सूक्तयः (अकारादिः)
* अग्नेरभ्यागतो मूर्तिः ।
* अङ्गीकृतं सुकृतिनः परिपालयन्ति।
* अजो नित्यं शाश्वतोऽयं पुराणः ।
* अज्ञः सुखमाराध्यः ।
* अति सर्वत्र वर्जयेत् ।
* अतिथिदेवो भव ।
* अतिदर्पे हता लङ्का ।
* अत्यादरः शङ्कनीयः ।
* अत्येति रजनी या तु ।
* अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।
* अद्यैव कुरु यच्छ्रेयः ।
* अधिकस्य अधिकं फलम् ।
* अध्यात्मविद्या विद्यानाम् ।
* अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।
* अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
* अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?
* अनिर्वेदः सदा कार्यः ।
* अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।
* अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
* अन्नं न निन्द्यात् तद्व्रतम् ।
* अन्नं न परिचक्षीत तद्वृतम् ।
* अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।
* अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।
* अप्रमत्तः सदा भवेत् ।
* अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
* अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।
* अभिमानविहीनानां किं धनेन, किमायुषा ?
* अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।
* अमेध्यो वै पुरुषो यदनृतं वदति ।
* अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
* अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।
* अर्थमूलौ हि धर्मकामौ ।
* अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।
* अर्थार्थी जीवलोकोऽयम् ।
* अर्थो हि लोके पुरुषस्य बन्धुः ।
* अर्धो घटो घोषमुपैति नूनम् ।
* अर्धो वै एष आत्मनो यत् पत्नी ।
* अर्धो वै एष आत्मनो यत्पत्नी ।
* अलक्ष्मीराविशत्येव शयानमलसं नरम् ।
* अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।
* अल्पविद्या भयङ्करी ।
* अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
* अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।
* अशान्तस्य मनो भारम् ।
* अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
* अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।
* अहिंसा परमो धर्मः।
सूक्तयः
(आकारादिः)
·
आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया
।
·
आचरिष्यसि चेत्कर्म महतोऽर्थान्
अवाप्स्यसि ।
·
आचारः कुलमाख्याति ।
·
आचारः परमो धर्मः ।
·
आचारहीनं न पुनन्ति वेदाः ।
·
आचार्यः कस्मादाचारं ग्राहयतीति ।
·
आचार्यवान् पुरुषो वेद ।
·
आचार्यशिष्टा याजातिस्सानित्या
साजरामरा ।
·
आचार्याद्देव खलु विदिता विद्या
साधिष्यं प्रापत् ।
·
आचार्यो ब्रह्मणो मूर्तिः ।
·
आत्मनः प्रतिकूलानि परेषां न समाचरेत्
।
·
आत्मोद्धारं विना लोके परोद्धारः
सुदुष्करः ।
·
आत्मैव ह्यात्मनः साक्षी
कृतस्याप्यकृतस्य च ।
·
आदानं हि विसर्गाय सतां वारिमुचामिव ।
·
आ नो भद्राः क्रतवो यन्तु विश्वतः ।
·
आपत्काले च कष्टे च नोत्साहस्त्यज्यते
बुधैः ।
·
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव
हि ।
·
आपदां कथितः पन्थाः इन्द्रियाणाम्
असंयमः ।
·
आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा
भवन्ति च।
·
आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
·
आशा येषां दासी तेषां दासायते लोकः ।
·
आहारे व्यवहारे च त्यक्तलज्जः सुखी
भवेत्।
सूक्तयः (इकारादिः)
·
इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
·
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
सूक्तयः (ईकारादिः)
·
ईर्ष्या कलहमूलं स्यात् ।
सूक्तयः (उकारादिः)
·
उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
·
उत्तिष्ठत,
जागृत, प्राप्य वरान् निबोधत ।
·
उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
·
उदारचरितानां तु वसुधैव कुटुम्बकम्।
·
उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
·
उद्धरेत् दीनमात्मानं,
समर्थो
धर्ममाचरेत् ।
·
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
·
उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
·
उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
·
उष्णो दहति चाङ्गारः,
शीतः कृष्णायते
करम्।
सूक्तयः (एकारादिः)
·
एकः प्रजायते जन्तुः एकः एव प्रलीयते।
·
एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
·
एति जीवन्तमानन्दो नरं वर्षशतादपि ।
सूक्तयः (ककारादिः)
·
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
·
कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
·
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
·
कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
·
कार्यकाले दुर्लभः पुरुषसमुदायः ।
·
कार्यं निदानाद्धि गुणानधीते ।
·
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
·
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
·
कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
·
कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
·
कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
·
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
·
क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
·
क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
·
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सूक्तयः (गकारादिः)
·
गतानुगतिको लोकः न लोकः पारमार्थिकः ।
·
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
·
गुणाः प्रियत्वेऽधिकृता न संस्तवः।
·
गुरुतां नयन्ति हि गुणा न संहतिः ।
·
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
सूक्तयः (चकारादिः)
·
चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः।
सूक्तयः (जकारादिः)
·
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
·
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
·
जातस्य हि ध्रुवो मृत्युः।
·
जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
·
जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
·
ज्ञानं भारः क्रियां विना ।
·
ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
·
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
सूक्तयः (तकारादिः)
·
तन्मित्रं यदकृत्रिमम् ।
·
त्याज्यं न धैर्यं विधुरेऽपि काले।
सूक्तयः (दकारादिः)
·
दारिद्र्यदोषो गुणराशिनाशी।
·
दीर्घसूत्री विनश्यति ।
·
दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
·
दूरतः पर्वतो रम्यः ।
·
दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
·
दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।
सूक्तयः (धकारादिः)
·
धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
·
धर्मलोपो महांस्तस्य कृते ह्यप्रतिकुर्वत ।
·
धर्मो रक्षति रक्षितः।
·
धर्मार्थकाममोक्षाणाम् आरोग्यं मूलकारणम् ।
सूक्तयः (नकारादिः)
·
न कञ्च न वसतौ प्रत्याचक्षीत ।
·
न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
·
न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
·
न जातु कामः कामानामुपभोगे न शाम्यति।
·
न जातु कामः कामानाम् उपभोगे न शाम्यति।
·
न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
·
न नश्यति तमो नाम कृतया दीपवार्तया ।
·
न रत्नम् अन्विष्यति मृग्यते हि तत्।
·
न वक्तुमिच्छन्ति मृषा हितैषिणः ।
·
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
·
न वारिणा शुद्ध्यति चान्तरात्मा ।
·
न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
·
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
·
न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
·
न हि कृतमुपकारं साधवो विस्मरन्ति ।
·
न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
·
न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
·
न हि सर्वः सर्वं जानाति ।
·
न ह्यमूला जनश्रुतिः।
·
न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
·
नाकवित्वम् अधर्माय ।
·
नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
·
नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
·
नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
·
नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
·
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
·
नाराजके जनपदे योगक्षेमः प्रवर्तते ।
·
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
·
नास्तिह्रीरशनार्थिनः ।
·
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
·
निरीहो नाश्नुते महत् ।
·
निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
·
निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
·
नीचो वदति न कुरुते,
वदति न साधुः
करोत्येव ।
·
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
·
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
सूक्तयः (पकारादिः)
·
पदं हि सर्वत्र गुणैर्निधीयते ।
·
पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
·
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
·
पराधीने परं दुःखं,
स्वाधीने तु
महत्सुखम् ।
·
परान् समुपसेवेत,
न सेव्येत परं
परैः ।
·
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
·
परोपकारः पुण्याय पापाय परपीडनम् ।
·
परोपकाराय सतां विभूतयः।
·
पर्वतखनने मूषकोपलब्धिः।
·
पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
·
पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
·
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
·
प्रकृत्यमित्रा हि सतामसधवः ।
·
प्रमादः सम्पदं हन्ति ।
·
प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
·
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
·
प्रेमयुक्तमितरेतराश्रयम् ।
·
पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
·
पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
सूक्तयः (बकारादिः)
·
बलीयसी केवलमीश्वरेच्छा।
·
बुद्धिर्यस्य बलं तस्य।
·
बुभुक्षितं न प्रतिभाति किञ्चित्।
·
बुभुक्षितः किं न करोति पापम्।
·
बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
·
ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
सूक्तयः (भकारादिः)
·
भवन्ति नम्रास्तरवः फलोद्गमैः।
·
भिक्षुकाः सन्तीति शालयो नोप्यन्ते, स्थालयो नाधिश्रीयन्ते ।
·
भोजनं कुरु दुर्बुद्धे मा शरीरे दयां कुरु।
सूक्तयः (मकारादिः)
·
मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
·
मनः पूतं समाचरेत्।
·
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
·
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
·
मनोरथानां न समाप्तिरस्ति ।
·
मनोरथानाम् अतटाः प्रवाहाः ।
·
महाजनो येन गतः स पन्थाः ।
·
महारम्भः कृतधियस्तिष्ठन्ति च निराकुलाः॥
·
मा गृधः कस्यस्विद्धनम्।
·
मानो हि महतां धनम्।
·
मार्गारब्धाः सर्वयत्नाः फलन्ति ।
·
मितं सारञ्च वचो हि वाग्मिता।
सूक्तयः (यकारादिः)
·
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
·
यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
·
यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
·
यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
·
यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
·
यया कया च विधया बह्वन्नं प्राप्नुयात् ।
·
यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
·
याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
·
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
·
योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
·
यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
·
योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
सूक्तयः (रकारादिः)
·
रक्तं पुरुषं स्त्रियः परिभवन्ति ।
·
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।
सूक्तयः (लकारादिः)
·
लोकहितं मम करणीयम् ।
·
लोकाः समस्ताः सुखिनो भवन्तु।
सूक्तयः (वकारादिः)
·
वक्तारो दर्दुरा यत्र,
तत्र मौनं हि
शोभनम्।
·
वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
·
वरं विरोधोऽपि समं महात्मभिः ।
·
वसुधैव कुटुम्बकम्।
·
वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
·
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
·
विद्यया अमृतमश्नुते।
·
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
·
विद्याधनं सर्वधनप्रधानम्।
·
विद्याधनं सर्वधनात् प्रधानम्।
·
विद्याविहीनः पशुः।
·
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
·
विश्वसयत्याशु सतां हि योगः ।
·
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
·
व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
·
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
सूक्तयः (शकारादिः)
·
शठे शाठ्यं समाचरेत्।
·
शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
·
शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
·
शरीरं पातयामि कार्यं वा साधयामि।
·
शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
·
शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
·
शीलं हि सर्वस्य नरस्य भूषणम् ।
·
शुद्धा हि बुद्धिः किल कामधेनुः ।
सूक्तयः (सकारादिः)
·
स तु भवति दरिद्रो यस्य तृष्णा विशाला।
·
सतां हि वाणी गुणमेव भाषते ।
·
सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
·
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
·
समूलो वा परिशुष्यति यदनृतं वदति ।
·
सर्वः स्वार्थं समीहते।
·
सर्वथा सुकरा मैत्री,
दुष्करं
परिपालनम् ।
·
सर्वमतिमात्रं दोषाय ।
·
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
·
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
·
सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
·
सर्वेषु भूतेषु दया हि धर्मः ।
·
सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
·
सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
·
सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
·
सुतप्तमपि पानीयं शमत्येव पावकम्।
·
सुदुर्लभाः सर्वमनोरमा गिरः ।
·
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
·
सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
·
सोत्साहानां नास्त्यसाध्यं नराणाम् ।
·
स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
·
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
·
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
·
सङ्घे शक्तिः कलौ युगे ।
·
सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
·
सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
·
सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
·
संसर्गजाः दोषगुणाः भवन्ति ।
सूक्तयः (हकारादिः)
·
हता नीरसनाथा स्त्रीः ।
·
हन्त्यनर्थं पराक्रमः ।
·
हितं मनोहारि च् दुर्लभं वचः । सूक्तयः (अकारादिः)

हितं मनोहारि च् दुर्लभं वचः ।
One of my friends asked me help with translating this - does anybody know exact meaning?
जवाब देंहटाएंपरान् समुपसेवेत न सेव्येत परं परै: । एतस्य तात्पर्यं किम् ?
Where can I get the meanings of these?
जवाब देंहटाएंइनके अर्थ कहॉ मिलेंगे?
जवाब देंहटाएं