चाटुचणकः


चाटुचणकः(अतिथिः)

आयाति निश्चिते काले किन्तु नास्त्येव निश्चिता ।
प्रस्थानाय तिथिर्यस्य तस्मादतिथिरुच्यते ॥

य: अतति - सातत्येन गच्छति स: अतिथि:उच्यते शास्त्रे (अत + इथिन्) । किन्तु केचन तु गृहम् आगता: सन्त: गमनलक्षणं न दर्शयन्ति एव । तेषां प्रस्थानदिनं निश्चितं न भवति । अयं कदा वा इत: निर्गच्छेत्इति चिन्तयन् गृहस्वामी यथा बहुधा खिद्येत तथा स्थितिं निर्मान्ति ते । अत: एव कवि: कश्चन वदति - यस्य (गमन)तिथि: न विद्यते स: अतिथि:इति उच्यते इति । अत्र व्युत्पत्तौ तात्पर्ये वा असम्मतिं दर्शयितुं नार्हाम: वयम् । भवताम् आशय: क: एतस्मिन् विषये ?




प्रस्थास्यमान: प्रविशेत् प्रतिष्ठेत दिने दिने ।
विचित्रानुल्लिखेत् विघ्नान् तिष्ठासुरतिथिश्चिरम् ॥

यदि कस्यचित् गृहे अतिथित्वेन दीर्घकालं स्थातुम् इच्छा तर्हि अत्र सन्ति केचन उपाया: । त्वरया प्रस्थातव्यमस्ति मयाइति वदता एव आतिथेयस्य गृहं प्रवेष्टव्यम् । अद्य गच्छामिइति प्रतिदिनम् अपि वदेत् । प्रतिदिनम् अपि निर्गमनबाधकानि विचित्राणि कारणानि वक्तव्यानि च ।
एतादृशा: अन्ये अपि उपाया: आश्रिता: चेत् आतिथेयस्य गृहे दीर्घकालं वास: अवश्यं शक्य: ।

चाटुचणकः(अन्ये)


शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् ।
जपयज्ञश्च यज्ञेषु रोचते लाभशालिनाम् ॥

लोभयुक्तं जनं पृच्छन्तु भवन्तः - 'धार्मिककार्येषु किं भवतः प्रियम् ?' इति । सः वदेत् - 'उपवासः एव मम प्रियः' इति । यतः तदर्थं वराटिकाव्ययः अपि कारणीयः नास्ति । 'चिकित्साक्रमे कः योग्यः ?' इति पृष्टः लोभी वदेत् - 'लङ्घनं (निराहारस्थितिः) परमौषधम्' इति । यतः अत्रापि व्ययप्रसक्तिः सर्वथा नास्ति । 'यज्ञेषु कः यज्ञः प्रियः ?' इति पृष्टः सः वदेत् - 'व्ययं विनैव कर्तुं शक्यः नामजपयज्ञः एव मम प्रियः' इति । एवं यत् व्ययं विना सिद्ध्येत् तदेव रोचते लोभिने ।




अन्धं दरिद्रमथ च प्रियया विहीनं वीक्ष्येश्वरो वदति याच वरं त्वमेकम् ।
नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ॥

कश्चन अन्धः आसीत् । सः नितरां दरिद्रः अपि । तस्य पत्नी दिवङ्गता आसीत् । तादृशः कदाचित् तपः कृत्वा ईश्वरं तोषितवान् । सन्तुष्टः ईश्वरः प्रत्यक्षीभूय एकम् एव वरं ददामि भवते । भवान् यत् इच्छति तत् याचतुइति अवदत् । तदा सः अन्धः न नेत्रे प्रार्थितवान् । न ऐश्वर्यं प्रार्थितवान् । न पत्नीप्राप्ति प्रार्थितवान्, अपि तु उक्तवान् - 'सुवर्णच्छत्रविभूषितं पुत्रं द्रष्टुम् इच्छामि' इति । यदि एषा अपेक्षा पूरणीया तर्हि ईश्वरेण तस्मै दृष्टिशक्तिः, पत्नी, ऐश्वर्यं च दातव्यानि एव खलु ?




भिक्षो मांसनिषेवणं च कुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥

कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् - 'आर्य ! किं भवता मांसं सेव्यते ?'
भिक्षुः अवदत् - 'आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः' इति ।
प्रष्टा आश्चर्येण अपृच्छत् - 'किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?' इति ।
'आम् । यदि तत् वाराङ्गना काचित् दद्यात् तर्हि महान् सन्तोषः' इति अवदत् भिक्षुः ।
'वाराङ्गनार्थं धनम् आवश्यकं खलु ? तत् कथं प्राप्यते ?' - प्रष्टा अपृच्छत् ।
'तत् तु द्यूतेन चौर्येण वा प्राप्यते' - इति शान्ततया अवदत् भिक्षुः ।
'भिक्षुणा सता भवता मांसं मद्यं च सेव्यते । वाराङ्गना उपगम्यते । द्यूतं चौर्यं चापि क्रियते ! किम् एतत् सर्वम् !' इति आश्चर्येण पृष्टवान् प्रष्टा ।
तदा भिक्षुः खेदेन अवदत् - 'यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्' इति ।




वत्से मा गा विषादं श्वसनमुरजवं सन्त्यजोर्ध्वप्रवृत्तम् ।
कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा
यस्मै लक्ष्मीमदाद् वः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥

लक्ष्म्याः स्वयंवरः प्रचलत् आसीत् । लक्ष्म्याः पिता सागरः तु स्वपुत्रीं विष्णवे दातुम् इच्छति । तां परिणेतुम् इच्छवः इन्द्रादयः अपि उपस्थिताः आसन् सभायाम् । ते स्वपुत्र्याः यथा न अङ्गीकृताः स्युः तथा करणीया आसीत् तेन । अतः सः पुत्र्याः भीतिं निवारयन् इव वदति - 'वत्से ! विषादः मास्तु । दीर्घश्वासः अपि मास्तु भवत्याः । गुरुः कम्पोऽपि मास्तु बलमित् जृम्भिमत् अपि मास्तु' इति । तस्य तात्पर्यम् एवं भवति - 'विषादः - विषसेवी शिवः मास्तु, श्वसनं- वायुः मास्तु, कस्य-जलस्य पाता रक्षकः वरुणः मास्तु, गुरुः - बृहस्पतिः अपि मास्तु, बलमित् - बलनामकस्य राक्षसस्य संहर्ता इन्द्रः मास्तु, अत्र विष्णुसमीपम् आगच्छतु' इति । एवम् उपायेन पुत्र्याः विवाहं निर्णीतवान् सागरः भवतां पापं निवरयतु ।




ऊर्णां नैव दधाति नैष विषयो वाहस्य दोहस्य वा
तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलालैरपि ।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥

कदाचित् ग्रामीणाः गजम् ऐदम्प्राथम्येन दृष्टवन्तः । ते अचिन्तयन् - 'अहो, महाकारता एतस्य ! एषः मेषः इव ऊर्णं न ददाति, क्षीरम् अपि न ददाति । एतम् आरुह्य सञ्चारोऽपि कर्तुं न शक्यः । उन्नतपृष्ठत्वात् एतस्य उपरि भारस्य आरोपणम् अपि न शक्यम् । अस्मै प्रभूतं तृणादिकं दातव्यं भवति । एतस्य निग्रहः अपि क्लेशकरः । अधिकधनस्य दानेन विलक्षणम् एतं को वा क्रीणीयात् ? वयं तु काश्चन वराटिकाः दातुं शक्नुयाम, तावदेव' इति । स्वयोग्यतानुगुणं चिन्तितं तैः । अल्पाः जनाः महत्तमस्य योग्यतां गुणवत्ताम् उपयोगितां वा अवगन्तुं न अर्हन्ति खलु ?




जामातारो भागिनेयाः मातुलाः दारबान्धवाः ।
अज्ञाता एव गृहिणां भक्षयन्त्याखुवद् गृहे ॥

यदि कश्चन गृहस्थः धनिकः अस्ति तर्हि ततः लाभं प्राप्तुं निरन्तरं प्रयतन्ते जामातारः, भगिनीपुत्राः, मातुः भ्रातरः, पत्न्याः बान्धवाः च । एतादृशाः बान्धवाः बलात् निवारयितुं न शक्याः । गृहस्वामी यथा न जानीयात् तथा एते गृहस्य एैश्वर्यस्य लुण्ठनं कुर्वन्ति । मूषकः अपि एवमेव करोति । अतः एते बान्धवाः मूषकाः इव ।




ज्ञातेयं ज्ञानशून्यत्वं पिशुनत्वं दरिद्रता ।
मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमः ॥

दायादवैरं, ज्ञानशून्यता, कर्णेजापत्वं दारिद्र्यं चेति चत्वारि अपि हानिकारकाणि । यदि एतानि एकत्रैव सम्मिलन्ति तर्हि किं वा वक्तव्यम् ? एतानि यस्मिन् भवन्ति, सः यत्र निवसति सा दिक् अपि न द्रष्टव्या । दूरात् एव सा दिक् नमस्करणीया ।




अनृतं चाटुवादश्च धनयोगो महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्य्रकारकः ॥
असत्यकथनं चाटुवादश्च धनलाभम् आनयति । सत्यप्रियता वैदुष्यञ्च दारिद्र्यम् आनयति ।




विस्मृतं वाग्भटेनेदं तुलस्याः पठता गुणान् ।
विश्वसम्मोहिनी वित्तदायिनीति गुणद्वयम् ॥

आयुर्वेदाचार्यः वाग्भटः तुलस्याः विविधान् गुणान् उपवर्णयति । किन्तु तेन तस्याः विशिष्टं गुणद्वयं तु न उक्तम् । तत् गुणद्वयं - विश्वसम्मोहिनीत्वं, वित्तावर्जकत्वं चेति ।
एतत् गुणद्वयं कुत्र दृष्टम् इति ? तुलसीमालां हस्तेन गृहीत्वा तुलसीमणीन् गणयन्तः मठाधीशाः बहवः, धार्मिकपुरुषाः अनेके च विश्वं मोहयन्तः किं धनं न अर्जयन्ति प्रभूततया ? महाप्राज्ञोऽपि वाग्भटः तुलस्याः एतत् वैशिष्ट्यं ज्ञातुं न शक्तवान् आसीत् । अहो, माहात्म्यातिशयः तुलस्याः !




चन्दनकर्दमकलहे भेको माध्यस्थ्यमापन्नः ।
ब्रूते पङ्कनिमग्नः कर्दमसाम्यं न चन्दनं वहति ॥

कदाचित् चन्दनकर्दमयोः कलहः प्रवृत्तः - आवयोः कतरः श्रेयान्इति । तदा कश्चन मण्डूकः माध्यस्थ्यम् आवहत् । मण्डूकः कर्दमप्रियः, कर्दमवासी च इति सर्वे जानन्ति एव । सः अवदत् - चन्दनं कर्दमसाम्यं वोढुं न अर्हति । अतः कर्दमः एव श्रेयान्इति ।
यः चन्दनमूल्यम् एव न जानाति तस्य निर्णयः एतस्मात् भिन्नं भवितुं न अर्हति खलु ? एषु दिनेषु एतादृशः व्यवहारः आधिक्येन दृश्यते लोके ।




आवयोर्मेलनं कान्त कदा कुत्र भविष्यति ।
यदि वेदाः प्रमाणं स्युः कुम्भीपाके भविष्यति ॥

काचित् प्रेयसी स्वस्य प्रियं विटम् अपृच्छत् - 'आवयोः पुनः मेलनं कदा कुत्र वा भवितुम् अर्हति ?'
इति ।
तदा विटः झटिति अवदत् - 'अहमस्मि जारः । भवती अपि जारवृत्तिका एव । आवयोः
उभयोः अपि कृत्यं पापाय । एतादृशं पापं ये कुर्वन्ति ते कुम्भीपाकरूपं नरकं गच्छन्ति इति वदन्ति
वेदाः । वेदैः यत् उक्तं तत् प्रमाणं यदि स्यात् तर्हि कुम्भीपाकनामके नरके आवयोः मेलनं तु निश्चयेन भविष्यति' इति ।




न स्वादु नौषधमिदं न च वा सुगन्धि नाक्षिप्रियं किमपि शुष्कतमाखुचूर्णम् ।
किं चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणां नहि नहि व्यसनं विनान्यत् ॥

तमाखुसेवनम् अद्य विविधैः प्रकारैः दृश्यते । तस्य सेवनं कुर्वतां सङ्ख्या दिने दिने वर्धते अपि । तस्मिन् गुणाः के सन्ति ? किं तत् औषधम् ? न । किं तत् सुगन्धि ? तदपि न । किं तु रमणीयम् ? सर्वथा न । किं तत् रसवत् ? तदपि न, शुष्कं नीरसं च तत् । तस्य सेवनात् कर्कादिरोगजनकत्वम् अपि । तथापि जनाः बहुधा सेवन्ते यत् तस्य बीजं किम् ? कविः वदति - दुर्व्यसनप्रियतायाः ऋते नान्यत् किमपिइति ।
दुर्व्यसनवतां व्यसनस्य कारणं किमपि न भवति । गुणावगुणादिकं ते न पश्यन्ति अपि ।




सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेत् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥

ताम्बूलं सर्वे जानन्ति एव । जीवने कदाचित् वा तत् सेवितवन्तः स्युः अपि सर्वे । आयुर्वेदः अपि वदति - ‘‘ताम्बूलस्य सखे त्रयोदश गुणाः’’ इति । ताम्बूलस्य त्रीणि अङ्गानि - सुधा, पूगफलं, नागवल्लीपत्रं चेति ।
ताम्बूलं यत् सेव्यते तत्र सुधाधिक्यं भवतु इति शत्रुः इच्छति । यतः सुधाधिक्ये जिह्वादाहः, ततश्च अस्वास्थ्यम् । शत्रोः एतदेव खलु प्रियम्? वैद्यः इच्छति पूगफलस्य आधिक्यं भवतु इति । पूगफलस्य आधिक्ये अस्वास्थ्यं वर्धते । तस्मात् वैद्यस्य आयोऽपि वर्धते । पत्राणि रागं (रक्तवर्णतां) वर्धयन्ति । अतः पत्नी तम् इच्छति । माता तु त्रितयस्यापि समत्वम् इच्छति । त्रितयस्य समत्वे एव आरोग्यकरत्वम् । पुत्रस्य हितम् एव खलु मातुः प्रियतमम् ?




तस्करः सधनात् किञ्चित् छद्मनापहरत्यधीः ।
अर्थशास्त्री समक्षं यो मुष्णाति वसु कोटिशः ॥

लोके धनवन्तः भवन्ति बहवः । तेभ्यः धनापहर्तारः द्विविधाः - प्रत्यक्षचोराः अप्रत्यक्षचोराः चेति । प्रत्यक्षचोराः तावत् महता श्रमेण आपत्तिबहुलं मार्गम् अवलम्बमानाः धनम् अपहरन्ति, क्वचित् अपराधितारोपं प्राप्य कारागारवासम् अनुभवन्ति च ।
परोक्षचोराः तु एवं न । ते कोटिशः धनम् अपहरन्ति । तथापि कारागारवासं तु न प्राप्नुवन्ति । ते सन्ति - कराधिकारि-गणनापरीक्षकादयः । न्यायवादिवैद्यादयः एतेषां भ्रातरः इति यदि वदेम तर्हि न सा अत्युक्तिः ।




मन्त्रभ्रंशे सम्प्रदायः प्रयोगश्च्युतसंस्कृतौ ।
देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥

मन्त्रकथनावसरे यदि दोषः भवेत् तर्हि झटिति वक्तव्यम् - अस्माकं सम्प्रदायः ईदृशःइति । यदि व्याकरणदोषः सम्भवति तर्हि अविलम्बेन कथनीयम् - आर्षप्रयोगः एतादृशः एवइति । आचारे यदि दोषः कृतः स्यात् तर्हि सपदि एव वदनीयम् -अस्मत्प्रदेशे एषः एव आचारःइति । एवं पुरोहितः प्रश्नसमनन्तरम् एव उत्तरदानाय सन्नद्धः एव स्यात् ।




गौरी तनुर्नयनमायतमुन्नता च नासा कटी पृथुतटी च पटी विचित्रा ।
अङ्गानि लोमरहितानि हिताय भर्तुः पुच्छं न तुच्छमिति कुत्र समस्तवस्तु ॥

वनवासम् अङ्गीकृत्य सीता वनं गता खलु ? तदा वनवासिन्यः वानर्यः तां द्रष्टुम् आगतवत्यः । ताः परस्परं वदन्ति स्म - 'एतस्याः गौरं शरीरम् । नयने विशाले । नासिका, कटिः इत्यादयः अपि प्रशस्ताः । वस्त्रम् अपि विलक्षणं दृश्यते । अङ्गानि रोमरहितानि, येषां च स्पर्शनात् भर्ता सन्तोषम् अनुभवेत् । किन्तु एतस्याम् एका एव न्यूनता नाम - एतस्याः तुच्छम् अपि पुच्छं नास्ति इति' इति ।
वानरीणां दृष्ट्या पुच्छराहित्यम् असौन्दर्यस्य लक्षणम् । सुन्दरम् अपि असुन्दरं भावयन्तः एतादृशाः जनाः अद्यापि दृश्यन्ते एव खलु लोके ?




काकाल्लौल्यं यमात् क्रौर्यं स्थपतेर्धृढघातिताम् ।
आद्यक्षराणि सङ्गृह्य कायस्थः केन निर्मितः ॥

यः आधुनिके काले ॐण्ठज्ञढ्ढइत्यादिभिः पदैः निर्दिश्यते, यश्च सर्वकारीयेषु कार्यालयेषु तिष्ठन् सामान्यान् जनान् बहुधा पीडयति सः प्राचीने काले 'कायस्थः' इति निर्दिश्यते स्म । कायस्थवृत्तिमन्तः प्रतिग्रामं, प्रतिनगरं, प्रतिकार्यालयं च भवन्ति एव । तेषां दुर्व्यवहाराः सोढुं न शक्याः, किन्तु अनन्यगतिकतया सोढव्याः एव भवन्ति । तादृशात् कायस्थात् पीडां प्राप्य नितरां खिन्नः कश्चन कविः वदति - 'काकात् चाञ्चल्यं, यमात् क्रौर्यं, स्थपतितः दृढघातितां च सङ्गृह्य तेषां त्रयाणाम् अद्यक्षराणि च सङ्गृह्य ब्रह्मा कायस्थंनिर्मितवान् स्यात्' इति ।




गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि ।
प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥

पत्नी यस्य परमप्रिया भवति तस्य परमप्रियाः भवन्ति तदीयाः बान्धवाः अपि । तान् प्राणसमान् भावयति सः । (पत्नीं तु प्राणेभ्योऽपि गरीयसीं भावयति सः) यथा प्राणैः विना कस्यचित् जीवनम् एव असम्भवं तद्वत् एव गृहिणी, तस्याः भगिनी, तस्याः माता, पिता, तस्याः भ्राता इत्येतैः विना अपि सः जीवितुं न शक्नोति । यतः एते पञ्च जनाः बहिश्चराः प्राणाः इव भवन्ति तस्य ।




भर्तुः पार्वति नाम कीर्तय न चेत् त्वां ताडयिष्याम्यहम् । क्रीडाब्जेन शिवेति सत्यमनघे किं ते शृगालः पतिः ।
नो स्थाणुः किमु कीलको न हि पशुस्वामी तु गोप्ता गवां । दोलाखेलनकर्मणीति विजयागौर्योर्वचः पातु वः ॥ - (काव्यानुशासनात्)

दोलाखेलनावसरे कदाचित् लक्ष्मीः पार्वतीम् अवदत् प्रेम्णा - 'गौरि ! पत्युः नाम उच्यताम् । अन्यथा अहं क्रीडाब्जेन भवतीं ताडयेयम्' इति । तदा पार्वती अवदत् - 'मम पत्युः नाम शिवः' इति । शिवपदस्य शृगालः इत्यर्थं मत्त्वा लक्ष्मीः अपृच्छत् - 'किं भवत्याः पतिः शृगालः ?' इति । 'मम पतिः स्थाणुरिति निर्दिश्यते' इति उक्तवतीं पार्वतीं लक्ष्मीः अवदत् - 'किं सः स्तम्भः ?' इति । 'सः अस्ति पशुपतिः' इति अवदत् पार्वती । 'तन्नाम सः पशून् चारयति इत्यर्थः' इति अवदत् लक्ष्मीः । एतादृशः लक्ष्मीपार्वत्योः संलापः सर्वेषां मङ्गलाय भवतु ।




शुनां तुरङ्गमानां यः आभिजात्यं समीक्ष्यते ।
मनुष्याणां तु तन्मानं गर्ह्यते स कुतः सुधीः ॥ - आत्रेयलघुलेखमाला

लोके अश्वशुनकादीनां सत्कुलप्रसूतत्वं प्रशस्यते । उत्तमे कुले जाताः एव ते अधिकं मौल्यम् अर्हन्ति । किन्तु मानवेषु सत्कुलप्रसूतत्वं योग्यतापरिगणनावसरे न परिगण्यते । एतत् तु महते विषादाय एव खलु ? अहो, कलिकालमहिमा !




मेरुः स्थितोऽतिदूरे मनुष्यभूमिं धिया परित्यज्य ।
भीतोऽवश्यं चौर्याच्चोराणां हेमकाराणाम् ॥

मेरुपर्वतः जनवसतितः सुदूरे अस्ति । तस्य कारणं कश्चन कविः एवम् उत्प्रेक्षते - 'मेरुपर्वतः सुवर्णमयः इति ख्यातः । सुवर्णकाराः च सुवर्णचौर्यं वृत्तेः अङ्गमेव मन्यन्ते । भगिन्या आभरणनिर्माणाय दत्तस्य सुवर्णस्य कश्चन अंशः सुवर्णकारैः चोर्येत एव इति वचनं श्रूयते लोके । एते सुवर्णकाराः स्वीयं सुवर्णम् अपहरेयुः नैरन्तर्येण इति चिन्तयन् मेरुपर्वतः जनवसतितः दूरे तिष्ठति ।'




एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने ।
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥

प्राचीनकालीनः श्लोकः अयं वदति - कविः यां कवितां रचयेत् सा कदाचित् अश्वप्राप्तिकारणं भवेत्, पुनः कदाचित् गजप्राप्तिकारणं स्यात्, ग्रामप्राप्तिकारणं वा भवेत् । एतादृशं महत् किमपि न प्राप्येत चेत् वस्त्रं, भोजनं, ताम्बूलं वा तु प्राप्येत एव । एतादृशानां प्राप्तिः कवितायाः योग्यतां, दातुः मनःस्थितिं च अवलम्ब भवति ।




घटकं सम्यगाराध्य वैराग्यं परमं वहेत् ।
यावदर्थाः प्रसिद्ध्यन्ति यावच्चापलमावृतम् ॥

यः उपायज्ञः स्यात् सः घटकं कञ्चित् कार्ये नियोज्य, विविधैः उपायैः तं बहुधा सन्तोष्य कार्यसिद्धिं निश्चित्य डाम्भिकानि वचनानि वदति जनानां पुरतः - 'न कापि अपेक्षा मम । अहं सर्वथा निःस्पृहः अस्मि' इति । कार्यसिद्धिपर्यन्तम् एव एषः व्यवहारः । फले हस्तगते निःस्पृहतादयः तेन सर्वथा विस्मृताः भवन्ति ।




गोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनः ।
राजकर्णे जपः सद्यः सर्वकर्मविनाशनः ॥

गोकर्णक्षेत्रे यदि जपः क्रियेत तर्हि दुष्कार्यजन्यानि पापानि अपगतानि भवेयुः । भद्रजनकर्णे यदि कृतम् अकार्यादिकं पात्येत तर्हि तस्य मार्गदर्शनात् दुष्कर्मणां फलं क्षीणं भवेत् । किन्तु राज्ञः कर्णे यदि कश्चित् अस्मद्विरुद्धं पिशुनतासूचकं किमपि वदेत् तर्हि अस्मदीयानि सर्वाणि कार्याणि विनष्टानि भवेयुः ।




भार्ये द्वे बहवः पुत्राः दारिद्र्यं रोगसम्भवः ।
जीर्णौ च मातापितरौ एकैकं नरकाधिकम् ॥

यस्य उभे भार्ये, बहवः पुत्राः, महत् दारिद्र्यं, रोगपीडा पौनःपुन्येन, मातापितरौ वृद्धौ च, तस्य गृहं नरकम् अपि अतिशेते । वस्तुतः तु एतेषु एकैकस्य अंशस्य सत्त्वात् अपि जीवनं नरकायेत । एवं स्थिते सर्वेषाम् अंशानाम् एकत्र एव संस्थित्या जीवनं कुतः न अतिनरकायेत ?




भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता ।
अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥

कश्चन गृहस्थः । तस्य उभे भार्ये । तयोः परस्परं कलहः । उभयोः अपि बहवः पुत्राः । पतिविहीना भगिनी अपि तस्य गृहम् आश्रितवती अस्ति अनन्यगतिकतया । एतादृशस्य गृहस्थस्य जीवने 'अश्रान्तकलहः' नाम योगः स्थिरतया तिष्ठति इत्यत्र कः सन्देहः ? एषः 'अश्रान्तकलह'योगः बहुषु गृहेषु द्रष्टुं शक्यः पूर्वोक्तेषु कारणेषु असत्स्वपि । यतः अखण्डकलहस्य कारणानि अनन्तानि भवितुम् अर्हन्ति ननु ?




दातारोऽर्थिभिरथ्यन्ते दातृभिः पुनरर्थिनः ।
कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥

दातारः अर्थिभिः (याचकैः) अर्थ्यन्ते (प्रार्थ्यन्ते) । ते च याचकाः दातृभिः अर्थिनः (अर्थवन्तः) क्रियन्ते । एतस्मिन् श्लोके 'अर्थी' इत्यस्य अर्थद्वयम् । अर्थयते इति अर्थी - याचकः । अर्थाः सन्ति अस्मिन् इति अर्थी = धनिकः । अर्थिनः अर्थिनः क्रियन्तेइति वाक्यस्य पठनात् विरोधः दृश्यते । अर्थिनः (याचकाः) अर्थिनः (धनिकाः) क्रियन्ते दातृभिःइति अवगमनात् विरोधपरिहारः । प्रथमवाक्यस्य कर्ता द्वितीये वाक्ये कर्म, प्रथमवाक्यस्य कर्म द्वितीये वाक्ये कर्ता । एवं कर्तृकर्मपदयोः व्यत्ययात् अर्थव्यत्ययः महान् एव सम्भवति ।




कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ॥

कायस्थः नाम गणनालेखकः । स तु उत्कोचस्वीकरणनिपुणः । सर्वस्मादपि सः कथमपि धनं प्राप्नुयात् एव । धनं गिलति सः । एषः स्वभावः जन्मना एव अर्जितः भवति तेन । मातुः गर्भे यदा सः आसीत् तदा कोमलानि मातुः अन्त्राणि किमर्थं तेन न भुक्तानि ? तत्रापि आमिषत्वं तेन दृष्टं स्यात् एव । तत्र कारणं तु तदीयं दन्तहीनत्वम् । यदि तस्याम् एव अवस्थायां सः दन्तवान् अभविष्यत् तर्हि निश्चयेन मातुः अन्त्राणि अपि अखादिष्यत् एव !!




राज्ञां निर्वहणाय षष्ठ इति यो भागः करः स्वीकृतः । तस्मादेव समस्तराज्यसुखमप्यापादितं पूर्वजैः ।
एकोनं शतमंशमद्य कर इत्यादाय राज्यस्य यत् पर्याप्नोति न सेवकोदरकृतेऽप्येषा विचित्रा स्थितिः ॥

पूर्वं राजानः प्रजाभ्यः षष्ठं भागं करत्वेन स्वीकुर्वन्ति स्म । ततः एव राज्यशासनं सुष्ठु प्रचलति स्म । प्रजाश्च सुखेन भवन्ति स्म । किन्तु अद्यत्वे सर्वकारः तु एकोनशततमं भागं (99%) स्वीकरोति जनेभ्यः करत्वेन । तथापि सर्वकारेण यत् प्राप्येत तत् तत्रत्यानाम् उद्योगिनां वेतनाय अपि अपर्याप्तं भवति । एवमस्ति शासनदक्षता !! अहो कालस्य विचित्रा गतिः !!




विहंगा वाहनं येषां त्रिशंचधरपाणयः ।
पासालसहिता देवाः सदा तिष्ठन्तु मे गृहे ॥

आपाततः दर्शनात् अस्य श्लोकस्य तात्पर्यं न अवगम्यते । श्लोकार्थः तु - ‘‘गरुडः, हंसः वृषभः च येषां वाहनं, त्रिशूलं, शङ्खः चक्रं च येषां हस्ते विराजते, पार्वती सावित्री लक्ष्मीः च येषां पत्न्यः, ते देवाः मम गृहे सदा निवसन्तु’’ इति । पूर्णस्य श्लोकार्थस्य अवगमनात् एव खलु स्वारस्यम् अनुभूयते ?




सेवा श्ववृत्तिर्यैरुक्ता तैरसम्यगुदाहृतम् ।
स्वच्छन्दचरितः क्व श्वा विक्रीतात्मा क्व सेवकः ॥

सेवा नाम शुनकस्य आचारः इव इति वदन्ति केचन । तत् अयुक्तम् इति एतस्य श्लोकस्य रचयितुः आशयः । शुनकः तु स्वच्छन्दव्यवहारवान् । तस्य सञ्चारे न कस्यापि निर्बन्धः । (पालितः शुनकः बन्धनादिना निर्बध्यते इति तु अन्यत्) सेवकः तु भवति विक्रीतात्मा । अभिमानशून्यतया जीव्यते तेन । अतः सेवकस्य शुनः च न भवितुम् अर्हति सादृश्यम् ।




वालिनं रावणं रामं सुग्रीवं च विभीषणम् ।
शत्रुघ्नं भरतं हित्वा सीतया किं प्रयोजनम् ?

'उत्तमपुच्छयुक्तः, भीकरं शब्दं कुर्वाणः, मनोहरः, सुन्दरकण्ठयुक्तः, क्वचित् उग्ररूपं धरन्, शत्रुसंहारकः, भारवहनसमर्थः वृषभः यदि न भवेत् तर्हि कृषिपद्धत्या न किमपि प्रयोजनम्' इति वदति कश्चन कृषिकः । आपाततः श्लोकस्य दर्शनात् अर्थावगतिम् अप्राप्य चिन्ताक्रान्तानां भवतां सन्देहाः इदानीम् अपगताः स्युः ननु ?




सन्ततकुटिलकरालः परुषाक्रोशी हठाभिघातपरः ।
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥

अधिकारमदः यस्य भवति सः सर्वदा वक्रगतिः भवति, घोरः भवति, परुषवाक्यवक्ता भवति, हठात् आघातं करोति च । स्वेच्छाचारस्य तस्य दुर्व्यवहारस्य इयत्ता एव न भवति । यद्यत् लभ्येत तत्सर्वं स्वायत्तीकर्तुं प्रयतमानः सः क्रूरः राक्षसः एवइति सुभाषितस्यास्य आशयः । एतादृशः एव व्यवहारः अधिकारमदमत्तेषु जनेषु अद्यापि दृश्यते एव ननु ?




यावदज्ञानतो मौनमाचारो वा विलक्षणः ।
तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके ॥

मान्त्रिकाः, ज्योतिषिकाः, पुरोहिताः, नेतारः इत्यादयः स्वमाहात्म्यं वर्धयितुम् इच्छन्ति सदापि । तान् उद्दिश्य कविः कश्चन अत्र मार्गद्वयं दर्शयति । 'करणीये कार्ये अज्ञानं यदि स्यात् तर्हि मौनम् आचरणीयम् । अथवा विलक्षणः व्यवहारः करणीयः । तदा अनयोः व्यवहारयोः विशिष्टार्थं कञ्चित् परिकल्पयन्तः द्रष्टारः आचरितरि अधिकं गौरवं प्रदर्शयन्ति ।'

चाटुचणकः(उपजीविका)

कौपीनं भस्मना लेपो दर्भाः रुद्राक्षमालिका ।
मौनमेकान्तिता चेति मूर्खसञ्जीवनानि षट् ॥

मूर्खोऽपि सुखेन यदि जीवितुम् इच्छति तर्हि तेन कौपीनं धृत्वा भस्मना शरीरस्य लेपनं करणीयम् । दर्भासने उपविश्य रुद्राक्षमालिका चालनीया हस्तेन । एकान्ते वसता तेन मौनम् अवलम्बनीयम् । एतावत् कृतं चेत् जनाः अहमहमिकया आगत्य प्रणमन्ति, अर्चन्ति, सत्कुर्वन्ति च ।
अतः मूर्खता अस्ति चेदपि चिन्ता न करणीया । वेषधारणात् जनप्रीतिः प्राप्तुं शक्या निश्चयेन ।




कृषिवाणिज्यहीनानां दीनानां बुद्धिपौरुषैः ।
धर्मवादं विना केन भवेदुदरपूरणम् ॥

लोके कृषिवाणिज्यादिषु निपुणाः स्ववृत्त्या आनन्देन जीवन्ति । तद्रहिताः अपि यदि बुद्धिमन्तः स्युः ते अपि आनन्देन जीवन्ति । किन्तु केचन कृषिवाणिज्यादिषु अनिपुणाः, बुद्धिपौरुषेण हीनाः च भवन्ति । ते कथं जीवन्ति ? ते तु धर्मोपदेशव्याजेन जीवन्ति ।
सत्यं खलु एतत् ? धर्मोपदेशकाः सर्वे वैराग्यवन्तः, धर्मैकसक्ताः वा न भवन्ति । केचन उपजीविकायै एव धर्मोपदेशम् अवलम्बितवन्तः भवन्ति । अस्माकं देशे धर्मोपदेशकानां विषये महती श्रद्धा भवति सामान्यानाम् । अतः तेषां जीवनं प्रचलति निरातङ्कम् ।




'अग्निहोत्रं त्रयो वेदास्त्रिपुण्ड्रं भस्मधारणम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥

लोके केचन पौरुषेण जीवन्ति । शरीरबलप्रधानं कार्यं कुर्वन्ति ते । अन्ये केचन बुद्धिप्रधानानि कार्याणि कुर्वन्तः जीवन्ति । एतादृशम् उभयविधम् अपि सामर्थ्यं येषां न भवति ते अग्निहोत्रादिकं, त्रीन् वेदान्, त्रिपुण्ड्रधारणं, भस्मधारणं वा अवलम्ब्य जीवन्ति ।




यदि न क्वापि विद्यायां सर्वथा क्रमते मतिः ।
मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥

विद्या हि श्रमसाध्या । अतः एव प्राचीनैः उक्तम् - अलसस्य कुतो विद्याइति । किन्तु केचन अल्पां विद्याम् अधिगत्य चिन्तयन्ति - इतः परं मया अध्येतुं सर्वथा न शक्यते इति । तादृशः कश्चन प्राप्ताल्पविद्यः अलसः वदति - विद्यायां मनः न प्रवर्तते मम । अतः मान्त्रिकः, (ज्योतिषिकः, पुरोहितः वा) योगी यतिः वा भविष्यामिइति । मान्त्रिकत्वयोगित्वयतित्वादीनि अपि वस्तुतः प्रयत्नसाध्यानि एव । किन्तु तत्र डाम्भिकाः अपि अल्पेन एव प्रयत्नेन ख्यातिं प्राप्तुम् अर्हन्ति । अतः एव अद्य एतादृशेषु क्षेत्रेषु डाम्भिकानाम् एव विजृम्भणं दृश्यते, न तु योग्यतावताम् ।

चाटुचणकः(ऋणम्)


स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति ।
अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥

यस्य स्मरणमात्रेण शरीरं शक्तिहीनं भवेत्, यस्य दर्शनात् बुद्धिः कार्यासमर्था भवेत् सः कः ? स तु अस्ति ऋणदाता। तस्य महापिशाचस्य पीडा तु अवर्णनीया । अतः एव स्मरणमात्रात् एव शरीरे कम्पः । दर्शनेन तु जङ्घाबलं विलुप्यते ! अतः एव प्राचीनैः उक्तम् - ऋणगर्ते पतनं विनाशायइति ।




अन्तकोऽपि हि जन्तूनाम् अन्तकालमपेक्षते ।
न कालनियमः कश्चित् उत्तमर्णस्य विद्यते ॥

यावत् मरणकालः सन्निहितः न भवेत् तावत् यमः अपि कस्यापि प्राणान् अपहर्तुं नार्हति । किन्तु तादृशं कालनियमं न अनुसरति ऋणदाता । यदाकदाचित् गृहद्वारे उपस्थाय ऋणं प्रत्यर्पणीयम् इदानीम् एवइति भीतिजननपूर्वकं वदन् ऋणस्वीकर्तुः प्राणहरणाय एव उद्यतः भवति सः ।

चाटुचणकः(गृहस्थाश्रमः)


गृहिणी स्वजनं वक्ति शुष्काहारमिताशनम् ।
पतिपक्षांस्तु बह्वाशीन् क्षीरपांस्तस्करानपि ॥

गृहं प्रति अतिथित्वेन पतिबान्धवाः आगच्छन्ति, पत्नीबान्धवाः अपि आगच्छन्ति । यदा पतिबान्धवाः आगच्छन्ति तदा पत्नी वदति - 'भवतः बान्धवाः बहु खादन्ति, गृहे स्थितं क्षीरं ते एव पिबन्ति बहुधा । तावदेव न, गृहे स्थितानि वस्तूनि चोरयित्वा नयन्ति अपि' इति । यदा स्वस्य बान्धवाः आगच्छन्ति तदा सा वदति - 'अहो, मम बान्धवाः शुष्कम् एव आहारं सेवन्ते । मितम् एव सेवन्ते !!' इति । एषः एव लोकव्यवहारः नाम ।




आः पाकं करोषि पापिनि कथं पापी त्वदीयः पिता
रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा ।
निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहम्
चेदेवं बहिरेमि गर्दभगृहान्नात्रवतिष्ठे क्षणम् ॥

यत्र विषमदाम्पत्यं भवति तत्र कलहः प्रवर्तते प्रतिदिनम् अपि । तादृशस्य विषमदाम्पत्यस्य चित्रणम् अस्ति अत्र । पत्न्या पाकः न कृतः इत्यतः कुपितः पतिः पृच्छति - 'अये दुष्टे, पापिनि, किमर्थं पाकः न कृतः त्वया ?’ इति । तदा कुपिता पत्नी प्रत्युत्तरं वदति - नाहं पापिनी । तव पिता एव पापीइति । एतत् श्रुतवतः पत्युः कोपः प्रवृद्धः । सः अवदत् - रण्डे, किमर्थं वृथा जल्पसि ?’ इति । तदा पत्नी आह - तव जननी रण्डा, तव भगिनी च रण्डा, न अहम्इति । एतस्मात् क्रुद्धः पतिः गर्जति - एतादृशानि दुर्वचनानि वदन्ती त्वम् अत्र स्थातुं नार्हसि । त्वरितं निर्गच्छ इतःइति । एवं चेत् एषाऽहं निर्गच्छामि । गर्दभस्य तव गृहे क्षणमात्रम् अपि न तिष्ठामिइति वदति पत्नी ।
अहो विषमदाम्प्यत्ययुक्तस्य गृहस्य दुर्गतिः ।




भाण्डानि शतसहस्रं भग्नानि मम मस्तके ।
अहो गुणवती भार्या भाण्डमूल्यं न याचते ॥

कश्चन शान्तस्वभावः आसीत् । तस्य पत्नी तु चण्डी । यदा यदा कोपः प्राप्यते तदा तदा सा मृद्घटेन पतिं शिरसि प्रहरति । एवं शताधिकाः सहस्राधिकाः च घटाः भग्नाः । एतादृशीम् अपि पत्नीं सः वर्णयति - अहो, सा गुणवती !’ इति । बहुवारं घटाः भग्नाः चेदपि तया एकवारम् अपि भाण्डमूल्यं न याचितम् । अतः सा गुणवती एवइति अभिप्रैति सः ।
पीडाकरीं पत्नीम् अपि गुणवतीं कथयतः तस्य कथनं वयं किमर्थं निराकुर्याम ?




बिलाद् बहिर्बिलस्यान्तः स्थितमार्जारसर्पयोः ।
मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः ॥

अनपत्यताकारणतः, अर्थलाभादिहेतुना, अन्यकारणेन वा केचन पत्नीद्वययुताः भवन्ति । तादृशानां जीवनं नितरां शोचनीयं भवति प्रायः । मार्जारेण अनुधाव्यमानः कश्चन मूषकः कदाचित् एकं बिलं प्राविशत् । तस्य पुरतः उपस्थितः आसीत् घोरः सर्पः ! अग्रे गतं चेत् सर्पात् अपायः, पृष्ठतः गतं चेत्, तत्रैव स्थितं चेत् वा मार्जारात् विपत्तिः । एतादृश्यां स्थितौ सः वराकः अनन्यगतिकः किं वा कुर्यात् ? तस्य यथा, तथैव भवति पत्नीद्वययुतस्य मनुष्यस्यापि स्थितिः । एवं ननु ?

चाटुचणकः(जामाता)


जामातुर्वक्रता तावद्यावद्बालस्य बालता ।
प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन् पलायनम् ॥

पत्न्या: भ्राता (श्याल:) यावत् बाल: भवति तावत् जामाता श्वशुरगृहे अधिकाधिकवक्रतां दर्शयति । किन्तु यथा यथा श्यालस्य प्रबुद्धता वर्धते तथा तथा जामातु: व्यवहारे सरलता दृश्यते । किन्तु यदा श्याल: प्रबुद्ध: भवति तदा तु जामाता स्वस्य वक्रतां सर्वथा न्यूनीकरोति । तावदेव न, प्रबुद्धे च श्याले, श्वशुरगृहं प्रति गमनम् अपि न्यूनीकरोति स: । यत्र पूजा अल्पा तत्र अनादर: खलु भवति ?




भार्या ज्येष्ठा शिशुः श्यालः शश्रूः स्वातन्त्र्यवर्तिनी ।
श्वशुरः तु प्रवासी च जामातुर्भाग्यकारणात् ॥

यस्य भार्या स्वमातापित्रोः ज्येष्ठपुत्री भवति, श्यालः च अल्पवयस्कः भवति, श्वश्रूः च स्वातन्त्र्येणा व्यवहरन्ती भवति, श्वशुरः सदा प्रवासनिरतः भवति तादृशस्य जामातुः परमसौभाग्यम् ।
यतः श्वशुरगृहस्य सम्पत्तेः उपयोगे न कोऽपि विघ्नः तस्य । एतादृशं जामातृत्वं सौभाग्यात् एव लभ्यते ।




सदा रुष्टः सदा तुष्टः सदा पूजामपेक्षते ।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥

लोके नव ग्रहाः सन्ति इति सर्वे जानन्ति एव । किन्तु कविः वदति दशमः अपि कश्चन ग्रहः अस्ति इति । जामाता एव दशमः इति कवेः आशयः । कथं तस्य ग्रहत्वम् इति पृष्टे कविः वदति – ‘जामाता कन्याराशौ तिष्ठति । क्वचित् तुष्टः भवति, पुनः क्वचित् रुष्टः भवति । सदा पूजां (सम्माननं) च अपेक्षते । ग्रहाणां स्वरुपम् अपि एवम् एव । अतः जामाता दशमः ग्रहः इत्यत्र नास्ति सन्देहःइति । अन्यग्रहाणां परिणामः समग्रे लोके भवति । किन्तु जामातृग्रहस्य परिणामस्तु श्वशुरगृहमात्रे भवति ।




श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां
यदि भवति दिनानि त्रीणि पञ्चाथ सप्त ।
दधि मधु- घृत- भक्ष्य-क्षीरसारप्रवाहः
तदुपरि निवसेत् चेत् पादरक्षाप्रयोगः ॥

सारं श्वशुरमन्दिरम्इति मत्वा श्वशुरगृहे दीर्घवासः न करणीयः इति बोधयति कश्चन कविः । यदि श्वशुरगृहे द्वित्राणि पञ्चषाणि वा दिनानि वासः क्रियते तर्हि स्वर्गसुखम् एव अनुभूयते । भक्ष्यभोज्यक्षीरादिदानैः जामाता बहुधा सत्क्रियते । यदि सः दीर्घकालं तत्र वसेत् तर्हि कःपदार्थः इव परिगण्येत । पादरक्षाप्रयोगः तत्सदृशः अन्यः अवमानकरः व्यवहारः वा तत्र भवेत् कदाचित् । अतः श्वशुरगृहवासविषये औचित्यप्रज्ञा सदा भवतु, परगृहवासविषये अपि यदि एषा औचित्यप्रज्ञा स्यात् तर्हि अपि वरम् एव ।




असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
हरो हिमालये शेते हरिश्शेते महोदधौ ॥

ईश्वरः हिमालये, विष्णुः समुद्रे च किमर्थं शयनं कुरुतः ? कविः कश्चन कथयति – ’श्वशुरगृहवासः एव निस्सारे एतस्मिन् संसारे सारभूतम् इति तौ चिन्तयतः इत्यतः तथा कुरुतःइति ।
श्वशुरगृहे जामातुः विशेषादरः भवत्येव । अतः एतत् अपि उत्तरं युक्तं स्यात् कदाचित् ।

चाटुचणकः(जिह्वा)


निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् ।
चकार हि वृथा शश्त्रविषवह्नीन् प्रजापतिः ॥

लोके अग्निशस्त्रविषादयः प्राणहरत्वेन ख्याताः । प्रजापतिः प्राणहरणाय आदौ तानि विषादीनि एव असृजत् । किन्तु अनन्तरकाले पिशुनजनानां जिह्वा तेन सृष्टा तत्कार्याय एव । खलजिह्वायाः सृष्टेः अनन्तरं प्राणहरणकार्यं समग्रं तया एव क्रियमाणम् अभवत् इत्यतः विषादीनां सृष्टिः व्यर्था जाता । अपारसामर्थ्यवति वस्तुनि स्थिते अल्पसामर्थ्यवन्ति वस्तूनि अप्रयोजनकारीणि खलु भवन्ति ?




दन्ता: वदन्ति जिह्वे त्वां
दशाम: किं करिष्यसि ।
एकमेव वचो वच्मि
नूनं सर्वे पतिष्यथ ॥

कदाचित् दन्ता: जिह्वाम् अवदन् - 'हे जिह्वे, वयं बहव: स्म: । भवती एकाकिनी अस्ति । वयं सर्वे सम्भूय भवतीं दशाम: चेत् एकाकिनी असहाया भवती किं वा कुर्यात् ?' इति ।
तदा जिह्वा शान्तेन स्वरेण अवदत् - 'भवन्त: बहुसंख्याका: स्यु: नाम । एकाकिनी अपि सती अहम् असहाया तु न । यदि भवन्त: मां दशेयु: तर्हि अहं तादृशम् एकं वाक्यं वदिष्यामि येन श्रोता क्रुद्ध: सन् हस्तप्रहारेण भवत: सर्वान् पातयेत्' इति ।
सत्यं खलु - लोके बलवत्त्वम् असहायकता च तत्तस्य बुद्धिमत्ताम् अवलम्बते ?

चाटुचणकः(ज्योतिषिकः)


आयुःप्रश्ने दीर्घमायुः वाच्यं मौहूर्तिकैः द्विजैः ।
जीवन्तो बहु मन्यन्ते मृता जीवन्ति किं पुनः ॥

यदि कश्चित् ज्योतिषिकं - 'मम आयुः कियत् ?' इति पृच्छति तर्हि 'दीर्घायुः भवान्' इत्येव वक्तव्यम् । तन्नाम 'शताधिकवर्षाणि जीविष्यति भवान्' इति वक्तव्यम् । यः तावद्दीर्घं जीविष्यति स तु ज्योतिषिकविषये परमादरं प्रकटयति एव । यः अल्पे एव वयसि दिवं गतःस तु ज्योतिषिकसमीपम् आगन्तुं नार्हति । अतः दीर्घायुष्कत्वकथनात् न कापि हानिः ।




पुत्र इत्येव पितरि कन्यकेत्येव मातरि ।
गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥
गर्भवती यदा पृच्छति - 'मम पुत्रः जायते, उत पुत्री ?' इति, तदा पुत्री इति, तस्याः पतिः यदा एतं प्रश्नं पृच्छति तदा पुत्रः इति च यः ज्योतिषिकः वदति सः निश्चयेन खलु जनप्रियतां प्राप्य प्रभूतं धनं सम्पादयेत् ? प्रियवक्तरि सर्वे खलु तुष्यन्ति ?




अपि सागरपर्यन्ता विचेतव्या वसुन्धरा ।
देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ - कलिविडम्बना

ज्योतिषिकाः (दैवज्ञाः) भवन्ति एव सर्वत्र । शास्त्रं समग्रम् अधीत्य ज्योतिषिकत्वस्य प्राप्तिः अन्या । शास्त्रस्य अल्पं भागम् अधीत्य ज्योतिषवृत्तिम् अवलम्ब्य जीवनयापनम् अन्यत् । लोके आधिक्येन दृश्यन्ते द्वितीयविधाः एव 'ज्योतिषिकाः' । तान् मनसि निधाय कविः वदति - 'समग्रे प्रपञ्चे अन्वेषणं क्रियेत चेदपि ज्योतिषिकविरहता अल्पा अपि भूमिः न प्राप्येत' इति । कवेः कथने उत्प्रेक्षांशस्य अल्पता एव इति भासते खलु ?




सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि ।
सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥

जातकफलं ज्ञातुं यदा जनाः आगच्छन्ति तदा ज्योतिषिकेण सर्वदा 'एवं भवति, एवं वा भवति' इति द्विविधम् उत्तरं वक्तव्यम् । तथैव 'अमुककाले भवति, अमुककाले वा भवति' इति कालद्वयात्मकतया वक्तव्यम् । सर्वम् अपि भ्रमजनकतया अपि वक्तव्यम् । तदा एव ज्योतिषिकः आक्षेप्तॄणाम् आक्षेपात् आत्मानं रक्षितुम् अर्हति ।

चाटुचणकः(डम्भाचारः)


लोभः पितातिवृद्धो जननी माया सहोदरः कूटः ।
भु्रकुटिरचना च विद्या पुत्रो डम्भस्य हुङ्कारः ॥

अन्येषां तोषणाय कृत्रिमान् व्यवहारान् यः आचरति सः उच्यते - डम्भःइति । लोभः एव तस्य पिता । मायापूर्णा व्यवहृतिः तस्य माता । कुटिलव्यवहारः तस्य भ्राता । भ्रुकुटिवक्रतादिकं (कोपादिकं) तस्य कौशलम् । हुङ्कारः भवति तस्य पुत्रः । एतादृशानां साहाय्ये सति, इष्टस्य साधनं क्लेशाय भवेत् कथम् ?




यथा जानन्ति बहवः यथा वक्ष्यन्ति दातरि ।
तथा धर्मं चरेन्नित्यं न वृथा किञ्चिदाचरेत् ॥

धार्मिककार्याणाम् उद्देशः उभयथा भवति । केचन तानि कार्याणि पारलौकिकसुखाय कुर्वन्ति । अन्ये केचन ततः ऐहिकलाभं प्राप्तुम् इच्छन्ति । ये ऐहिकलाभेच्छवः तान् उद्दिश्य कविः अत्र कांश्चन उपायान् वदति । सर्वे यथा पश्येयुः (जानीयुः वा) तथा धर्माचरणं करणीयम् इति तु प्रथमः अंशः । दानशीलानां कर्णपथम् अपि धर्माचरणवार्ता यथा प्राप्नुयात् तथा जागरूकता वोढव्या इति तु द्वितीयः अंशः । एतादृशानि प्रयोजनानि यस्मात् न भवेयुः तादृशं धर्माचरणं न करणीयम् इति तु कवेः आप्तोपदेशः ।




तावद्दीर्घं नित्यकर्म यावत् स्याद्रष्टृमेलनम् ।
तावत्संक्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥

दम्भाचारार्थं ये सन्ध्यावन्दनदेवपूजनादिकं कुर्वन्ति तेषां कृत्यानि द्रष्टृणाम् उपस्थितिं संख्यां च अवलम्बन्ते । यदि द्रष्टारः भवन्ति तर्हि जपमालाचालनं, देवस्थापनम्, अलङ्कारः, नीराजनम् इत्यादिकं दीर्घकालं यावत् महता आटोपेन भवति । यदि द्रष्टा कोऽपि न भवति तर्हि सर्वम् अत्यल्पकाले एव परिसमाप्यते ! द्रष्टुः अभावे आडम्बरस्य किं वा महत्त्वम् अवशिष्येत् ?




आमध्याह्नं नदीवासः
समाजे देवतार्चनम् ।
सततं शुचिवेषश्च
एतत् दम्भस्य लक्षणम् ॥

दम्भाचारार्थं केचन संन्यासिवेषं धरन्ति । विरक्तिः तेषु नाम मात्रेण अपि न भवति । तेषां सर्वे आचाराः बाह्यप्रदर्शनार्थं जनाकर्षणार्थं च भवति । अतः ते आमध्याह्नं नद्यां नदीतीरे वा तिष्ठन्ति । (यतः मध्याह्नपर्यन्तं तत्र जनानां गमनागमनं भवति एव ।) सर्वे यथा पश्येयुः तथा ते वैभवेन देवपूजां कुर्वन्ति । सर्वदा शुभ्रवेषं काषायवेषं च धरन्ति । एवम् उदरनिमित्तं बहुकृतवेषाः ते ।

चाटुचणकः(दारिद्र्यम्)


शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् ।
मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किञ्चन ॥

शत्रुत्वं यदा दृश्यते तदा जनैः प्रतीकारः चिन्त्यते । प्रतीकारकारणतः शत्रुता उपशान्ता भवति । रोगेषु उपस्थितेषु जनैः औषधं सेव्यते । औषधसेवनात् रोगोपशमनं भवति । मरणभीतौ उपस्थितायां जनैः मृत्युञ्जयजपः क्रियते । तस्मात् सा भीतिः अपगच्छति । एवं शत्रु-रोग-मरणभीत्यादीनां निवारणाय अस्ति एव कोऽपि मार्गः । किन्तु दारिद्र्यस्य निवारणाय नास्ति एव कोऽपि मार्गः ।




यत्प्रयोगेण धनिनो निर्धनान् शिक्षयन्ति यत् ।
दुःखदं नास्ति दारिद्र्यं तद्वै दर्शनशास्त्रकम् ॥ - (डा प्रशस्यमित्रशास्त्री)

दारिद्र्यं भवति सदा दुःखकारकम् । किन्तु धनवन्तः जनाः दर्शनशास्त्रोक्तान् अंशान् अवलम्ब्य निर्धनान् बोधयन्ति - 'दारिद्र्यं दुःखदं नास्ति' इति । लोभमोहादयः त्यक्तव्याः इति खलु उपदिशति दर्शनशास्त्रम् ? स्वयं लोभमोहादिवशं गताः सन्तः धनिनः - 'लोभमोहादित्यागाय दारिद्र्यम् उपकारकम् एव' इति वदन्तः साधनत्वेन दर्शनशास्त्रस्य उपयोगं कुर्वन्ति ।




अयं पटः सूत्रदरिद्रतां गतः
अयं पटच्छिद्रशतैरलङ्कृतः ।
अयं पटः प्रावरितुं न शक्यते
अयं पटः संवृत एव शोभते ॥

अत्रास्ति कस्यचित् दरिद्रस्य कथा । तत्समीपे सन्ति त्रिचतुराणि वस्त्राणि । एकं वस्त्रं छिन्नसूत्रयुक्तत्वात् धारणयोग्यं न । अपरस्मिन् शताधिकानि रन्ध्राणि दृश्यन्ते । तृतीयम् अस्ति । किन्तु तत् धृतं चेत् जनाः निश्चयेन हसेयुः । चतुर्थम् अपि अस्ति वस्त्रम् । किन्तु पुटीकृत्य स्थापितं चेदेव तस्य शोभा (प्रसारितं तत् मानहानिं जनयेत्) कष्टं खलु दरिद्रजीवनम् ?




रात्रौ जानु दिवा भानुः कृशानुस्सन्ध्ययोर्द्वयोः
एवं शीतं मया नीतं जानुभानुकृशानुभिः ॥

कश्चन निर्धनः अन्येन पृष्टः - 'शीतदिनानि भवता कथं यापितानि ? ऊर्णवस्त्रादीनि भवतः समीपे न सन्ति खलु ?' इति ।
तदा निर्धनः अवदत् - 'रात्रौ जानुनोः मध्ये मुखं निवेश्य स्थितम् । दिवाकाले भानुः (सूर्यः) मम साहाय्यम् अकरोत् । सन्ध्याकाले (प्रातः सायं च कृशानुः (अग्निः) मम उपकारकः आसीत् । एवं मया जानुभानुकृशानूनां साहाय्येन शीतकालः यापितः' इति ।




एको हि दोषो गुणसन्निपाते
निमज्जतीन्दोरिति यो बभाषे ।
न तेन दृष्टं कविना समस्तं
दारिद्यमेकं गुणकोटिहारि ॥

कालिदासः वदति - ‘‘यत्र बहवः गुणाः भवन्ति तत्र स्थितः एकः दोषः न लक्ष्यते । चन्द्रे गुणाः बहवः । अतः एव तत्रत्यः कलङ्कः जनैः प्रमुखदोषत्वेन न परिगण्यते’’ इति ।
कश्चन दारिद्र्यपीडितः कालिदासम् अधिक्षिपन् वदति - ‘‘कालिदासेन समस्तः प्रपञ्चः न अवलोकितः । अतः सः गुणसन्निपाते एकः दोषः निमज्जति इति वदति । किन्तु दारिद्र्यरूपः कश्चन प्रबलः दोषः अस्ति यश्च कोटिशः गुणान् अपि हरति’’ इति ।
सत्यं खलु एतत् ? लोके गुणवान् अपि जनः यदि दरिद्रः भवति तस्य उपेक्षा एव प्रचलति सर्वथा ।




अम्बा कुप्यति न मया न स्नुषया
साऽपि नाम्बया न मया ।
अहमपि न तया न तया
वद राजन् कस्य दोषोऽयम् ॥

कश्चन निर्धनः राज्ञः समीपम् आगत्य वदति - ‘‘महाराज ! मम गृहे वयं त्रयः स्मः - अहं मम पत्नी माता चेति । मम अम्बा कुप्यति । तत्र कारणं - न अहं, न वा मम पत्नी । मम पत्नी अपि कुप्यति । तस्य कारणं न अहं, न वा मम अम्बा । अहम् अपि कुप्यामि । मम पत्नी अम्बा वा तत्र न कारणम् । अस्माकं त्रयाणाम् अपि कोपस्य कारणीभूतः कः ?’’ इति ।
एतत् श्रुतवता राज्ञा अवगतं यत् त्रयाणाम् अपि कोपानां कारणं दारिद्र्यम् एव इति । अतः सः स्वस्य दारिद्र्यं भङ्ग्यन्तरेण कथितवते तस्मै निर्धनाय कवये प्रभूतं धनं दत्तवान् ।




शक्तिं करोति सञ्चारे शीतोष्णे मर्षयत्यपि ।
दीपयत्युदरे वह्निं दारिद्र्यं परमौषधम् ॥

दारिद्र्यं कष्टाय एव इति वदन्ति सर्वे । किन्तु दारिद्र्ये केचन गुणाः अपि सन्ति । दरिद्रः आहारधनादिनिमित्तं सञ्चरति बहुधा । एषा सञ्चारशक्तिः कुतः प्राप्ता तेन ? दारिद्र्यात् एव खलु ? दरिद्रे शीतोष्णसहनशक्तिः अपि वर्धते । यतः सहनं विना नान्या गतिः तस्य !! दरिद्रस्य उदरे जाठराग्निः सदा उद्दीप्तः एव भवति । एवं दारिद्र्यम् उत्तमम् औषधम् इव अपि आचरति !!!




एको हि दोषो गुणसन्निपाते निमज्जीतीन्दोरिति यो बभाषे ।
न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥

'गुणानां समूहे स्थितः एकः दोषः प्राधान्येन न भासते । चन्दे्र यद्यपि कलङ्कः अस्ति, तथापि शोभातिशयकारणतः सः हानिकारकत्वेन न परिगण्यते' इति कालिदासः उक्तवान् । तं निन्दति कश्चन दारिद्र्यपीडितः कविः - 'सः यद्यपि महाकविः, तथापि प्रपञ्चं समग्रं न परिशीलितवान् । दारिद्र्यरूपः दोषः अस्ति चेत् गुणसमूहे तस्य अदर्शनं दूरे तिष्ठतु, सः एकः एव कोटिगुणान् अपि अपहरति । अतः अनन्तगुणानां खनी अपि कश्चित् यदि निर्धनः भवति तर्हि सः अल्पाम् अपि पूजां न प्राप्नोति' इति ।

चाटुचणकः(धनम्)


अनृतं चाटुवादश्च धनयोगे महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥
असत्यम् उक्तं चेत्, प्रीतिकरं वचनम् उक्तं चेत् भवन्तः प्रभूतं धनं सम्पादयितुं शक्नुवन्ति । सत्यवादिता, पाण्डित्यप्राप्त्यर्थं प्रयत्नः च दारिद्र्यं जनयति । एवं धनसम्पादनमार्गः दारिद्र्यहेतुकमार्गश्च भवतां पुरतः अस्ति । यत् इष्यते तत् चेतुं स्वतन्त्राः भवन्तः ।




प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि ।
कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥

अनर्हः कश्चित् अकाले अधिकं धनं यदि प्राप्नुयात् तर्हि स्तुतिकाराणां वचनमेव यथार्थं मन्यते सः । अहम् एव देवः, देवन्द्रो वाइति सः चिन्तयति । अन्ये एते जनाः सर्वे कीटवत् सन्ति । एते सर्वे उपेक्षार्हाःइति चिन्तयति सः । धनमदः एतत्सर्वं कारयति ।




घृतं न श्रूयते कर्णे दधि स्वप्ने न दृश्यते ।
मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥

कश्चन निर्धनः । दारिद्र्यपूर्णं जीवनं तस्य । उपवासादिकं तस्य दैनन्दिनजीवनस्य अङ्गम् । एतादृशस्य जीवने दुग्ध-घृत-दध्यादयः नाम्ना अपि न श्रूयन्ते । तादृशः कश्चित् दुग्धादिविषये पत्न्या पृष्टः । प्रायः सद्योविवाहिता सती पतिगृहम् आगता स्यात् सा । पत्न्या पृष्टः सः निर्धनः अवदत् - ‘‘मुग्धे ! भवत्या मम गृहस्य स्थितिः सम्यक् ज्ञाता नास्ति इति अहं भावयामि । घृतम् इति शब्दः एव न श्रुतः मया । दधि तु स्वप्ने अपि न दृष्टम् । दुग्धस्य वार्ता एव नास्ति गृहे । तक्रं तु शक्रस्यापि दुर्लभम् । एवं स्थिते तक्रं गृहे दुर्लभम् इति तु पुनर्वक्तव्यं नास्ति’’ इति ।




क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः ।
लक्ष्मीमदस्तु मूर्खाणाम् आदेहमनुवर्तते ॥

दुष्टग्रहाः यदि मानवं प्रविशेयुः तर्हि सः आवेशः अल्पकालं तिष्ठेत् । सुरा यदि केनचित् पीयेत तर्हि तज्जन्यः मदः यामं यावत् तिष्ठेत् । किन्तु अविवेकिभिः प्राप्तः लक्ष्मीमदः तु आजीवनं भवति । अविवेकिनं प्राप्तवती लक्ष्मीः निश्चयेन मदं जनयेत् एव । स च मदः यावज्जीवं भवेत् एव ।




लेखन्या गणकः पत्रे चोरः कुञ्चिकया गृहे ।
चित्रं वितनुतो रन्ध्रं ग्रहीतुं धनिनां धनम् ॥

चोरस्य सदा एका एव चिन्ता - कस्य धनिकस्य धनं कथं चोरणीयम्इति । भित्तौ रन्ध्रं विधाय धनम् अपहरति सः । धनिकस्य कार्यालये स्थितः गणकः अपि धनम् अपहरति । तदपि रन्ध्रं विधाय एव। किन्तु तत् रन्ध्रं भित्तौ न भवति । प्रत्युत भवति गणनालेखने । गणनालेखने वञ्चनं कृत्वा गणकाः यथा, तथैव महोद्यमपतयः अपि वञ्चनापूर्णां गणनां प्रस्तूय सामान्यानां धनं मज्जयन्तः दृश्यन्ते एषु दिनेषु ।




लाभो हेतुः धनं साध्यं दृष्टान्तस्तु पुरोहितः ।
आत्मोत्कर्षो निगमनम् अनुमानेष्वयं विधिः ॥ - कलिविडम्बनम्

अनुभवबलात् व्याप्यवस्तुनः यत् ज्ञानं जायेत तत् अवलम्ब्य व्यापकवस्तुनः ज्ञानम् अनुमानम् । शास्त्रचर्चायाम् एषा अनुमानप्रक्रिया बहुधा उपयुज्यते । किन्तु अद्यत्वे दृश्यन्ते सर्वे धनेप्सवः । अतः जनानां लक्ष्यं भवति - कथमपि धनं सम्पादनीयम् इति । धनप्राप्त्या एव सुखादिलाभाः भवन्ति इति चिन्तयन्ति ते । पुरोहितादयः यथा अल्पश्रमेण धनं सम्पादयन्ति तथा करणीयम् अस्माभिः अपि इति तेषां सङ्कल्पः । एवं करणात् एव आत्मनः उत्कर्षः भवेत् इति भावयन्ति ते । एवम् आधुनिके काले हेतुसाध्यदृष्टान्तादीनां स्वरूपं सर्वथा परिवृत्तम् अस्ति ।




अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः ।
विलम्बे विघ्नबाहुल्यं विख्याप्यावाप्यते धनम् ॥

विभिन्नाभिः समस्याभिः ग्रस्ताः जनाः समस्यानां परिहाराय कौशलवताम् अवलम्बनं कुर्वन्ति । ते कौशलवन्तः तु स्वार्थसाधने सुनिपुणाः । आत्मना उक्तस्य उपायस्य आश्रयणेन यदि अविलम्बेन कार्यं सिद्ध्येत् तर्हि ते स्वसामर्थ्यं ख्यापयन्तः कीर्तिम् आसादयन्ति । कार्यसिद्धिं प्राप्तवन्तः तु कृतज्ञताभावेन उपायसूचकाय धनादिकं दद्युः एव । यदि कार्यसिद्धौ विलम्बः स्यात् तर्हि ते उपायसूचकाः वदन्ति - विघ्नाः सन्ति बहवः इति । विघ्ननिवारणव्याजेन तैः प्रभूतं धनं स्वीक्रियते एव । एवं कार्यस्य सिद्धिः असिद्धिः वा तेषां लाभाय एव भवति । प्रायः न्यायवादि-वैद्य-पुरोहित-दैवज्ञ-मान्त्रिकादयः एतादृशाः एव भवन्ति ।




अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् ।
विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥

धनस्य महिमा केन वा न ज्ञायते ? यस्य धनमदः भवति सः स्वस्य योग्यतादिकं विस्मरति । तन्नाम धनं तादृशं विस्मरणं कारयति । विदुषां विषये अनादरताम् अपि कारयति तदेव धनम् । यस्य धनमदः भवति सः चिन्तयति यत् मम शास्त्रज्ञानम् उत्कृष्टम् अस्ति, शास्त्राध्यापन-योग्यता अपि मम अस्ति इति । एवं यस्य हस्ते कानिचन नाणकानि भवेयुः सः किं किं न कुर्यात् ? अहो, धनप्राबल्यविजृम्भणं लोके !

चाटुचणकः(पण्डितः)


विद्वानसाधुशब्दः विस्मृतलिङ्गो नपुंसकप्रकृतिः ।
अविदितसकलसमासः सदस्सु सदा द्वन्द्वमेव जानाति ॥

केचन आत्मानं पण्डितं मन्यन्ते । किन्तु यदा ते विषयस्य उपस्थापनाय उद्युक्ताः भवन्ति तदा न स्मर्यन्ते साधुशब्दाः, विस्मर्यन्ते लिङ्गानि, सर्वे शब्दाः नपुंसकलिङ्गाः इति भ्रान्तिः भवति । (अतः देवालयम्, प्रकोष्ठम् इत्यादीन् प्रयोगान् कुर्वन्ति ते प्रथमाविभक्तौ ।) समासव्यवस्था नितराम् अस्तव्यस्ता भवति । एतादृशे प्रसङ्गे मानसिकद्वन्द्वम् अनुभवन्तः ते यत्किञ्चित् प्रलपन्ति इत्यत्र न किमपि आश्चर्यम् !




नासाथूत्कृतिमिश्रैः मिथ्याकासैः सकण्ठटङ्कारैः ।
पृष्टो विघ्नं कुरुते विस्मृतलट्प्रत्ययोः विद्वान् ॥

विद्वत्सभायां कदाचित् अन्येन पृष्टस्य प्रश्नस्य उत्तरं विस्मृत्यादिवशात् अजानन् विषयोपस्थापकः कष्टम् अनुभवति । विषयस्मरणार्थं बहुधा प्रयत्नं करोति सः । तथापि किमपि न स्मर्यते । तदा स्वस्य असहायकतां गोपयितुं सः नासां पौनः पुन्येन स्पृशन् थूत्कारशब्दं करोति, मिथ्याकासम् उत्पादयति । ध्वनिसमीकरणव्याजेन कण्ठशब्दं करोति । एवं बहुभिः शरीरव्यापारैः सः स्वस्य विस्मृतेः (अज्ञानस्य वा) प्रकाशनं निवारयितुं प्रयतते ।
एषा एव स्थितिः मौखिकपरीक्षासु, कक्ष्यादिषु चापि दृष्टिगोचरतां याति ननु बहुधा ?

चाटुचणकः(पानीयम्)


चीयते चित्तविस्फूर्तिः चीयते कायिकं बलम् ।
चीयते पटुता वाचि तस्माच्चाय इति प्रथा ॥ (-आत्रेयलघुलेखमालातः)
लोके तादृशः प्रायः कोऽपि नास्ति, यश्च 'चाय'पेयं न जानीयात् । एतस्य पेयस्य 'चायः' इति नाम किमर्थम् आगतम् ? कविः वदति – 'एतस्य पानात् स्फूर्तिः चीयते (वर्धते), शरीरबलम् अपि चीयते, वचनपाटवम् अपि चीयते । एवं मनसः कार्यस्य वचसः च शक्तेः चायकस्य एतस्य पेयस्य नाम 'चायः' इति जातम्' इति ।
 न वयं विप्रतिपत्तिं वदामः कवेः नामकरणविषये ।




पयःसत्त्वं कापियूषस्तमः, शर्करिकारजः ।
गुणत्रययुता माया कापि काफीति कथ्यते ॥ - (आत्रेयलघुलेखमालातः)
'काफी'नामकं पेयं मायाशबलितम्, गुणत्रयात्मकं च । तस्य मोहकगुणकारणतः मायामयत्वं कदाचित् अङ्गीक्रियेत । किन्तु त्रिगुणात्मकता कथम् ? कविः वदति - 'पयसः सत्त्वगुणः (श्वेतत्वात्) पूर्णकषायस्य तमोगुणः (कृष्णमयत्वात्) शर्करिकायाः रजोगुणः (चूर्णमयत्वात्) च तस्मिन् अस्ति' इति ।
पेयेऽस्मिन् यद्यपि सात्त्विकता सर्वथा नास्ति, तथापि कविना या युक्तिः दर्शिता तदनुगुणं चिन्तयामः चेत् सत्त्वगुणोपेतत्वम् अपि अङ्गीकरणीयम् एव ।

चाटुचणकः(प्रशंसा)


कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकिता ।
सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिङ्कराः ॥ - कलिविडम्बनम्
भीरुता, अविनीतता, कृपणता, अविवेकिता इत्यादयः बहवः दुर्गुणाः येषु भवेयुः तान् अपि कवयः स्तुवन्ति - एषः गुणानां खनी’ ‘गुणवत्सु अग्रेसरः’ ‘अनन्तगुणसम्पन्नः’ ‘गुणिगणचूडामणिःइत्यादिभिः शब्दैः । किमर्थम् एवं क्रियते तैः ? यतः ते मुष्टिमितस्य धान्यस्य, केषाञ्चित् नाणकानां च दासाः भवन्ति । धनादीनां दासत्वम् आपन्नाः अगुणम् अपि महागुणत्वेन स्तुवन्ति इत्यत्र नास्ति आश्चर्यम् । काकणिकानां प्रभावः एव तादृशः !!




वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनाः ।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ - कलिविडम्बनम्

केचन प्रतिभावन्तः सन्तोऽपि कस्यचित् अधमस्य स्तुत्या एव कालं यापयन्ति । राजनीतौ स्थितं, मठाधीशत्वम् आप्तवन्तम्, अधिकारिपदे विराजमानं वा कञ्चित् अधमं स्तुवन्तः कालं यापयन्ति बहवः प्रतिभावन्तः । अस्थाने प्रतिभा विनियुज्यते तैः । तादृशान् दृष्ट्वा कविः वदति - ‘‘कामधेनुं प्राप्य एते तां कर्षणकार्ये विनियुञ्जतेइति । कर्षणकार्ये कामधेन्वाः योजकानां बुद्धिः हतप्रभा जाता अस्ति इति किं पुनर्वक्तव्यम् ?




वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुः ।
अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥

मम वासः अमुके पुण्यक्षेत्रे..., महापण्डितः अमुकः विद्वान् एव मम गुरुः आसीत्..., प्रसिद्धाः अमुकजनाः मया पाठिताः... - एतादृशानि आत्मख्यापनवचनानि ये वदन्ति ते धनसम्पादने विशेषक्लेशं न अनुभवन्ति ।




स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले ।
न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥

ये स्वभावेन मूर्खाः भवन्ति तेषां स्तोतारः न भवन्ति । परेण क्रियमाणायाः स्तुतेः श्रवणं विना तृप्तिः सुखसन्तोषादयः वा न भवन्ति । अतः एव मूर्खः स्वयम् आत्मानं स्तौति । यदि एवं न क्रियेत तर्हि तस्य मनश्शान्तिः एव न भवेत् खलु ?




उष्ट्रकस्य विवाहे तु गीतं गायन्ति गर्दभाः ।
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥

उष्ट्रस्य रूपसौन्दर्यं सर्वैः ज्ञातम् एव । तादृशस्य कस्यचित् उष्ट्रस्य विवाहावसरे गर्दभाः गायकत्वेन गताः आसन् । गर्दभानां कण्ठस्वरस्य माधुर्यं पुनर्वक्तव्यं नास्ति खलु ? विवाहमण्डपे गायकाः गर्दभाः उष्ट्रम् अङ्गुल्या निर्दिशन्तः प्रशंसां कृतवन्तः – 'अहो रुपम् उष्ट्रवरस्य' इति । उष्ट्रः अपि गर्दभानां प्रशंसाम् अकरोत्
- 'एतेषाम् अहो कण्ठमाधुर्यम्' इति ।
लोके अपि असमर्थयोः एतादृशी परस्परप्रशंसा क्वचित् दृश्यते एव खलु !

चाटुचणकः(प्रसिद्धिः)


घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥

तार्किकाः सदापि 'घटः' 'पटः' 'रासभः' - इत्यादीन् शब्दान् एव उच्चारयन्तः भवन्ति उदाहरणावसरे । अतः कश्चित् तान् उपहसन् वदति - 'घटः भेत्तव्यः, पटः छेत्तव्यः, रासभः आरोढव्यः वा । केनचित् उपायेन प्रसिद्धिप्राप्तिः चिन्तनीया' इति ।
अद्य जनाः एतदेव कुर्वन्तः दृश्यन्ते । प्रसिद्धिप्राप्त्यर्थं विलक्षणान् अर्थहीनान् उपायान् आश्रयन्तोऽपि ते न लज्जन्ते ।




त्रिविक्रमोऽभूदपि वामनोऽसौ स सूकरश्चाटपि स वै नृसिंहः ।
नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥

'येन केन प्रकारेण प्रसिद्धपुरुषो भव' इति तु अद्यतनः मन्त्रः । प्रसिद्धिप्राप्तिकाले धनसम्पादनकाले च न्याय्यान्यायस्य चिन्ता उचितानुचितविवेचनं वा न क्रियते अद्य । एतत् अनुचितं न इति वदति कश्चन चाटुश्लोचककारः । सः भगवन्तं महाविष्णुं दर्शयन् वदति - 'विष्णुः इष्टसाधनार्थं क्वचित् त्रिविक्रमः जातः, पुनरन्यदा वामनः । वराहावतारः तेन आश्रितः, मत्स्यकूर्माद्यवताराः अपि अवलम्बिताः । नृसिंहः अपि जातः सः । एवं केनचित् प्रकारेण तेन इष्टं साधितम् । इष्टसाधनकाले उपायस्य नीचानीचता मनसि न स्थापनीया' इति । कालोचितः खलु अस्ति अयं मन्त्रः !!

चाटुचणकः(ब्रह्मा)


गन्धं सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु ।
विद्वान् धनाढ्यो नृपतिश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥

ब्रह्मा उत्तमवर्णयुक्तम् अमूल्यं सुवर्णं सृष्टवान् । किन्तु तत्र सः गन्धं न योजितवान् । माधुर्ययुक्तम् इक्षुदण्डं सृष्टवान् सः तस्मिन् फलदानसामर्थ्यं न योजितवान् एव । सुगन्धयुक्तं चन्दनवृक्षं सृष्टवान् सः चन्दनवृक्षेषु पुष्पयोजनं विस्मृतवान् । पण्डितान् सृष्टवान् सः तेभ्यः धनानुकूल्यं न कल्पितवान् । सकलभोगसाधनानि राज्ञे दत्तवान् सः दीर्घायुष्यं न दत्तवान् एव । एवं सृष्टिकर्ता बहून् प्रमादान् कृतवान् । सृष्टिकाले योग्यः मार्गदर्शी कोऽपि ब्रह्मणः पार्श्वे न आसीत् यत् तस्यैव फलम् एतत् !





का नाम बुद्धिहीनस्य विधेरस्य विदग्धता ।
कूष्माण्डेषु न यश्चक्रे तैलमूर्णं च दन्तिषु ॥

ब्रह्मा सृष्टिकर्ता । किन्तु तस्य विवेकः न्यूनः इति भाति कदाचित् । सः तैलांशम् अल्पाकारेषु तिलेषु निक्षिप्तवान् । यदि सः एव तैलांशः तेन कूष्माण्डेषु निक्षिप्तः स्यात् तर्हि, अहो, कियत् तैलं प्राप्तम् अभविष्यत् ! महाकारकः गजः सृष्टः अस्ति तेन । किन्तु ऊर्णं तेन स्थापितं मेषेषु । यदि गजः ऊर्णवत्त्वेन सृष्टः स्यात् तर्हि महान् लाभः खलु अभविष्यत् ?




अजागलस्थं स्तनमुष्ट्रपुच्छम् अण्डद्वयं वाजिगले च केशान् ।
वृथासृजत् साहिणिमारभूपं पूजां न लेभे भुवि पद्मयोनिः ॥

लोके त्रिमूर्तिषु अन्यतमस्य ब्रह्मदेवस्य पूजा नास्ति । तत्र कारणं स्यात् किमपि पौराणिकम् । किन्तु कविः कश्चन वदति - ‘‘अजागलस्तनौ, उष्ट्रपुच्छम्, अण्डद्वयम्, अश्वकण्ठे केशाः, साहिणिमारनामकः राजा इत्यादीन् प्रयोजनरहितान् ब्रह्मा सृष्टवान् । अतः एव कुपिताः जनाः ब्रह्मणः पूजां त्यक्तवन्तः’’ इति । निष्प्रयोजकानि कार्याणि कुर्वति जने अनादरः खलु सहजः ?

चाटुचणकः(लोकव्यवहारः)


सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् ।
सर्वं ब्रह्मेतिवादश्च सद्यः प्रत्ययहेतवः ॥

सदा हस्तेन जपमालिका धर्तव्या । मध्ये मध्ये नेत्रनिमीलनं कृत्वा ध्यानाभिनयः करणीयः । 'सर्वं खल्विदं ब्रह्म' 'सर्वं ब्रह्ममयम्' 'अहं ब्रह्मास्मि' इत्यादीनि महावाक्यानि पौनःपुन्येन वक्तव्यानि । एतादृशाः व्यवहाराः यस्मिन् भवन्ति तस्मिन् जनाः अवश्यं विश्वासं प्राप्नुवन्ति । जनानां विश्वासः प्राप्तः चेत् जीवने न भविष्यति कापि चिन्ता । एवं ननु ?




बालो विद्याव्यसनी तारुण्ये भोगमनर्गलो भुङ्क्ते ।
जिह्वाचपलो वृद्धः नैकत्र निर्वृतिसुखं लभते ॥ - (आत्रेयलेखमालातः)

मानवजीवनं लालसामयम् । तृष्णाबहुलम् । तस्मात् एव जीवने असन्तृप्तिः, असन्तोषः च । आ बाल्यात् अपि एषा एव प्रवृत्तिः । बाल्ये विद्यायां व्यसनम् । तत्रापि असन्तृप्तिः । तावता तारुण्यं प्राप्यते । तारुण्ये भोगेच्छा जागर्ति । तत्रापि तृप्तिप्राप्तितः पूर्वम् एव वार्धक्यप्राप्तिः । वार्धके च जिह्वाचापलं बाधते । वार्धक्यस्य अन्ते का स्थितिः इति वयं जानीमः एव । एवं मानवः आजीवनम् अतृप्तिमयम् एव जीवनं यापयति । निर्वृतिविषये चिन्तनं तु कदापि न भवति तस्य ।




मित्रास्मिन् नगरे महान् कथय कः तालद्रुमाणां गणः
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि ।
को दक्षः परवित्तदारहरणे सर्वेऽपि दक्षाः स्वयम्
कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥

कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् - 'मित्र ! अस्मिन् ग्रामे महान् कः अस्ति ?'
ग्रामीणः अवदत् - 'महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव' इति ।
'दाता कः अस्ति ?' - यात्रिकः अपृच्छत् ।
'रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति' इति अवदत् ग्रामीणः ।
'अत्र दक्षः कः ?' - यात्रिकः अपृच्छत् ।
'अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव' - इति ग्रामीणः अवदत् ।
'एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता ?' इति अपृच्छत् यात्रिकः ।
'विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि' इति विषादेन उक्तवान् ग्रामीणः ।





टीका विरुद्धा मूलस्य गौरवं वहति प्रथाम् ।
स टीकार्थो यदि पृथक् ग्रन्थे कर्षति नो दृशम् ॥ - आत्रेयलघुलेखमाला

केनचित् शास्त्रकारेण यः मूलग्रन्थः लिख्येत तं विरुध्य यदि कश्चित् टीकां लिखेत् तर्हि सः महतीं प्रसिद्धिम् आप्नुयात् । सः एव मूलकारस्य आशयं विवृण्वन् महाकारकं टीकाग्रन्थं यदि लिखेत् तर्हि अपि सः प्रसिद्धिं न प्राप्नुयात् । अल्पः अपि विरोधः प्रसिद्धये स्यात् । महान् अपि समर्थनप्रयासः अनादराय स्यात् । एषो हि लोकः !!




आनन्दबाष्परोमाञ्चाः यस्य स्वेच्छावशंवदाः ।
किं तस्य साधनैरन्यैः किङ्कराः सर्वपार्थिवाः ॥

इच्छानुगुणं यः आनन्दं बाष्पं रोमाञ्चं च प्रदर्शियितुं शक्नोति सः, भूमिपतीन् धनिकान् अधिकारिणः वा वशीकर्तुम् अन्यत् साधनं न अपेक्षते । पुरतः स्थितस्य मनः प्रसन्नं यथा स्यात् तथा आचरन्तः बहवः अद्यापि स्वस्य इष्टं साधयन्ति एव । इष्टसाधनम्
एव यस्य उद्देशः, सः किं किं न कुर्यात् ?




मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम् ।
भ्रुकुटिश्चान्यवार्ता च नकारः षड्विधः स्मृतः ॥

कश्चित् धनं साहाय्यं वा यदा याचते परिश्रमकार्यं सदा सूच्यते, असम्मतं किमपि वा यदा उच्यते तदा निराकृतिः दर्शनीया भवति । प्रत्यक्षतया निराकृतिदर्शनं कदाचित् अप्रियतायै अगौरवाय च भवति । एतादृशेषु प्रसङ्गेषु निषेधप्रदर्शनाय अत्र सन्ति षड् उपायाः । मौनस्य अवलम्बनं, 'श्वः पश्याम' इति कथनं, ततः उत्थाय गमनं, मुखम् अधः कृत्वा उपवेशनं, भ्रुवोः वक्रतासम्पादनम्, अन्यस्य विषयस्य उपस्थापनम् इत्येते एव ते षड् उपायाः ।




लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् ।
दायादाः सम्प्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥

चिरकालानन्तरं रोगी यदि प्राप्येत तर्हि वैद्याः ततः प्रभूतं धनं स्वीकर्तुम् उपायान् चिन्तयन्ति । व्याधिग्रस्ततां वदन्तः महाव्ययसाध्यां चिकित्सां वदन्ति ते । एतस्य दर्शनात् असूयावन्तः दायादाः सन्तुष्टाः भवन्ति सहजतया एव । दैवज्ञमान्त्रिकादयः अपि सन्तुष्टाः भवन्ति - इतः परम् अयम् अचिरात् एव अस्मत्समीपम् आगच्छन् अस्मदीयायाः आयवृद्धेः कारणं भविष्यति इति ।




अद्याष्टमीति नवमीति चतुर्दशीति ज्योतिष्यवाचोपवसन्ति भक्त्या ।
अहो, श्रुतेस्तत्त्वमसीति वाक्यं न विश्वसन्तीत्यद्भुतमेतदेव ॥

'अद्य अष्टमी, अतः भोजनं न क्रियते' 'अद्य नवमी, अतः मम उपवासः' 'चतुर्दशीकारणतः उपवासः क्रियते मया' इत्यादीनि वचनानि बहुधा श्रूयन्ते लोके । तादृशेषु दिनेषु उपवासस्य आचरणात् पुण्यम् इति ज्योतिषिकैः यत् उक्तं तत्र विश्वसन्तः जनाः एवं व्यवहरन्ति । किन्तु, 'तत्त्वमसि'प्रभृतिषु वाक्येषु जनाः विश्वासं न कुर्वन्ति । बाह्याचरणे अधिकश्रद्धा, तत्त्वे अश्रद्धा च लोकस्य स्वभावः भवति प्रायः ।




मृता मोहमयी माता जातो ज्ञानमयः सुतः ।
आशौचं वर्तते नित्यं कथं सन्दयामुपास्महे ॥

कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् - 'किं भवान् सन्ध्यावन्दनं न करोति ?' इति ।
'मम आशौचम्' इति अवदत् सः वटुः ।
'भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?' इति अपृच्छत् मित्रम् ।
'अथ किम् ? प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया' इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?

चाटुचणकः(वस्त्रम्)


अयं पटो मे पितुरङ्गभूषणं
पितामहाद्यैरुपभुक्तयौवनम् ।
अलङ्करिष्यत्यथ पुत्रपौत्रकान्
अतो मया पुष्पवदेव धार्यते ॥

कस्यचन निर्धनस्य समीपे एकं प्राचीनं जीर्णं च वस्त्रम् आसीत् । तस्य धारणसमये सः विशेषजागरूकतां वहति स्म । 'एतस्य कारणं किम् ?' इति पृष्टः सः वदति-
'एतत् वस्त्रं मम पिता धरति स्म । यदा एतत् नूतनम् आसीत् तदा एतत् पितामहप्रपितामहादयः धरन्ति स्म । एतत् एव मम पुत्रपौत्रदयः अपि धरिष्यन्ति । अतः एव वस्त्रस्य कापि क्षतिः यथा न स्यात् तथा विशेषजागरूकतया पुस्पवत् धरामि'




आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं विभुम् ॥

कश्चन दरिद्रः स्वसमीपे स्थितं वस्त्रं वर्णयति – 'एतस्य वस्त्रस्य आदिः मध्यम् अन्तं च नास्ति । दशा अपि नास्ति । पुरातनम् अपि एतत् । एतादृशम् अन्यत् नास्ति एव'
दरिद्रः अपि सः कविः चतुरः । सः वदति – 'देवः अपि मद्वस्त्रसदृशः अस्ति' इति । कथं देवः जीर्णवस्त्रसदृशः भवेत् इति ? देवस्य आदिमध्यान्तादयः यथा न सन्ति तथैव एतस्य वस्त्रस्यापि । देवः दशाहीनः (बाल्यादिदशाः तस्य न सन्ति ) वस्त्रम् अपि दशाहीनम् । देवः पुरातनः । वस्त्रम् अपि तथैव । देवः अद्वितीयः । वस्त्रम् अपि तादृशम् एव । एवं च सिद्धं खलु जीर्णवस्त्रभगवतोः सादृश्यम् !!

चाटुचणकः(वादः)


न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः ।
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥

सभायां वादप्रतिवादसमये क्वचित् अस्माकम् अपजयः यदा सन्निहितः भवेत्, मदीयः पक्षः दुर्बलः इति भावः यदा अन्तरङ्गे उत्पद्येत तदा मनसि प्रश्नः उद्भवेत् - इदानीं किं करणीयम् ? इति । कश्चन कविः तत्र मार्गम् उपदिशति - ‘‘तादृशे प्रसङ्गे न भेतव्यम् इति तु प्रथमः अंशः । अपरः अंशः - झटिति उच्चस्वरेण प्रतिवक्तव्यम्इति । प्रतिवचनसमये वादिनः कथनस्य अवगमने श्रवणे वा अवधातव्यं नास्ति । यस्य स्वरः उच्चः, यस्य कथनम् अप्रतिहतं तस्य एव जयः’’ इति । एतादृशम् उत्कृष्टम् उपायं ज्ञापितवते तस्मै कवये नमस्कारान् समर्पयेम खलु वयम् ?




उच्चैरुद्घोष्य जेतव्यं माध्यस्थश्चेदपण्डितः ।
'पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥

वादभाषणस्पर्धादिषु भागं वहता जनेन आदौ अवगन्तव्यं यत् निर्णायकः कीदृशः इति । यदि सः विद्वान् न स्यात् तर्हि अटाटोपादिसहिततया वादः उपस्थापनीयः । तेन प्रभावितः सः निर्णायकः अस्मदानुकूल्येन निर्णयं श्रावयेत् । यदि सः विद्वान् स्यात् तर्हि तस्मिन् पक्षपातप्रवृत्तिः आरोपणीया । वैदुष्येण जयप्राप्तिः एकविधा । तन्त्रकुतन्त्रादिभिः जयप्राप्तिः अन्यविधा । अद्य लोके द्वितीयस्यैव प्रकारस्य अवलम्बनं दृश्यते आधिक्येन ।

चाटुचणकः(विडम्बना)


जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु ।
रोगतत्त्वेषु शनकैर्व्युत्पद्यन्ते चिकित्सकाः ॥

कश्चन रोगः आकस्मिकतया सर्वत्र प्रसरन् जनेषु भीतिं जनयति । सर्वत्र रोगप्रसरः दृश्यते । जनानां मरणम् अपि आधिक्येन दृश्यते । एतस्य रोगस्य चिकित्सा कीदृशी भवेत् इति अजानन्तः वैद्याः अपि दिग्भ्रान्ताः भवन्ति । विविधेभ्यः जनेभ्यः विविधानाम् औषधानां दानेन गच्छता कालेन वैद्याः अवगच्छन्ति यत् एतस्य रोगस्य निवारणाय एतादृशी चिकित्सा समुचिता स्यात् इति । एवं रोगिणां मरणे वेगेन जायमाने, चिकित्सकेषु व्युत्पत्तिः रोगतत्त्वज्ञानं च मन्दम् उत्पद्यते । अहो विडम्बना एषा ।




ज्ञानवृद्धास्तपोवृद्धाः वयोवृद्धाश्च ये नराः ।
सर्वे च धनवृद्धस्य द्वारि तिष्ठन्ति वारिताः ॥

ज्ञानवृद्धाः, वयोवृद्धाः, तपोवृद्धाः इत्यादयः लोके आदरपात्रभूताः भवन्ति । जनाः तेषु महतीं श्रद्धां वहन्ति । किन्तु खेदस्य विषयः नाम ते ज्ञानवृद्धादयः सर्वे धनवृद्धस्य (धनिकस्य) गृहस्य पुरतः दैन्येन तिष्ठन्ति !! तेषां प्रवेशः तत्र निवारितः भवति अपि । लोके दृश्यमाना महती विडम्बना खलु एषा !!

चाटुचणकः(विष्णु:)


अवतारत्रयं दृष्ट्वा मानवै: कवलीकृतम् ।
ततस्तु भगवान् साक्षात् नारसिंहं वपुर्दधौ ॥

भगवान् विष्णु: नरसिंहावतारं किमर्थं प्राप्तवान् ? हिरण्यकशिपो: वधार्थम् इति वदेयु: भवन्त: । किन्तु कश्चन चाटुश्लोककार: एतत् वचनं न अङ्गकिरोति । स: वदति -
भगवता विष्णुना मत्स्यरूपेण, कूर्मरूपेण, वराहरूपेण च भूमौ अवतार: कृत: । किन्तु तान् आहाररूपेण उपयोक्तुं मानवा: यदा उद्युक्ता: तदा तान् दृष्ट्वा क्रुद्ध: भगवान् उग्रं नरसिंहं रूपं धृतवान् । एवम् अवताररूपस्य जीविन: खादनपरम्परा मानवै: या आरब्धा तां भङ्क्तुं भगवान् नरसिंहरूपेण अवतारं प्राप्तवान् इति । स्यात् खलु एवम् अपि ?




कोऽयं द्वारि हरि: प्रयाह्युपवनं शाखामृगस्यात्र किम् ?
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।
राधेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरि: पातु व: ॥

कदाचित् कुत्रापि गत: विष्णु: गृहम् आगत्य द्वारशब्दं कृतवान् । तदा राधा अन्तर्भागत: अपृच्छत् - क: भवान् ?’ इति । विष्णुना उक्तम् - अहमस्मि हरि:इति । हरिशब्दस्य सिंह: इत्यपि अर्थ: । अत: तम् अर्थं मनसि निधाय सा वदति - सिंह: वनं गच्छेत् । तस्य नात्र किमपि कार्यम्इति । अहं कृष्ण: अस्मिइति पुनर्वदति विष्णु: । कृष्णपदस्य कृष्णमुख: वानर: इत्यर्थं परिकल्प्य राधा अवदत् - कृष्णमुखात् वानरात् भीति: मम । अत: इत: निर्गच्छइति । अहं मधुसूदन: अस्मिइति विष्णुना पुन: उक्तम् । मधुशब्दस्य लतार्थं मन्वाना सा तां पुष्पयुतां लतां प्रति एव गच्छइति अवदत् । एवं युक्तियुक्तेन वचनेन पत्न्या य: मूकीकृत: स: हरि: युष्मान् रक्षतु ।

चाटुचणकः(वैद्यः)


गृध्री गृध्रं पृच्छति पितृवनमध्ये न दृश्यते धूम: ।
मन्ये सम्प्रति वैद्योऽप्यन्यग्रामं गतो नूनम् ॥

काचित् गृध्री गृध्रं पृच्छति - 'अद्य श्मशानभूमौ धूमोद्गम: एव न दृश्यते किमर्थम् ?' इति । तदा गृध्र: वदति - 'अद्य वैद्य: ग्रामान्तरं गतवान् स्यात् । तस्मात् ग्रामे कस्यापि मरणं न जातम् । अत: अद्य श्मशाने न धूम:' इति । एतदर्थकानि एतादृशानि वा पद्यानि बहूति दृश्यन्ते संस्कृतक्षेत्रे । प्राय: कवय: वैद्यान् बहुधा निन्दन्त: अपि न तृप्यन्ति । अत्र दोष: कवीनाम् उत वैद्यानाम् इति न विद्म: वयम् ।




मूर्धानं प्रथमं विधूय तदनु ध्यात्वा चिरं मौनवान् आहारं प्रथमं निरुध्य रुचिरानन्यान् विशेषानपि ॥
क्वाथै: कर्शितकायमातुरनरं तैलं घृतं पाचयन् हृत्वा दक्षिणया वसु व्यसुममुं त्यक्त्वा भिषग् धावति ॥

रोगिण: परीक्षायै आगत: वैद्य: आदौ दीर्घकालं परीक्षते । तत: शिरस: इतस्तत: चालनेन रोगिण: अस्वास्थ्याधिक्यं ज्ञापयति । तत: दीर्घकालिकेन मौनेन रोगिणि उद्वेगं जनयति । पथ्यव्याजेन रुचिमयानाम् आहाराणां, मधुरखाद्यादीनां च सेवनस्य निषेधं कृत्वा तिक्तानि औषधानि सेवनीयानि इति आदिशति । जुगुप्सावहानां तैलघृतादीनां सेवनं कारयति । एवं सर्वं कृत्वा रोगिणं बहुधा सम्पीड्य शुल्कत्वेन प्रभूतं धनं स्वीकृत्य रोगिणं च मरणावस्थां प्रापय्य वैद्य: तत: धावति । एतत्सर्वं जानद्भि: अपि जनै: रोगकाले वैद्या: सेवनीया: एव भवन्ति अनन्यगतिकतया । अहो ! पराधीनता मानवानाम् !




वैद्योऽहं व्याधिवर्गाणाम् आश्रयोऽस्म्यपयशोनिधि: ।
मया चिकित्सितस्सद्यो मार्कण्डेयोऽपि स्यान्मृत: ॥

कश्चन वैद्य: वदति - ‘‘अहमस्मि वैद्य: । सर्वेषां व्याधिप्रकाराणाम् आश्रय: अस्मि अहमेव । अपकीर्ति: मम निधि: । यदि मार्कण्डेयोऽपि चिकित्सार्थं मत्समीपम् आगच्छेत् तर्हि तस्यापि मरणं निश्चितम्’’ इति । परमेश्वरभक्तस्य मार्कण्डेयस्य प्राणानाम् अपहरणं कर्तुं यमोऽपि असमर्थ: । परं वैद्य: तस्यापि प्राणान् हरिष्यति निश्चयेन । अत: वैद्यस्य श्रेष्ठता (क्रूरता ?) तु अङ्गीकरणीया एव खलु भवति ?




आतुराद्वित्तहरणं मृताच्च प्रपलायनम् ।
एतद्वैद्यस्य वैद्यत्वं न वैद्य: प्रभुरायुष: ॥

वैद्यशास्त्रस्य सिद्धान्त: यत् वैद्यशास्त्रवेत्ता चिकित्सया जनसेवां कुर्यात् इति । किन्तु बहव: वैद्या: तां वृत्तिम् आश्रयन्ति धनाशया । अत: कश्चन चाटुश्लोककार: वदति - 'रोगिभ्य: अधिकधनस्य स्वीकारे वैद्या: भवन्ति निपुणा: । रोगिण: मरणे उपस्थिते मौनेन पलायन्ते ते । आयुष: दाने रक्षणे वा न भवति तेषां सामर्थ्यम् आसक्ति: वा' इति ।
अद्यतनवैद्यानां व्यवहारस्य दर्शनात् भाति यत् चाटुश्लोके उक्ते अंशे उत्प्रेक्षा नास्ति इति । एवं ननु ?




अज्ञातशास्त्रसद्भाषान् शास्त्रमात्रपरायणान् ।
त्यजेद्दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव ॥

केचन वैद्या: वैद्यशास्त्रीयान् विषयान् तु अधीतवन्त: भवन्ति, किन्तु शास्त्रसारं न जानन्ति, अनुभवजन्यं ज्ञानं न अर्जयन्ति वा । तादृशानां चिकित्सा बहुत्र यमपाशायेत, तन्नाम सा यमलोकं प्रापयेत् । (अद्य तु तादृशा: वैद्या: बहव: दृश्यन्ते !) अत: ते दूरात् एव परित्याज्या: । वैद्यवृत्त्यवलम्बनाय अर्हा: न ते ।




प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे ।
बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सका: ॥

वैद्य: यदि द्रष्टव्य: तर्हि आदौ पञ्जीकरणशुल्कं (ख्रठडड्ढथदज्ञञदड्ढतत् इठठ) दातव्यम् । वैद्य: परीक्ष्य परीक्षणानि कारणीयानिइति आदिशति । तदर्थं पुन: व्यय: करणीय: । चिकित्सानिमित्तम् अन्ते वैद्यस्य ड्ढण्ण् अस्मत्पुरत: उपस्थितं भवति । एषा अद्यतनी स्थिति: न । पूर्वमपि एवमेव आसीत् । अत: कश्चन कवि: वदति - चिकित्साया: आरम्भे शुल्कं देयम् । तत: औषधनिमित्तं धनं देयम् । अन्ते बहुमानरूपेण धनं देयम् । एवं त्रिषु अपि स्तरेषु (आरम्भे मध्ये अन्ते च) धनम् आहर्तुम् इच्छन्ति वैद्या:इति । धनदानात् ऋते का वा गति: स्यात् रोगिण: ?




भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् ।
आरोग्यं दैवमाहात्म्यात् अन्यथात्वमपश्यत: ॥

यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । ('मम चिकित्साप्रभावत: एव भवत: स्वास्थ्यलाभ: जात:' इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि 'अपथ्यकारणत: एवं जातम्' इति वक्तुं शक्यते एव ।




वैद्यानां शारदी माता पिता च कुसुमाकर: ।
यमदंष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपु: ॥

शरत्काले रोगाणां वृद्धि: सहजा । अत: ताम् ऋतुं वैद्या: मातरं मन्यन्ते । वसन्तकाले आमोदप्रमोदादय: अधिका: । तत्कारणत: व्याधय: वर्धन्ते । अत: वसन्तं ते पितरं मन्यन्ते । यम: दंष्ट्राभि: यान् दशति तेषां विपत्ति: निश्चिता । अत: यमदंष्ट्रा तेषां स्वसा भवति । ये हिताहारसेविन: मिताहारसेविन: च भवन्ति ते सर्वदा स्वस्था: एव भवन्त: वैद्यं न पश्यन्ति । अत: ते वैद्यस्य शत्रव:इति वदति कश्चन चाटुकार: ।




दृष्टे रवौ सरसिजं कुमुदं हिमांशौ नीलम्बुवाहनिबिडे गगने शिखी च ।
प्रायस्तथा न हि भजन्ति विकासलक्ष्मीं व्याधौ यथा धनवतां भिषजां मुखानि ॥

सूर्य: दृष्ट: चेत् कमलिन्या: मुखं विकसितं भवति । चन्द्र: दृष्ट: चेत् कुमुदिन्या: मुखं सुविशालं भवति आनन्दातिशयात् । आकाशे मेघा: दृष्टा: चेत् मयूर: विकसितान्तरङ्ग: भवति । एतै: त्रिभि: यावान् आनन्द: प्राप्येत ततोऽपि अधिक: आनन्द: वैद्येन प्राप्येत, यदा महाधनिक: कश्चित् अस्वस्थ: सन् चिकित्सालयद्वारे उपस्थित: भवेत् ।




चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयतां गतः ।
नाहं गतो न मे भ्राता कस्यैदं हस्तलाघवम् ॥

कश्चन वैद्यः ग्रामान्तरं गत्वा प्रत्यागच्छन् मार्गपार्श्वे एकां चितां दृष्टवान् । तत् दृष्टवतः तस्य महत् आश्चर्य जातम् । सः वदति- 'एतस्य गृहं प्रति अहं तु न गतः । मम सहोदरः अपि न गतः । अतः एतस्य अकालिकं मरणं भवितुं न अर्हति । तथापि एषः अकाले मृतः ? एवं तर्हि कः एतत् साहसकृत्यं कृतवान् स्यात्' ? इति ।




वैद्यनाथ नमस्तुभ्यं क्षपिताशेषमानव ।
त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते ॥

जनानां प्राणहरणं यमस्य कर्तव्यं खलु ? किन्तु यमः इदानीं तत् अतिकष्टकरं भारं वहन् नास्ति, प्रत्युत सुखेन कालं यापयन् अस्ति । यदि लोके मरणम् एव न भवेत् तर्हि लोकयात्रा कथं प्रचलेत् इति आशङ्कायाः तु न अवसरः । यतः जनानां प्राणानाम् अपहरणं तु निरन्तरं कुर्वन् अस्ति वैद्यः । अतः एव यमस्य कार्यं नास्ति । तदर्थं सः सुखेन शेते !




वैद्यराज नमस्तुभ्यम्
यमराजसहोदर !
यमस्तु हरति प्राणान्
वैद्यः प्राणान् धनानि च ॥

वैद्यकीयवृत्त्या धनम् अपहरन्तं कञ्चित् वैद्यम् उद्दिश्य वदन् कश्चित् द्वरात् एव नमस्करोति- भोः वैद्यराज ! भवते नमस्काराः । भवान् यमराजस्य सहोदरः एव अस्ति । अथवा यमराजात् अपि भवान् एव श्रेष्ठः स्यात् । यतः यमः प्राणमात्रं हरति । वैद्यः भवान् तु जनानां प्राणान् तु हरति एव । तेनैव सह तेषां धनस्य अपि अपहरणं करोतिइति ।
एतादृशाः धनापहारकाः वैद्याः अद्यापि केचन दृश्यन्ते खलु लोके ?




नातिधैर्यं प्रदातव्यं नातिभीतिं च रोगिणे ।
नैश्चिन्त्यात्रादिमे दानं नैराश्यादेव नान्तिमे ॥

वैद्यस्य कृते कश्चन व्यवहारसाध्यः उत्तमः हितोपदेशः अत्र अस्ति
रोगिणम् उद्दिश्य अति धैर्यवचनानि न वक्तव्यानि । यदि तथा उच्येत तर्हि सः वैद्यसमीपम् आगमनम् एव परित्यजेत् । ततः वैद्यस्य आये न्यूनता स्यात् । अति भीतिः अपि रोगिणि न जनयितव्या । यतः अति भीतिः जनिता चेत्, नैराश्यं प्राप्य रोगी चिकित्साम् एव परित्यजेत् । तदा अपि वैद्यस्य हानिः एव खलु ?




रोगस्योपक्रमे सान्त्वं मध्ये किञ्चिद्धनव्यय: ।
शनैरनादर: शान्तौ स्नातो वैद्यं न पश्यति ॥

वैद्या: धनापहरणैकचित्ता: इति सर्वदा निन्दावचनं श्रूयते । किन्तु रोगिणां व्यवहारविषये अधिकं विवरणं न श्रूयते । अत्रास्ति तादृशं विवरणम् । यदा रोगस्य बाधाया: आरम्भ: भवेत् तदा रोगिण: वैद्यस्य पुरत: महान्तमेव विनयं दर्शयन्त: मधुरै: वचनै: व्यवहरन्ति । मध्ये वैद्याय किञ्चित् धनमपि यच्छन्ति । यदा रोगस्य उपशमनं भवेत् तदा तै: वैद्ये अनादर: दर्श्यते । पूर्णत: स्वस्थता यदा स्यात् तदा तु वैद्यस्य नाम अपि न स्मर्यते ।




कृषीवलानां भुवि कालवर्षात् अकालवर्षात् भिषजां प्रमोद: ।
यत्सस्यवृद्धिं कुरुते च पूर्वं प्रजासु रोगप्रचयं द्वितीयम् ॥

काले वृष्टि: यदि भवेत् तर्हि सर्वे कृषीवला: सन्तुष्टा: भवेयु: । अकालवृष्टि न इच्छन्ति ते । यत: अकालवृष्टि: सस्यवृद्धिं नाशयति । किन्तु अकालवृष्टि: भवतुइति इच्छां प्रकटयन्त: अपि भवन्ति केचन । ते सन्ति - वैद्या: । यत: अकालवृष्टि: रोगाणां वृद्धे: कारणम् । रोगेषु प्रवृद्धेषु एव खलु वैद्यानाम् आय: वर्धेत ?

चाटुचणकः(शिक्षणम्)


गुरोर्गिरः पञ्चदिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।
अमी समाघ्राय च तर्कशास्त्रं समागताः कुक्कुटामिश्रपादाः ॥

आत्मानं पण्डितं मन्यमानः कश्चन आत्मानं वेषभूषादिभिः अलङ्कृत्य सभां प्रविष्टवान् । तं दूरात् एव दृष्ट्वा कश्चित् अन्यम् अवदत् - ‘‘अहो ! एतस्य पाण्डित्यम् ! एषः गुरोः सकाशात् पञ्च दिनानि यावत् विद्याभ्यासं कृतवान् । दिनत्रयं वेदान्तशास्त्रम् अपि अधीतम् एतेन । तर्कशास्त्रस्य आघ्राणनम् अपि एतेन कृतम् अस्ति । तादृशः महाविद्वान्कुक्कुटमिश्रः एषः उपस्थितः’’ इति ।
अध्ययनकालः एव तदीयं पाण्डित्यंकिं न ज्ञापयति ?




मातस्त्रयोदशि शुभे कुलरक्षिणी त्वं
मत्कान्तसङ्गसुविधायिनि सर्वसिद्धे ।
भूयास्त्वमेव दश पञ्च च वासराणि
मा भूत्कदाचिदपि पापतिथिर्द्वितीया ॥

पारम्परिकाध्ययनक्रमे अनध्ययनानि (विरामदिनानि) त्रयोदशीतः प्रतिपत्पर्यन्तं भवन्ति । (शनिभानुवासरयोः न) कश्चन छात्रः विवाहानन्तरम् अपि पारम्परिकविद्यालये अध्ययनं कुर्वन् अस्ति । सः वदति - 'हे त्रयोदशि ! भवती सर्वसिद्धिकरी अस्ति । भवत्याः आगमनस्य अनन्तरं विरामस्य आरम्भः इत्यतः भवती एव भवेत् समग्रे पक्षे अपि । विरामदिनेषु एव पत्न्याः सङ्गमः सम्भवति । अतः भवती मम प्रिया । किन्तु वराकी द्वितीयातिथिः कदापि न भवेत् । यतः सा शालारम्भकारिणी अस्ति ।'

चाटुचणकः(शिवः)


अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां च भिक्षाटनम् ॥

कदाचित् कश्चन अर्थी राजानं याचितुम् आगतः । सः अवदत् - 'महाराज ! लोके भगवतः शिवस्य अभावः जातः अस्ति' इति ।
'कथमेतत् ?' इति पृष्टं राज्ञा ।
'शिवस्य अर्धं विष्णुना स्वीकृतं, पुनरर्धं पार्वत्या हृतम् । (अर्धनारीश्वरत्वात्) एवं विष्णुना पार्वत्या च अर्धं पुनरर्धं च हृतम् इत्यतः शिवस्य अभावः समुत्पन्नः ।'
'
एवं तर्हि शिवं श्रितवतां गङ्गाचन्द्रादीनां का गतिः ?' - राजा अपृच्छत् ।
'गङ्गा सागरं गता । चन्द्रकला आकाशम् अगमत् । सर्पः पातालम् अगच्छत् । शिवस्य सर्वज्ञत्वम् ईश्वरत्वं च त्वां प्राप्नोत् । वराकं भिक्षाटनं तु मया प्राप्तम्' इति अवदत् अर्थी ।
तस्य चाटूक्तिं श्रुतवान् राजा प्रभूतं धनं दत्तवान् इति किं पुनर्वक्तव्यम् ?




सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया ।
श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितम् मा स्त्रीलम्पट मा स्पृशेति गदितो गौर्या हरः पातु वः ॥

शिवस्य पत्नी पार्वती । सा पतिव्यवहारे स्त्रीलम्पटत्वं पश्यति । सा पतिं वदति - 'जनानां पुरतः एव बद्धाञ्जलिः सन् त्वं सन्ध्यां याचसे । नदीं गङ्गां निर्लज्जं शिरसि धरसि । अमृतमन्थनावसरे विष्णुना लक्ष्मीः प्राप्ता इत्यतः विषण्णमनस्कः सन् त्वं विषं पीतवान् । एवं तव स्त्रीलम्पटत्वं नितराम् असह्यम् । अतः मां मा स्पृश' इति ।
वस्तुतः तु शिवेन सन्ध्या (स्त्री) नमस्कृता कर्तव्यबुद्ध्या । लोकोपकाराय एव तेन गङ्गा (स्त्री) शिरसि धृता । घोरं विषम् अपि तदर्थम् एव निर्भीति पीतम् । किन्तु पार्वती अत्र सर्वत्र स्त्रीलम्पटत्वं पश्यति !! सन्देहदग्धमनस्काः एवमेव खलु चिन्तयन्ति ?




न विवाहितः कुमारः नास्ति द्वितीयो बलीवर्दः ।
स्वयमपि भिक्षाचारी तदिह कपर्दीति दुर्वादः ॥

शिवः कपर्दी इति निर्दिश्यते । कपर्दः इत्यस्य अर्थद्वयं - शिवस्य जटाजूटः, अल्पमूल्यकः नाणकविशेषः चेति । शिवस्य कपर्दी इति नाम तु जटाजूटकारणतः । तथापि तस्यैव पदस्य अन्यम् अर्थं मनसि निधाय चाटुश्लोककारः कश्चित् वदति - 'शिवस्य पुत्रः अविवाहितः । (अतः एव कुमारः इति तस्य नाम !) एकः एव वृषभः अस्ति तन्निकटे । अपरस्य क्रयणे धनं नास्ति तस्य । स्वयं च भिक्षाटनं करोति उदरपूरणाय । अतः एव कपर्दी’ (अल्पधनयुक्तः) इति निर्दिश्यते सः' इति ।



 
एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ?
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते दृश्यं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥

शिवः शिरसि गङ्गां धरति । शिरसि अन्यस्याः स्थापनं पत्नी पार्वती न सहते । अतः कदाचित् पार्वती पृष्टवती - 'एषा का भवत्समीपे ?' इति । 'कस्याः विषये पृष्टं भवत्या ?' इति शिवः अपृच्छत् । 'या भवतः शिरसि तिष्ठति तस्याः विषये पृच्छामि ।' 'तत्र तु जटा अस्ति !' 'किं जटायां हंसः विहरेत् ?' 'हंसः क्व ? स तु चन्द्रः ।' 'चन्द्रः किं जले तिष्ठति ?' 'न तत्र जलम् । भस्मनः छटा दृश्यते तत्र ?' 'किं भस्मनि तरङ्गाः उत्पद्यन्ते ?' एवं शिरसि स्थितां गङ्गां निगूहितुम् इच्छन् शिवः सर्वान् पातु ।




सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गुणः ॥
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं किं मे स्यादिति चिन्तयन्निव कृशो भृङ्गी चिरं पातु वः ॥

भृङ्गी शिवस्य सेवकः । स्वामिना योग्यं वेतनं दीयेत चेदेव भृत्यस्य सन्तोषः । स्वामी शिवः न क्वापि उद्योगं करोति । कृष्यादिकार्यमपि न करोति । वाणिज्यादिवृत्तिरपि शिवस्य नास्ति । पित्रार्जिता सम्पत्तिः तु शून्या एव । बान्धवाः अपि न हि धनिकाः । स्त्रीव्यसनम् अपि अस्ति । अतः एतस्य स्वामिनः हस्ते कदापि धनं भवितुं नार्हति । एतादृशः अकिञ्चनः जनः मया स्वामित्वेन वृतः !! एषः मह्यं वेतनत्वेन किं वा दद्यात् इत्येवं चिन्तयन् भृङ्गी दिने दिने कृशतां प्राप्नुवन् अस्ति ।




मतर्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्त्याञ्जलिम्
शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥

कदाचित् शिवः ध्यानमग्नः आसीत् । तदा सः करस्य उपरि करं स्थापयित्वा उपविष्टः आसीत् । तत् दृष्ट्वा बालकः गुहः मातरं पृष्टवान् - 'अम्ब ! तातस्य अङ्गुलिपुटे किम् अस्ति ?' इति । तदा विनोदाय पार्वती उक्तवती - 'वत्स ! तत्र स्वादुफलम् अस्ति ।' गुहेन पृष्टम् - 'तत् सः मह्यं किमर्थं न ददाति ?' पार्वत्या उक्तम् - 'भवान् एव गत्वा तत् स्वीकरोतु' इति । गुहः झटिति गत्वा पितुः करं गृहीत्वा आकृष्टवान् । एतेन शिवस्य ध्यानस्थितिः भग्ना । पुत्रस्य कृत्यं दृष्टवतः तस्य हासः आगतः । स च हासः भवतः सर्वान् रक्षतु ।




कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम्
केकामेकां कुरु पशुपतिर्नैव दृष्टे विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवायाः
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥

कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - 'कः भवान् ?' शिवः अवदत् - 'अहं शूली ।' शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - 'वैद्यसमीपं गच्छतु ।' शिवः अवदत् - 'अहं नीलकण्ठः ।' मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - 'भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु' इति । शिवः अवदत् - 'अहं पशुपतिः ।' पार्वती अवदत् - 'पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?' इति । 'अहं स्थाणुः अस्मि' - शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति - 'स्थाणुः न वदति' इति । 'अहं शिवायाः पतिः' इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति - 'भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु' इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।




रामाद्याचय मेदिनीं धनपर्तेर्बीजं बलाल्लाङ्गलम्
प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलं तव ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे
खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः ॥

कदाचित् पार्वती शिवम् उक्तवती - 'भवतः भिक्षायाचनं दृष्ट्वा अहं खिन्ना अस्मि । अतः कृपया कृषिं करोतु' इति । तदा शिवः अपृच्छत् - 'किं कृषिः सुका ? तदर्थं नास्ति भूमिः अस्माकम् । जीबहलादयः न सन्ति । वृषभाः न सन्ति । वृषभाः यदि भवेयुः तर्हि तेषां पोषणरक्षणादिकं करणीयम् । किम् एतत्सर्वं शक्यम् ?' इति । तदा पार्वती अकैकम् अपि समस्या परिहरन्ती अवदत् - 'परशुरामः समग्रभूमण्डलमेव स्ववशीकृतवान् अस्ति । ततः भूमिं प्राप्नोतु । कुबेरः धनधान्याधिपः । सः भवतः मित्रम् । ततः बीजार्थं धान्यं प्राप्नोतु । यमात् महिषं प्राप्नोतु । भवतः वृषभः अस्ति एव । अतः तौ एव हले योजयामः । भवतः त्रिशूलं हलाग्रं (फालं भवतु) कृषिसमये आहारम् आनीय दातुं गोपोषणार्थं च अहम् अस्मि । स्कन्दः गोरक्षणं करिष्यति । एवं विशेषव्ययं विना कृषिः शक्या' इति ।
एतादृशानि जौरीवचनानि भवतः सर्वान् रक्षन्तु ।




स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेत् गृहे ॥

शिवः पञ्चभिः मुखैः युक्तः । पञ्च अपि मुखानि खादनम् इच्छन्ति । शिवस्य एकः पुत्रः गजाननः । अतः एव गजवत् प्रभूतं खादति सः । अपरः पुत्रः षडाननः । एवं पूरणीयानि उदराणि बहूनि । ईश्वरः तु स्वयं दिगम्बरः, अतः एव अकिञ्चनः । तथापि तस्य जीवनं कथं प्रचलतिइति वा भवतां सन्देहः ? पत्न्याः अन्नपूर्णायाः कृपा । अन्नपूर्णा सा सर्वेभ्यः प्रभूतम् अन्नं दातुं समर्था । एवं पत्नीकृपातः शिवः सुखेन जीवति !




विष्णोरागमनं निशम्य सहसा कृत्वा फणीन्द्रं गुणं
कौपीनं परिधाय चर्म कठिनं शम्भौ पुरो धावति ।
दृष्ट्वा विष्णुरथं सकम्पहृदयः सर्पोऽपतद्भूतले
कृत्तिर्विस्खलिता ह्रिया नतमुखो नग्नो हरः पातुः वः ॥

कदाचित् विष्णुः शिवस्य गृहम् आगतवान् । विष्णोः आगमनं ज्ञात्वा शिवः कठिनचर्म धृत्वा तदुपरि सर्पं रज्जुत्वेन बद्ध्वा स्वागतार्थं वेगेन गतवान् । विष्णोः वाहनं गरुडः खलु ? तं दृष्ट्वा सर्पः नितरां भीतः । ततः सः पलायितवान् । रज्जुरूपस्य सर्पस्य अभावतः शिवस्य कटौ स्थितं चर्म अपतत् । तदा शिवस्य कीदृशी स्थितिः स्यात् इति भवन्तः एव ऊहन्ताम्... । एतया घटनया लज्जाकारणतः अवनतमुखः सन् स्थितः शिवः भवतः सर्वान् पातु ।




हलमगु बलस्यैकोऽनड्वान् हरस्य न लाङ्गलम्
क्रमपरिमिता भूमिविर्र्ष्णोः न गौर्न च लाङ्गलम् ।
प्रभवति कृषिर्नाद्याप्येषां द्वितीयगवं विना
जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥

बलरामः हलवान्, किन्तु तस्य वृषभः नास्ति । अतः सः हलयुक्तोऽपि कृषिं तु कर्तुं न शक्नोति । शिवस्य वृषभः अस्ति, किन्तु न हलम् । तस्मात् सोऽपि कृषिं कर्तुं न शक्नोति । विष्णोः अल्पा भूमिः अस्ति, (त्रिपादपरिमिता) किन्तु न वृषभः, न वा लाङ्गलम् । एवम् एते त्रयः अपि अन्यसाहाय्यं विना स्वातन्त्र्येण कृषिं कर्तुं न अर्हन्ति । एवं साधनराहित्यरूपेण दारिद्र्येण युक्तं कुटुम्बकं जगति अन्यत्र न दृश्यते प्रायः ।




स्वयं महेशः श्वशुरो नगेशः
सखा धनेशः तनयो गणेशः ।
तथापि भिक्षाटनमेव शम्भोः
बलीयसी केवलमीश्वरेच्छा ॥

ईश्वरः अकिञ्चनः, भिक्षया जीवनं करोति इति सर्वे जानन्ति एव । किन्तु तस्य योग्यता न सामान्या । सः स्वयं जगदीश्वरः । कस्यचित् राज्यस्य प्रभोः एव कियत् ऐश्वर्यं भवति इति वयं जानीमः । जगतः एव ईश्वरः महत् र्एश्वर्यं प्राप्तुम् अर्हेत् एव । तस्य श्वशुरः हिमालयः रत्नानाम् आकरः । धनदः कुबेरः तस्य मित्रम् । आदिपूज्यः गणाधिपः तस्य पुत्रः । एवम् अत्युत्कृष्टा पारिवारिकी स्थितिः अस्ति चेदपि शिवः अद्यापि भिक्षाटनेन जीवनं यापयति । सर्वं खलु विधिविलसितम् !




कलङ्की शीतांशुः कुटिलहृदया सापि तटिनी
पशुर्नन्दी सोऽयं कठिनहृदया शैलतनया ।
निषेधादन्येषां सततसमवेते दयितया
कृतां वा मद्भक्तिं भव भवति विज्ञापयति कः ॥

कश्चन भक्तः परशिवे भक्तिम् अकरोत् । किन्तु सा भक्तिः भगवता न ज्ञायते इति विषादः तस्य । भक्तस्य भक्तितीव्रता भगवता ज्ञायेत एव खलु इति चिन्तयेयुः भवन्तः । किन्तु कविः वदति - 'मद्भक्तिज्ञानाय अनुकूलः परिसरः नास्ति भगवतः समीपे । शिवं परितः ये सन्ति ते नहि अनुकूलाः । भगवतः पार्श्वे चन्द्रः, गङ्गा, नन्दी, पार्वती इत्यादयः भवन्ति । तेषु चन्द्रः तु कलङ्कित्वेन विख्यातः । गङ्गा तु वक्रगतियुक्ता । नन्दी तु स्वयं पशुः (अतः विवेकहीनः ) पार्वती तु पर्वतपुत्री । पर्वतात् जातायाः हृदयं कठिनम् एव खलु भवेत् । शिवः सदा पत्न्या युक्तः एव भवति (अर्धनारीश्वरत्वात्) इत्यतः अन्यः तत्समीपं गन्तुं नार्हति । अतः एव मम भक्तिं शिवः अवगन्तुं नार्हति' इति ।




कलङ्की शीतांशुः कुटिलहृदया सापि तटिनी पशुर्नन्दी सोऽयं कठिनहृदया शैलतनया ।
निषेधादन्येषां सततसमवेते दयितया कृतां वा मद्भक्तिं भव भवति विज्ञापयति कः ॥

कश्चन भक्तः शिवम् उद्दिश्य एवं वदति - 'भगवन् ! अहम् अनन्यां भक्तिं वहामि भवति । किन्तु सा च भक्तिः भवता न ज्ञायते । मद्भक्तिं भवन्तं कोऽपि न निवेदयति । भवन्तं परितः ये सन्ति ते गुणेन न उत्कृष्टाः । चन्द्रः स्वयं कलङ्कग्रस्तः । गङ्गा तु कुटिलहृदया । नन्दी तु अज्ञः पशुः । पार्वती तु कठिनहृदया । (पर्वतस्य पुत्री पर्वतसदृशी एव खलु स्यात् ?) एतादृशाः मम भक्तिं भवन्तं कथं वा निवेदयेयुः ? अर्धनारीश्वरः भवान् तु सदा पत्न्या आश्लिष्टः एव भवति । तस्मात् भवान् अपि मम भक्तिम् अभिज्ञातुं न शक्नोति ।'




श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतुराननाय ।
शार्दूलचर्म भुजगाभरणं सभस्म दत्तं निशम्य गिरिजाहसितं पुनातु ॥

'षण्मुखः जातः' इत्येतां वार्तां श्रुत्वा नितरां सन्तुष्टः शिवः वार्ताम् आनीतवते ब्रह्मदेवाय शार्दूलचर्म, भस्म, सर्पाभरणं च अपनीय दत्तवान्इत्येषा वार्ता पार्वत्या श्रुता । (शिवसमीपे दानयोग्यम् आसीत् खलु तावन्मात्रमेव !) पत्युः एतादृशं विलक्षणं व्यवहारं श्रुत्वा सा मनसा हसितवती ।




अत्तुं वाञ्छति वाहनं गणापतेराखुं क्षुधार्थः फणी
तञ्च क्रौञ्चपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्रुसुतामसूयति कलानाथं कपालानलो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥

शिवः हालाहलं यत् पीतवान् तस्य कारणं भङ्ग्यन्तरेण विवृणोति अपरः कविः गणपतेः वाहनं खादितुम् इच्छति बुभुक्षितः सर्पः । तं च सर्पं खादितुम् इच्छति मयूरः, यश्च षणमुखस्य वाहनम् । गिरिजायाः वाहनं सिंहः गजमुखं गणपतिं दृष्ट्वा क्रोधेन सदा गर्जति । तं च मारयितुम् इच्छति । गौरी सपत्न्याः जाह्नव्याः उपस्थितिं न सहते । तथैव चन्द्रस्य स्थितिं कपालानलः न सहते । एतस्य सर्वस्य कारणतः शिवस्य कुटुम्बे सदा कलहः । एतां कलहस्थितिं कथमपि निवारयितुम् अशक्नुवन् शिवः निर्वेदं प्राप्य हालाहलं पीतवान् ।




वृद्धोक्षः प्रपलायते प्रतिदिनं सिंहावलोकाद्भिया
पश्यन् मत्तमयूरमन्तिकचरं भूषाभुजङ्गव्रजः ।
कृत्तिं कृन्तति मूषकोऽपि रजनौ भिक्षान्नमाभक्षयन्
दुःखेनेति दिगम्बरः स्मरहरो हालाहलं पीतवान् ॥

हालाहलं घोरं विषं, प्राणापहारकं च । तत् शिवः किमर्थं पीतवान् इति किं भवन्तः जानन्ति ? तस्य कारणं वदति कश्चन चाटुपद्यकारः इत्थम्
पार्वत्याः वाहनं सिंहं दृष्ट्वा शिवस्य वाहनं वृद्धवृषभः पलायते । षण्मुखस्य वाहनं मयूरं दृष्ट्वा भूषणार्थं धृताः सर्पाः अपि पलायन्ते । गणपतेः वाहनं मूषिकः भिक्षया प्राप्तम् अपि अन्नं रात्रौ खादन् चर्म दन्तैः विदारयन् नाशयति । एवं गृहे अनेके क्लेशाः । एतत्सर्वं सोढुम् अशक्नुवन् शिवः हालाहलं पीतवान् । यः क्लेशबाहुल्यं सोढुं न शक्नोति तस्य आत्महत्या एव खलु शरणम् ?




एका भार्या समररसिका निम्नगा च द्वितीया
पुत्रोऽप्येको द्विरदवदनो ष्ण्मुखश्च द्वितीयः ।
नन्दी भृङ्गी च कपिवदनो वाहनं पुङ्गवेशः
स्मारं स्मारं स्वगृहचरितं भस्मदेहो महेशः ॥

विष्णोः तु गृहे सुखं नास्ति । किं शिवस्य तत् अस्ति ? '' इति वदति कश्चन चाटुश्लोककारः । शिवस्य गृहक्लेशः एवम्- शिवस्य पत्नी दुर्गा सर्वदा युद्धासक्ता । यत्र युद्धं तत्र गन्तुकामा । अपरा गङ्गा सर्वदा अधोगतिम् एव इच्छति । (नदी अधोमुखं प्रवहति खलु ? ) एकः पुत्रः गजमुखः । अतः एव असुन्दरः । अपरः षणमुखः सन् लोकविलक्षणतया राजते । गणेषु अन्यतमः भृङ्गी कपिवदनः । वाहनं च वृद्धवृषभः । एवं गृहे सुखहेतुकं किमपि नास्ति सर्वथा । अतः एव वैराग्यं प्राप्य शिवः भस्म धृत्वा श्मशानवासी जातः ।




उदरद्वयभरणभयात् अर्धाङ्गाहितदारः ।
यदि नैव तस्य सुतः कथमद्यापि कुमारः ॥

शिवः अर्धनारीश्वरः इति तु सर्वे जानन्ति । किन्तु सः किमर्थं तादृशं रूपं धृतवान् इति तु केचन एव जानीयुः ।
दारिद्र्यम् एव अर्धनारीश्वरत्वस्य कारणम् । यदि पत्नी पार्थक्येन स्यात् तर्हि उदरद्वयं पूरणीयं भवति स्वस्य पत्न्याः चेति । अतः एव शिवः अर्धनारीश्वरत्वं प्राप्य अपरोदरस्य पूरणस्य कष्टं निवारितवान् । एवं नइति वदेयुः भवन्तः । यदि एवं न स्यात् तर्हि स्वस्य पुत्रस्य विवाहः अद्यावधि किमर्थं तेन न निर्वर्तितः ? तदीयः पुत्रः अद्यापि किमर्थं 'कुमारः' (अविवाहितः) एव तिष्ठति ? अतः सिद्धं यत् स्नुषा पोषणीया भवेत् इत्यतः शिवः पुत्रस्य विवाहं न निर्वर्तितवान् इति, पत्नी पोषणीया भवेत् इत्यतः सः अर्धनारीश्वरः जातः इति च ।




सहस्रास्यो नागः प्रभुरपि मतः पञ्चवदनः
षडास्यो हन्तैकस्तनय इतरो वारणमुखः ।
सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति
श्वसत्यां पार्वत्यामथ जयति शम्भुः स्मितमुखः ॥

शिवस्य गृहस्य स्थितिः विलक्षणा । तदीयः सर्पः सहस्रमुखः । शिवः स्वयं पञ्चमुखः । एकः पुत्रः षण्मुखः । अपरः गजमुखः । एतेषां सर्वेषाम् उदरपूरणं कथम् इति पार्वत्याः चिन्ता । आयः तु कोऽपि नास्ति । भिक्षा एव शरणं सदापि । 'कथं गृहपोषणम् ?' इति पार्वती शिवं पृच्छति दीर्घं निश्श्वसती । शिवः तु निरातङ्कः सन् हसति !!

चाटुचणकः(संस्कृतम्)


नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥
कश्चन अचिन्तयत् - 'मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः' इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् ।
अतः सः विषादेन वदति - 'मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः' इति ।
'मनश्शब्दः' नपुंसकः अस्ति चेत् 'मनः' अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।




काचं मणिं काञ्चनमेकसूत्रे ग्रथ्नातु बाला किमिहात्र चित्रम् ।
अशेषवित् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमूचे ॥

कदाचित् काचित् बालिका काञ्चनमणिभिः हारं रचयन्ती आसीत् । मध्ये मध्ये तया काचमणयः अपि योजिताः आसन् । सुवर्णमणिभिः सह स्थिताः काचमणयः अपि सुवर्णमणिवत् भासन्ते इत्यतः तया भ्रान्त्या एवं कृतम् आसीत् । एतत् दृष्ट्वा कश्चित् तस्याः अविवेकिताम् अनिन्दत् । तदा अपरः अवदत् - 'काचमणीन् काञ्चनमणीन् च एकसूत्रतया योजयित्वा एषा हारं रचितवती इत्येतत् न महते अपराधाय । यतः एषा तु अल्पवयस्का बाला । किन्तु आश्चर्यं नाम सर्वं जानन् पाणिनिः एव श्वानं, युवकम्, इन्द्रं च एकसूत्रतया योजितवान् अस्ति' इति ।
(पाणिनिः 'श्वयुवमघोनाम्....' इति व्याकरणसूत्रं रचयन् स्वसूत्रे शुनकं, युवकम्, इन्द्रं च एकत्रैव निवेशितवान् अस्ति ।)

3 टिप्‍पणियां:

  1. शब्दार्थसहित हिन्दी वा अंग्रेजी मे भी अर्थ लिखे, कृपया ।

    जवाब देंहटाएं
  2. जितना अन्य भाषाओं मे भी बताएंगे, उतने संस्कृत की जानकारी लेने हेतु अधिक लोग प्रोत्साहित होंगे ।

    जवाब देंहटाएं
  3. जितना अन्य भाषाओं मे भी बताएंगे, उतने संस्कृत की जानकारी लेने हेतु अधिक लोग प्रोत्साहित होंगे ।

    जवाब देंहटाएं