कौटलीयम्
अर्थशास्त्रम्
कौटल्यस्य
परिचयः

ग्रन्थपरिचयः
एष
स्वग्रन्थारम्भे पूर्वाचार्यप्रणीतान् सर्वान् ग्रन्थानवेक्ष्य तेषामभिप्रायान्
एकत्र सङ्गृह्य एतच्छास्त्रं कृतमिति प्रतिजानीते । ॐ नमः शुक्रबृहस्पतिभ्याम् इति अर्थशास्त्रस्य मूलपुरुषौ
शुक्राचार्यं बृहस्पत्याचार्यं च ग्रन्थारम्भे स्मरति । एतस्मिन् अर्थशास्त्रे
अशीत्युत्तरशतं (१८०) प्रकरणानि, पञ्चदश (१५) अधिकरणानि च वर्तन्ते । एतानि तन्त्रम्, आवापः, शेष इति त्रिषु भागेषु विभक्तानि ।
आदौ पञ्चाधिकरणेषु स्वदेशहितचिन्तनं प्रतिपाद्यते ।
कौटल्यः
अस्मिन् ग्रन्थे ’आन्वीक्षिकी=तर्कशास्त्रम्, त्रयी, वार्ता, दण्डनीतिरिति चतस्रः विद्याः इति
प्रत्यपादयत् । राज्ञः इन्द्रियजय एव प्रधानः जयः,
इति अभिधाय कामक्रोधाद्यरिषड्वर्गवशान् पूर्वभूपान्
विनष्टान् उदाहृत्य जितेन्द्रियान् यशस्विनः राज्ञः प्राशंसत् ।
अत्र
द्वितीयाधिकरणे अध्यक्षचर्या निरूपितास्ति । एतदधिकरणम् अस्य ग्रन्थस्य सारसङ्ग्रह
इवास्तीति विद्वांसः अभिप्रयन्ति ।
अस्मिन्
ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः
निर्मान्ति स्म, अपि च
अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति ।
शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्रप्रयोगाः वर्णिताः
सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च
एवम् ब्रवीति । यथा-
द्ष्ट्वा
विप्रतिपत्तिं बहुधा ग्रन्थेषु सूत्रकाराणाम् ।
स्वयमेव
विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥ इति ।
अस्य
ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति-
येन
शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
अमर्षेणोद्धृतान्याशु
तेन शास्त्रमिदंकृतम् ॥ इति ।
ग्रन्थकर्तृप्रशस्तिः
महाकविः भासः स्वस्य नाटकेषु, तथा कालिदासः माघः भारविः च स्वेषां काव्येषु अर्थशास्त्रस्य तत्वानि, चाणक्यः यथा आचचक्षे, तैरेव शब्दैः छन्दोबन्धैः
प्रत्यपादयन् । अपि च एतेषां काव्यानां व्याख्यानकर्तामल्लिनाथः ’सञ्जीविनी’ ’घण्टापथ” इत्याख्यव्याख्यासु च मध्ये मध्ये "यदाह् कौटल्यः"
इत्युक्त्वा अर्थशास्त्रस्य कानिचन वाक्यानि उदाहरति । आचार्यविष्णुगुप्तस्य
शिष्यः कामन्दकः ’कामन्दकनीतिसाराख्ये’ स्वग्रन्थे कौटल्यं प्राशंसत् यथा-
वंशे
विशालवंश्यानाम् ऋषीणामिव भूयसाम् ।
अप्रतिग्राहकाणां
यो बभूव भुवि विश्रुतः ॥
जातवेदा
इवार्चिष्मान् वेदान् वेदविदांवरः ।
योधीतवान्
सुचतुरः चतुरोऽप्येकवेदवत् ।।
यस्याभिचारवज्रेण
वज्रज्वलनतेजसः ।
पपात
मूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥
एकाकी
मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः ।
आजहार
नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ।।
नीतिशास्त्रामृतं
धीमान् अर्थशास्त्रमहोदधेः ।
समुद्दद्ध्रे
नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ इति ॥
अर्थशास्त्रस्य
सार्वकालिकता
यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं
राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्यशास्त्राणां
भाषाः भिद्यन्ते, न तु
सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु
प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्षदेवता इति प्रशंसापात्रं भवति ।
चाणक्यनीतिसूत्राणाम्
उदाहरणानि
बहूनि
प्रसिद्धानि प्रचलितानि च नीतिसूत्राणि अत्र ग्रन्थे सन्ति । तेषु दिङ्मात्रं
कानिचित् अत्र उदाह्रियन्ते ।
सुखस्य
मूलं धर्मः ।
धर्मस्य
मूलमर्थः ।
अर्थस्य
मूलं राज्यम् ।
राज्यस्य
मूलमिन्द्रियजयः ।
इन्द्रियजयस्य
म्ऊलंविनयः ।
विनयस्य
मूलं वृद्धोपसेवा ।
प्रकृतिकोपः
सर्वकोपेभ्यो गरीयान् ।
अविनीतस्वामिभावादस्वामित्वं
श्रेयः ।
मन्त्रकाले
न मत्सरः कर्तव्यः ।
षट्कर्णात्
भिद्यते मन्त्रः ।
नातप्तलोहो
लोहेन सन्धीयते ।
राज्ञः
प्रतिकूलं नाचरेत् ।
नदेवचरितं
चरेत् ।
पुरुषकार्यमनुवर्तते
दैवम् । .....
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें