शनिवार, 8 नवंबर 2014

प्राचीन वंशावली


भारतस्य इतिहासः अतिप्राचीनः अस्ति । नैके राजानः इमां पुण्यभूमिं, त्यागभूमि, धर्मभूमिं प्राशासयन् । तेषु केषाञ्चन नामानि अत्र प्रदत्तानि ।
यादवकुलम्
मनुः  · इला  · पुरूरवाः  · आयुः  · नहुषः  · ययातिः  · यदुः  · क्रोष्टुः  · वृजिनिवान्  · स्वाहिः  · रुशद्गुः  · चित्ररथः  · शशबिन्दुः  · पृथुश्रवः  · अन्तरः  · सुयज्ञः  · उशीनरः  · शिनेयुः  · मरुत्  · कम्बलबर्हिः  ·रुक्मकवचः  · परावृत्  · ज्यामघः  · विदर्भः  · क्रथभीमः  · कुन्तिभोजः  · धृष्टः  · निर्वृतिः  · विदूरथः  · दशार्हः  · व्योमन्  · जीमूतः  · विकृतिः  · भीमरथः  · रथवरः  · दशरथः  · एकादशरथः  · शकुनिः  · करम्भ  ·देवरातः  · देवक्षत्रः  · देवनः  · मधुः  · पुरुवशः  · पुरुद्वन्तः  · जन्तु  · सत्वन्तः  · भीमसेनः  · अन्धकः  · कुकुरः  · वृष्णि  · कपोतरोमनः  · विलोमी  · नल  · अभिजित्  · पुनर्वसु  · उग्रसेन  · कंस  · कृष्ण  · शाम्ब
पौरवकुलम्
मनु  · इला  · पुरुरवस्  · आयु  · नहुष  · ययाति  · पूरु  · जनमेजय  · प्राचीन्वन्त्  · प्रवीर  · मनस्यु  · अभयद  · सुधन्वन्  · बहुगव  · संयति  · अहंयाति  · रौद्राश्व  · ऋचेयु  · मतिनार  · तंसु  · दुष्यन्त  · भरत  ·भरद्वाज  · वितथ  · भुवमन्यु  · बृहत्क्षत्र  · सुहोत्र  · हस्तिन्  · अजमीढ  · नील  · सुशान्ति  · पुरुजानु  · ऋक्ष  · भृम्यश्व  · मुद्गल  · ब्रह्मिष्ठ  · वध्र्यश्व  · दिवोदास  · मित्रयु  · मैत्रेय  · सृञ्जय  · च्यवन  · सुदास  ·संवरण  · सोमक  · कुरु  · परीक्षित  · जनमेजय  · भीमसेन  · विदूरथ  · सार्वभौम  · जयत्सेन  · अराधिन  · महाभौम  · अयुतायुस्  · अक्रोधन  · देवातिथि  · ऋक्ष २  · भीमसेन  · दिलीप  · प्रतीप  · शन्तनु  ·भीष्म  · विचित्रवीर्य  · धृतराष्ट्र  · पाण्डव  · अभिमन्यु
अयोध्याकुलम्
मनु  · इक्ष्वाकु  · विकुक्षि-शशाद  · कुकुत्स्थ  · अनेनस्  · पृथु  · विष्टराश्व  · आर्द्र  · युवनाश्व  · श्रावस्त  · बृहदश्व  · कुवलाश्व  · दृढाश्व  · प्रमोद  · हरयश्व  · निकुम्भ  · संहताश्व  · अकृशाश्व  · प्रसेनजित्  · युवनाश्व २ · मान्धातृ  · पुरुकुत्स  · त्रसदस्यु  · सम्भूत  · अनरण्य  · त्रसदश्व  · हरयाश्व २  · वसुमत  · त्रिधनवन्  · त्रय्यारुण  · सत्यव्रत  · हरिश्चन्द्र  · रोहित  · हरित  · विजय  · रुरुक  · वृक  · बाहु  · सगर  · असमञ्जस्  ·अंशुमन्त्  · दिलीप १  · भगीरथ  · श्रुत  · नाभाग  · अम्बरीश  · सिन्धुद्वीप  · अयुतायुस्  · ऋतुपर्ण  · सर्वकाम  · सुदास  · मित्रसह  · अश्मक  · मूलक  · शतरथ  · ऐडविड  · विश्वसह १  · दिलीप २  · दीर्घबाहु  · रघु · अज  · दशरथ  · राम  · कुश  · अतिथि  · निषध  · नल  · नभस्  · पुण्डरीक  · क्षेमधन्वन्  · देवानीक  · अहीनगु  · पारिपात्र  · बल  · उक्थ  · वज्रनाभ  · शङ्खन्  · व्युषिताश्व  · विश्वसह २  · हिरण्याभ  · पुष्य  ·ध्रुवसन्धि  · सुदर्शन  · अग्निवर्ण  · शीघ्र  · मरु  · प्रसुश्रुत  · सुसन्धि  · अमर्ष  · विश्रुतवन्त्  · बृहद्बल  · बृहत्क्षय
अन्यराजाः



http://sa.wikipedia.org/

शुक्रवार, 8 अगस्त 2014

‘ष’ वर्ण का उच्चारण


 देवनागरी लिपि का एक वर्ण है। संस्कृत से उत्पन्न कई शब्दों में इसका प्रयोग होता है, जैसे की षष्ठ, धनुष, सुष्मा, कृषि, षड्यंत्र, संघर्ष और कष्ट। अन्तर्राष्ट्रीय ध्वन्यात्मक वर्णमाला (अ॰ध॰व॰) में इसके संस्कृत उच्चारण को ʂ के चिन्ह से लिखा जाता है। संस्कृत में '' और '' के उच्चारण में काफ़ी अंतर है, लेकिन हिंदी से '' ध्वनि लगभग लुप्त हो चुकी है और इसे '' कि तरह उच्चारित किया जाता है, जिसका अ॰ध॰व॰ चिन्ह ʃ है। संस्कृत में '' और '' का एक संयुक्त अक्षर 'क्ष' भी प्रयोग होता है। संस्कृत में 'क्ष' का उच्चारण भी 'क्श' से भिन्न है हालाँकि हिंदी में इनमें अंतर नहीं है।

अघोष मूर्धन्य संघर्षी

ष के संस्कृत उच्चारण को भाषाविज्ञान के नज़रिए से "अघोष मूर्धन्य संघर्षी" वर्ण कहा जाता है। अंग्रेजी में इसे "वाएस्लेस रॅट्रोफ़्लॅक्स फ़्रिकेटिव" (voiceless retroflex fricative) या "वाएस्लेस रॅट्रोफ़्लॅक्स सिबिलॅन्ट" (voiceless retroflex sibilant) कहते हैं।

संस्कृत में

संस्कृत में '' को '' और 'ख़' के बीच की एक ध्वनि समझा जा सकता है (यह तीनों ही संघर्षी वर्ण हैं)। ध्यान दीजिये कि 'ख़' और '' दोनों कण्ठ्य ध्वनियाँ हैं और '' हिंदी में 'ख़' से अधिक प्रचलित है। इस वजह से जब '' का संस्कृत उच्चारण हिंदी से लुप्त हुआ तो कुछ प्राकृत उपभाषाओँ में '' और 'क्ष' (यानि ''+'') के स्थान पर '' कहा जाने लगा। हिंदी में ऐसे बहुत से तद्भव शब्द हैं जिनमें संस्कृत से दो चीज़ें हुई हैं:
·        
·         ष/क्ष/ष्क ख/क
इसके कई उदाहरण हैं:
·         शुष्क सूख या सूखा
·         भिक्षा भीख
·         शिक्षा सीख
·         रक्षा रख (रख-रखाव), राखी
·         धनुष धनक (कुछ हिंदी उपभाषाओं में)

पश्तो में

पश्तो की बहुत सी उपभाषाओं में कई शब्द हैं जिनमें संस्कृत-जैसी '' की ध्वनि मिलती है। इसे पश्तो के ښ अक्षर से लिखा जाता है: ध्यान रहे की उर्दू, फ़ारसी और अरबी में न यह ध्वनि मिलती है और न यह अक्षर। यह भी ध्यान रहे कि कुछ पश्तो उपभाषाओँ में '' की जगह 'ख़' उच्चारित किया जाता है। '' के पश्तो प्रयोग के कुछ उदाहरण हैं:
·         पष्तो (پښتو), अर्थ: पश्तो भाषा
·         षोदल (ښودل), अर्थ: दिखाना
·         च्षल (چښل), अर्थ: पीना

·         प्षो (پښو), अर्थ: पाऊँ (एक पाऊँ)

बुधवार, 30 जुलाई 2014

कौटलीयम् अर्थशास्त्रम्

कौटलीयम् अर्थशास्त्रम्
कौटल्यस्य परिचयः
अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः । केचन अस्य नाम "कौटिल्य" इति वदन्ति । तन्न साधु । यतः अस्य नाम कुटिलार्थकं न भवितुमर्हति । कामन्दकनीतिसारस्य "जयमङ्गलायां व्याख्यायाम् उक्तम् यत् -कौटल्य इति गोत्रनिबन्धना विष्णुगुप्तस्य संज्ञा इति । एतेन कुटलगोत्रापत्यं पुमान् "कौटल्यः" इति निरुच्यते । तथा च केशवस्वामिनः नानार्थार्णवसंक्षेपग्रन्थे "अथ स्यात् कुटलो गोत्रकृत्त्रषौ पुंसि नप् पुनः । विद्यादाभरणेऽथत्रिः कुटिलं कुञ्चिते भवेत् ॥" इत्युक्तम् । तस्मात् कौटल्यः इत्ये समीचीनम् नाम । अयं मगधेषु जातः । क्रिस्तात् पूर्वं द्वितीये तृतीये वा शतमाने कौटल्यः अर्थशास्त्रं चकारेति चरित्रकाराः वदन्ति। चणकनाम्नः ब्राह्मणस्य पुत्रः तस्मात् चाणक्यः इति अस्य नामान्तरम् । चाणक्यस्य प्रथमं नाम विष्णुगुप्त आसीदिति इतिहासात् ज्ञायते । यो हि पुरा मगधेषु नन्दान् निर्मूल्य चन्द्रगुप्तमौर्यं राजानं चकारेति श्रूयते । आचार्यविष्णुगुप्तस्य चरित्रम् विष्णुपुराणेऽपि लभ्यते । विशाखदत्तस्य मुद्राराक्षसनाटकेऽपि विशदतया वर्णितम्  क्षेमेन्द्रः ’बृहत्कथामञ्जर्यां’ सोमदेवः ’कथासरित्सागर’ विष्णुशर्मा ’पञ्चतन्त्रे’ दण्डी ’दशकुमारचरितच कौटल्यस्य इतिवृत्तं प्रस्तुवन्ति । अपि च ग्रीक देशस्य सम्राजः सेल्यूकस्नाम्नः रायभारी "मेगास्तनीसः" लिखितरूपेण कौटल्यम् विवृणोति । एतान् सर्वानुल्लेखान् अवलोक्य सिद्ध्यति यत् -" महाचतुरः, धीमान्, मौर्यसाम्राज्यस्थापनाचार्यः , कौटल्यः स्वयमेव ग्रन्थमेनम् अलिखदित्येतस्य महत्ता स्फुटा भवति
ग्रन्थपरिचयः
एष स्वग्रन्थारम्भे पूर्वाचार्यप्रणीतान् सर्वान् ग्रन्थानवेक्ष्य तेषामभिप्रायान् एकत्र सङ्गृह्य एतच्छास्त्रं कृतमिति प्रतिजानीते । ॐ नमः शुक्रबृहस्पतिभ्याम् इति अर्थशास्त्रस्य मूलपुरुषौ शुक्राचार्यं बृहस्पत्याचार्यं च ग्रन्थारम्भे स्मरति । एतस्मिन् अर्थशास्त्रे अशीत्युत्तरशतं (१८०) प्रकरणानि, पञ्चदश (१५) अधिकरणानि च वर्तन्ते । एतानि तन्त्रम्, आवापः, शेष इति त्रिषु भागेषु विभक्तानि । आदौ पञ्चाधिकरणेषु स्वदेशहितचिन्तनं प्रतिपाद्यते ।
कौटल्यः अस्मिन् ग्रन्थे आन्वीक्षिकी=तर्कशास्त्रम्, त्रयी, वार्ता, दण्डनीतिरिति चतस्रः विद्याः इति प्रत्यपादयत् । राज्ञः इन्द्रियजय एव प्रधानः जयः, इति अभिधाय कामक्रोधाद्यरिषड्वर्गवशान् पूर्वभूपान् विनष्टान् उदाहृत्य जितेन्द्रियान् यशस्विनः राज्ञः प्राशंसत् ।
अत्र द्वितीयाधिकरणे अध्यक्षचर्या निरूपितास्ति । एतदधिकरणम् अस्य ग्रन्थस्य सारसङ्ग्रह इवास्तीति विद्वांसः अभिप्रयन्ति ।
अस्मिन् ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः निर्मान्ति स्म, अपि च अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति । शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्रप्रयोगाः वर्णिताः सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च एवम् ब्रवीति । यथा-
द्ष्ट्वा विप्रतिपत्तिं बहुधा ग्रन्थेषु सूत्रकाराणाम् ।
स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥ इति ।
अस्य ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति-
येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदंकृतम् ॥ इति ।
ग्रन्थकर्तृप्रशस्तिः
महाकविः भासः स्वस्य नाटकेषु, तथा कालिदासः माघः भारविः च स्वेषां काव्येषु अर्थशास्त्रस्य तत्वानि, चाणक्यः यथा आचचक्षे, तैरेव शब्दैः छन्दोबन्धैः प्रत्यपादयन् । अपि च एतेषां काव्यानां व्याख्यानकर्तामल्लिनाथः ’सञ्जीविनी’ ’घण्टापथइत्याख्यव्याख्यासु च मध्ये मध्ये "यदाह् कौटल्यः" इत्युक्त्वा अर्थशास्त्रस्य कानिचन वाक्यानि उदाहरति । आचार्यविष्णुगुप्तस्य शिष्यः कामन्दकः ’कामन्दकनीतिसाराख्येस्वग्रन्थे कौटल्यं प्राशंसत् यथा-
वंशे विशालवंश्यानाम् ऋषीणामिव भूयसाम् ।
अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥
जातवेदा इवार्चिष्मान् वेदान् वेदविदांवरः ।
योधीतवान् सुचतुरः चतुरोऽप्येकवेदवत् ।।
यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपात मूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥
एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः ।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ।।
नीतिशास्त्रामृतं धीमान् अर्थशास्त्रमहोदधेः ।
समुद्दद्ध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ इति ॥
अर्थशास्त्रस्य सार्वकालिकता
यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्यशास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्षदेवता इति प्रशंसापात्रं भवति ।
चाणक्यनीतिसूत्राणाम् उदाहरणानि
बहूनि प्रसिद्धानि प्रचलितानि च नीतिसूत्राणि अत्र ग्रन्थे सन्ति । तेषु दिङ्मात्रं कानिचित् अत्र उदाह्रियन्ते ।
सुखस्य मूलं धर्मः ।
धर्मस्य मूलमर्थः ।
अर्थस्य मूलं राज्यम् ।
राज्यस्य मूलमिन्द्रियजयः ।
इन्द्रियजयस्य म्ऊलंविनयः ।
विनयस्य मूलं वृद्धोपसेवा ।
प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ।
अविनीतस्वामिभावादस्वामित्वं श्रेयः ।
मन्त्रकाले न मत्सरः कर्तव्यः ।
षट्कर्णात् भिद्यते मन्त्रः ।
नातप्तलोहो लोहेन सन्धीयते ।
राज्ञः प्रतिकूलं नाचरेत् ।
नदेवचरितं चरेत् ।

पुरुषकार्यमनुवर्तते दैवम् । .....