ८.५ ।।

संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः ।
कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ।। ८.६ ।।

गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।
बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ।। ८.७ ।।

श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः ।
पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ।। ८.८ ।।

मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनां ।
स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ।। ८.९ ।।

आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानां ।
आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ।। ८.१० ।।

आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ।। ८.११ ।।

आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि ।
अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ।। ८.१२ ।।

मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः ।
प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ।। ८.१३ ।।

उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो ।
नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ।। ८.१४ ।।

नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः ।
व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ।। ८.१५ ।।

आस्कन्दन्कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ।। ८.१६ ।।

ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः ।
कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ।। ८.१८ ।।

संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ।। ८.१७ ।।

आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः ।
धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ।। ८.१९ ।।

नेच्छन्ती सममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ।। ८.२० ।।

तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ।। ८.२१ ।।

आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।
उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ।। ८.२२ ।।

कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ।। ८.२३ ।।

त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ।। ८.२४ ।।

आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सर्ॐअहार्णवस्य ।
अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ।। ८.२५ ।।

गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः ।
अम्भोधिविकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ।। ८.२६ ।।

आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान्सरसि रराज केशहस्तः ।। ८.२७ ।।

उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ।। ८.२८ ।।

किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ।। ८.२९ ।।

शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गिवासः ।
मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ।। ८.३० ।।

उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणां ।
श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्तयस्तोयेषु द्रुततरमङ्गना निपेतुः ।। ८.३१ ।।

मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ।
ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ।। ८.३२ ।।

योग्यस्य त्रिनयनलोचनार्चिर्निदग्धस्मरपूतनाधिराज्यलक्ष्म्याः ।
कान्तायाः करकलशोद्यतैः पयोभिरवक्त्रेन्दोरकृतमहाभिषेकमेकः ।। ८.३३ ।।

शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः ।
सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ।। ८.३४ ।।

स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव ।
कन्दर्पप्रवणमानाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ।। ८.३५ ।।

आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितमजायतेतरस्याः ।। ८.३६ ।।

उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
अम्भोभिर्मुहुरसिचद्वधूरमर्षदात्मीयं पृथुतरनेत्रयुगममुक्तैः ।। ८.३७ ।।

कुर्वद्भिमुखरुचिमुज्जवलामजस्रं यैस्तोयैरसिचत वल्लभां विलासी ।
तैरेव प्रतियुवतेरकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ।। ८.३८ ।।

रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ।
मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ।। ८.३९ ।।

प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा ।
उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनामधाक्षुः ।। ८.४० ।।

संक्रान्तं प्रियतमवक्षसोऽङ्गरागंसाध्वस्याः सरसि हरिष्यतेऽधुनाम्भः ।
तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ।। ८.४१ ।।

हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ।। ८.४२ ।।

सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।
कालिम्ना समधित मन्.रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ।। ८.४३ ।।

उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ।। ८.४४ ।।

आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजां ।
नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वं ।। ८.४५ ।।

पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।
सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वं ।। ८.४६ ।।

नारीभिर्गुरुजघनस्थलानां आस्यश्रीविजितविकासिवारिजानां ।
लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानां ।। ८.४७ ।।

सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानं ।
नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ।। ८.४८ ।।

प्रभ्रष्टै सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ।। ८.४९ ।।

आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरेऽञ्जनानि ।। ८.५० ।।

निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः ।
अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ।। ८.५१ ।।

अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ।। ८.५२ ।।

स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ ।
हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ।। ८.५३ ।।

आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोल्पलं वधूनां वीचिभिस्तटमनु यन्निरासुरापः ।। ८.५४ ।।

दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः ।
आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ।। ८.५५ ।।

कस्याश्चिनमुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्चल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ।। ८.५६ ।।

वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ।। ८.५७ ।।

यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषां ।
धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ।। ८.५८ ।।

फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जघनस्थलेषु शैवलानां ।
गण्डेषु स्फुटरचनाब्जपत्र्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनां ।। ८.५९ ।।

भ्रश्द्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
निर्माल्यैरथ ननृतेऽवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यं ।। ८.६० ।।

आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः ।
कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ।। ८.६१ ।।

शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन ।
रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ।। ८.६२ ।।

श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससोऽन्तैः ।
उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ।। ८.६३ ।।

दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्तां ।
उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ।। ८.६४ ।।

श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः ।
नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ।। ८.६५ ।।

वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ।। ८.६६ ।।

आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः ।
अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ।। ८.६७ ।।

प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तथ् ।। ८.६८ ।।

सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा ।
भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ।। ८.६९ ।।

स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनां ।
वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ।। ८.७० ।।

इति धौतपुरन्ध्रिमत्सरान्सरसिमज्जनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ।
अवलोक्य तदैव यादवानपरवारिराशेः शिसिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ।। ८.७१ ।।

नवमः सर्गः

अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतथ् ।। ९.१ ।।

गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ।। ९.२ ।।

विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ।। ९.३ ।।

अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ।। ९.४ ।।

उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदं ।। ९.५ ।।

प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ।। ९.६ ।।

नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ।। ९.७ ।।

गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिं ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयं ।। ९.८ ।।

द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ।। ९.९ ।।

अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरं ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ।। ९.१० ।।

अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।
विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ।। ९.११ ।।

अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ।। ९.१२ ।।

रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः ।। ९.१३ ।।

विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणतां ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ।। ९.१४ ।।

अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ।। ९.१५ ।।

निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ।। ९.१६ ।।

दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ।। ९.१७ ।।

पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ।। ९.१८ ।।

व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ।। ९.१९ ।।

किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ।। ९.२० ।।

स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ।। ९.२१ ।।

अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसं ।
सुतनोः स्तनौ च दयितोपगमे तनुर्ॐअराजिपथवेपथवे ।। ९.२२ ।।

ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य ततां ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ।। ९.२३ ।।

अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ।। ९.२४ ।।

वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचां ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीं ।। ९.२५ ।।

विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ।। ९.२६ ।।

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटं ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ।। ९.२७ ।।

नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलं ।। ९.२८ ।।

प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयं ।। ९.२९ ।।

उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ।। ९.३० ।।

अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ।। ९.३१ ।।

उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ।। ९.३२ ।।

रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि तां ।
अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितं ।। ९.३३ ।।

दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिस्वसत्कुमुदिनीवनितां ।। ९.३४ ।।

प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचितां ।
सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूं ।। ९.३५ ।।

अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषं ।। ९.३६ ।।

अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ।। ९.३७ ।।

उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुं ।। ९.३८ ।।

भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ।। ९.३९ ।।

अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ।। ९.४० ।।

युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरं ।। ९.४१ ।।

ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ।। ९.४२ ।।

इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।
प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतं ।। ९.४३ ।।

सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ।। ९.४४ ।।

कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयथ् ।। ९.४५ ।।

अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ।। ९.४६ ।।

स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।
धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ।। ९.४७ ।।

भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशथ् ।। ९.४८ ।।

ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ।। ९.४९ ।।

न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ।। ९.५० ।।

वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ।। ९.५१ ।।

निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ।। ९.५२ ।।

विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ।। ९.५३ ।।

अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलं ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ।। ९.५४ ।।

प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ।। ९.५५ ।।

न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ।। ९.५६ ।।

दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां ।। ९.५७ ।।

प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि मां ।। ९.५८ ।।

अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ।। ९.५९ ।।

तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयं ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं ।। ९.६० ।।

ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ।। ९.६१ ।।

ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ।। ९.६२ ।।

मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ।। ९.६३ ।।

तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ।। ९.६४ ।।

उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ।। ९.६५ ।।

दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ।। ९.६६ ।।

कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ।। ९.६७ ।।

विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ।। ९.६८ ।।

उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ।। ९.६९ ।।

दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमं ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ।। ९.७० ।।

निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलं ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहं ।। ९.७१ ।।

उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधथ् ।। ९.७२ ।।

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।। ९.७३ ।।

अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ।। ९.७४ ।।

कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ।। ९.७५ ।।

पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदथ् ।। ९.७६ ।।

उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूथ् ।। ९.७७ ।।

पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ।। ९.७८ ।।

मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ।। ९.७९ ।।

तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयं ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ।। ९.८० ।।

न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामां ।। ९.८१ ।।

इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनां ।
स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ।। ९.८२ ।।

अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ।। ९.८३ ।।

आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ।। ९.८४ ।।

सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ।। ९.८५ ।।

दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलं ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ।। ९.८६ ।।

इत्थं नारीर्घटयितुमलं कामिभिः काममासन्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासां ।। ९.८७ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें