लेखननियमाः


1.       मकारलेखनम्
संस्कृतभाषां देवनागरीलिप्या लेखनावसरे मकारलेखनविषये अवश्यम् अवधातव्यम् । अधः कानिचन वाक्यानि लिखितानि सन्ति । कृपया परिशील्यताम् ।
अन्तर्विषयाः
स्वरे परे
१ माता अनुजं आहूतवती । २ गिरीशः मधुरं इच्छति । ३ ललिता कारणं ऊहते ।
उपरितनेषु वाक्येषु अनुस्वारः यः लिखितः सः दोषाय ।
प्रथमवाक्ये 'अनुज'शब्दे जकारोत्तरम् अनुस्वारः लिखितः अस्ति । तस्य पुरतः ''कारः अस्ति ।
द्वितीयवाक्ये 'मधुर'शब्दे रकारोत्तरम् अनुस्वारः लिखितः । तस्य पुरतः ''कारः अस्ति ।
तृतीयवाक्ये 'कारण'शब्दे णकारोत्तरम् अनुस्वारः लिखितः । तस्य पुरतः ''कारः अस्ति ।

नियमः
 - अनुस्वारात् स्वरे परे मकारः एव लेखनीयः, न तु अनुस्वारः ।

अतः तानि वाक्यानि एवं लेखनीयानि ।
१ माता अनुजम् आहूतवती । २ गिरीशः मधुरम् इच्छति । ३ ललिता कारणम् ऊहते ।
व्यञ्जने परे
१ शिशुः कन्दुकम् नयति । २ नव्या शाटिकाम् पश्यति । ३ विक्रमः मित्रम् ताडयति ।
उपरितनेषु वाक्येषु अनुस्वारस्य स्थाने मकारस्य लेखनं दोषाय ।
प्रथमवाक्ये 'कन्दुक'शब्दे ककारोत्तरम् मकारः लिखितः अस्ति । तस्य पुरतः ''कारः अस्ति ।
द्वितीयवाक्ये 'शाटिका'शब्दे काकारोत्तरम् मकारः लिखितः अस्ति । तस्य पुरतः ''कारः अस्ति ।
तृतीयवाक्ये 'मित्र'शब्दे रकारोत्तरम् मकारः लिखितः अस्ति । तस्य पुरतः ''कारः अस्ति ।

नियमः
 - अनुस्वारात् व्यञ्जने परे अनुस्वारः एव लेखनीयः, न तु मकारः । अतः तानि वाक्यानि एवं लेखनीयानि ।
१ शिशुः कन्दुकं नयति । २ नव्या शाटिकां पश्यति । ३ विक्रमः मित्रं ताडयति ।
वाक्यस्य अन्ते
१ सुमनया क्षीरं पीतं ।
२ सन्दीपेन कार्यं करणीयं ।
३ महेशेन पद्यं पठितं ।

नियमः
 - अवसाने अपि मकारः एव लेखनीयः ।

अतः तानि वाक्यानि एवं लेखनीयानि ।
१ सुमनया क्षीरं पीतम् ।
२ सन्दीपेन कार्यं करणीयम् ।
३ महेशेन पद्यं पठितम् ।

अभ्यासः

अधः दत्तानि वाक्यानि शुद्धं लिखत ।
१ सात्त्विकजीवनम् यापितवान् कश्चन वृद्धः कदाचित् शय्यां आश्रितवान् ।
२ किञ्चित् श्रीगन्धचूर्णं पुष्पम् फलं च आनीयतां ।
३ सत्यं उक्तं भवता ।
४ अन्येन दत्तम् स्वीकर्तुं न इच्छति मम मित्रं ।
५ अनुजेन सह अधिकम् सम्भाषणम् न कृतं ।

परसवर्णलेखनम्
संस्कृतभाषां देवनागरीलिप्या लेखनावसरे केषुचित् विषयेषु अवधातव्यं भवति । तेषु अनुस्वार-मकारयोः लेखनं कश्चन विषयः। अपरः अंशः अस्ति परसवर्णलेखनम् । अत्र सः विषयः प्रस्तूयते ।
नित्यम्
अधः लिखितानि पदानि परिशीलयत ।
अंगणम् पंकजम्, क्रौंचः,
गांधारम्, किंतु, गच्छंति,
चिंतयति, चंद्रः, शांतिः,
परंपरा, चंपकम्, तंबूरम्
कंटकः, अंडम्, कंडोलः
किम् एतानि शुद्धानि ? न ।
अनुस्वारस्य पुरतः वर्गीयव्यञ्जनानि यवलाश्च यदा भवन्ति तदा सदृशः परसवर्णः लेखनीयः ।

सूत्रम्
 - अनुस्वारस्य ययि परसवर्णः (८-४-५८) इति पाणिनिसूत्रम् ।
एतादृशेषु स्थलेषु परसवर्णरहितानि (अनुस्वारसहितानि) रूपाणि असाधूनि एव । अतः उपरिलिखितानां शब्दानां शुद्धानि रूपाणि एवं सन्ति -
अङ्गणम् पङ्कजम्, क्रौञ्चः,
गान्धारम्, किन्तु, गच्छन्ति,
चिन्तयति, चन्द्रः, शान्तिः,
परम्परा, चम्पकम्, तम्बूरम्
कण्टकः, अण्डम्, कण्डोलः
इदं नित्यं सम्भवति ।
विकल्पेन
पदान्ते तु परसवर्णः विकल्पेन ।


सूत्रम्
 - अनुस्वारस्य ययि परसवर्णः (८-४-५८) इति पाणिनिसूत्रम् ।
अतः
सङ्घटनम् / संघटनम्
सञ्चयः / संचयः
सम्भवति / संभवति
इति रूपद्वयमपि साधु एव । उपसर्गस्य पदत्वं (पदसंज्ञा) अस्ति इत्यतः ।
अभ्यासः
अधः दत्तान् शब्दान् शुद्धं लिखत ।
किंचित्
भूखंडः
गंतुम्
पारांतरितम्
संक्षिप्तम्
दंपती
संबंधः


द्वित्वम्
केषाञ्चित् पदानां लेखनावसरे केचन वर्णाः द्विवारं लेखनीयाः भवन्ति । उच्चारणश्रवणात् एतत् द्वित्वं यद्यपि न अनुभवगोचरतां याति, तथापि लेखनावसरे तु तत् लेखनीयम् एव । कानिचन उदाहरणानि अधः दत्तानि सन्ति -
द्वित्वम् (सामान्यम् - १)
अशुद्धानि
शुद्धानि
महत्वम्
महत्त्वम् (महत् + त्वम्)
सत्वम्
सत्त्वम् (सत् + त्वम्)
तत्वम्
तत्त्वम् (तत् + त्वम्)
सात्विकम्
सात्त्विकम्
उज्वलः
उज्ज्वलः (उत् + ज्वल)
पाश्चात्यः
पाश्चात्त्यः (पश्चात् + त्यक्)
कार्तिकमासः
कार्त्तिकमासः
तज्ञः
तज्ज्ञः (तत् + ज्ञः)
कित्वम्
कित्त्वम् (कित् + त्वम्)
छित्वा
छित्त्वा ‌(छिद् + त्वा)
भित्वा
भित्त्वा (भिद् + त्वा)
उध्वस्तः
उद्ध्वस्तः (उत् + ध्वस्तः)




1 टिप्पणी: